________________
234 उत्तराय्ययन घोरं, महानीकमनीकयोः ॥ १५४ ॥ तदा च समरं द्रषु, देवानां दिवि तस्थुपाम्॥ वीराः केऽपि व्यधुर्विघ्नं, कुर्वन्तो मण्डपं शरैः॥१५५॥कुन्तप्रोन्तान् रिपून केचि-दुइधुर्वटकानिव॥केप्यद्रीणामिवेभाना, दन्तान् दण्डैरखण्डयत्॥१५६॥ मुद्रेममृदुः केपि, घटानिव भटा रथान् ॥ परिषैश्च परान् केचि-बुक्षुदुचणकानिव ॥१५७॥ कुष्माण्डानिव केचितु, द्विपः ख.यंदारयन् ॥ केप्यभिन्दन् द्विषन्मौलीन् , गदाभिर्नालिकेरवत् ॥ १५८ ॥ केप्युत्खातेभदन्तेन, प्रजहुर्नि
पधाः॥ योद्धारः केप्ययुध्यन्त. नियद्धेन महौजसः ॥ १५९ ॥ शस्त्रमंत्रास्त्रमायाभिः, सदैवं युध्यमानयोः ॥ किंचिदूनो मास एको, व्यत्यगात्सैन्ययोस्तयोः ॥ १६० ॥ भटैः श्रीविजयस्याथा-ऽभज्यन्ताऽशनिघोपजाः ॥ ततो बुढौके युद्धाया-ऽशनिघोपनृपः खयम् ॥ १६१॥ इक्षुनुक्षेव सोऽभांक्षीत् , सुतानमिततेजसः ॥ ततः श्रीविजयो राजा, जन्यायाऽढौकत खयम् ॥१६२॥ साश्चर्यीक्षिती देवै-स्तो मियो घातवञ्चिनी ॥ उभावपि महावीयों, चक्रतुः समरं चिरम् ॥ १६३ ॥ अथ श्रीविजयभिछत्वा-ऽसिना शर्बु द्विधा व्यधात् ॥ जातावशनिघोषौ द्वौ, ते तत्खण्डे उभे ततः॥१६४॥ चत्वारोऽशनयोऽभूवं-स्तयोश्च छिन्नयोः पुनः॥ भूयोऽपि तेषु मिन्नेपु, तेनाष्टाशनयोऽभवन् ॥ १६५ ॥ प्रतिप्रहारमिति तै-चर्द्धमानैर्मुहुर्मुहुः ॥ किंकर्तव्यविमूढोऽभू-द्यावत् श्रीविजयो नृपः ॥१६६॥ तावत्तत्रामिततेजाः, सिद्धविद्यः समाययौ ॥ करीव सिंहं तं वीक्ष्या-ऽशनिघोषः पलायत ॥ १६७ ॥ तं चानेतुं
१युद्धाय । महाज्वाला-मादिदेशार्ककीर्तिसूः ॥ ततस्तमन्वधाविष्ट, सा विद्या विश्वजित्वरी ॥ १६८ ॥ तस्या नश्यन् काप्यपश्यन् , शरण्यं भृशमाकुलः ॥ विवेशाशनिघोषोऽपि, भरताद्धेऽत्र दक्षिणे ॥ १६९ ॥ तत्रः भ्रमंथ सीमाद्रौ, तत्कालो. त्पन्नकेवलम् ॥ बलदेवर्षिमचलं, सोद्राक्षीदमरैर्वृतम् ॥ १७० ॥ तमेव शरणीचक्रे-ऽशनियोपोऽपि सत्वरम् ॥ न्यवसंत ततो मोघा, महाज्वाला विहाय तम् ॥ १७१ ॥ गत्वा च वाती तां सर्वा-मुवाचामिततेजसे ॥ ततः स मुमुदे बाढं, नृपः श्रीविजयस्तथा ॥ १७२ ॥ ततः सुतारामानेतुं, प्रेष्य मारीचिखेचरम् ॥ ससैन्यौ तौ विमानस्थौ, द्राक सीमाद्रौ समेयतुः ॥ १७३ ॥ तत्र प्राणमतां भक्त्या-ऽचलकेवलिनं च तौ ॥ पुर्या चमरचंचायां, मारीचिः खेचरोsप्यगात् ॥ १७४ ॥ अहं सुतारामानेतुं, प्रहितोऽमिततेजसा ॥ आगामिहेति च स्माहा-ऽशनिघोषस्य मातरम् ॥ १७५ ॥ ततः सुतारामादाय, सीमाद्रौ सा ययौ व्रतम ॥ अर्पयामास तां च श्री-विजयामिततेजसोः ॥ १७६ ॥ तदा च क्षमयामासा-ऽशनिघोपोऽपि तौ मुदा ॥ अथ तेषां पुरषके, देशनामचलप्रभुः ॥ १७७ ॥ देशनान्ते च रामर्पि-मित्यूचेऽशनिघोपराट् ॥ न मया दुष्टभावेन, सुताराऽपहता प्रभो । ॥ १७८ ॥ किन्तु प्रतारणीविद्या, साथयित्या गृहं प्रजन् ॥ ज्योतिर्वनेऽपश्यमिमा-मुपश्रीविजयं स्थिताम् ॥ १७९॥ हेतोः कुतोऽप्यभूदस्यां, मम प्रेम बचोऽतिगम् ॥ विहायैनां पुरो गन्तुं, ततोऽहं नाऽभवं प्रभुः ॥ १८० ॥ पार्थस्थिते श्रीविजये, नैनां हर्जुमहं क्षमे ॥ प्रताउँति प्रतारण्या,नृपमेनामपाहरम् ॥१८१॥ अमूमपापां चामुंच-मातुरं मातुरन्तिके ॥ अस्यै चानुचितं किञ्चि-दवोचं वचसापि न ॥ १८२ ॥ तहि भगवन्नस्या, किं मम प्रेमकारणम् ॥ श्रीषेणादीनां ततस्ता, कथामुक्त्वेत्सवम् मुनिः ॥ १८३ ॥ श्रीषेणसत्यभामामि-नंदिताशिखिनंदिताः ॥ विपथ युग्मिनोऽभूवं-स्ततो मृत्वाऽभवन् सुराः ॥ १८४ ॥ युत्वा ततोऽपि श्रीषेणो-ऽमिततेजा अभूदसौ ॥ ज्योतिःप्रमाहा मार्यास्य, जज्ञे सा शिखिनंदिता ॥ १८५॥ जीवोऽभिनंदितायास्तु, सोऽयं श्रीविजयोऽभवत् ॥ तस्य पत्नी सुतारेयं, भामाजीवस्त्वजायत ॥ १८६ ॥ कपिलस्तु ततो मृत्वा, भ्रांत्वा तिर्यक्षु भूरिशः ॥ तापसस्य सुतो धर्म-रतोऽभूद्धर्मिलामिधः ॥ १८७ ॥ स च बालतपस्तीन, कुर्वभारम्य बाल्यतः ॥ खे यांतमन्यदाऽपश्यत् , खेचरं परमर्द्धिकम् ॥ १८८ ॥ अमुष्मात्तपसो भावि-भवे भूयासमी
शः ॥ निदानमिति सोऽकार्षी-मृत्वा च त्वमभूस्ततः ॥ १८९॥ ततः प्राग्भवसम्बन्धात् , स्नेहोऽस्यां भवतोऊभवत् ॥ शतशोऽपि मवान् याति, संस्कारः खेहवैरयोः ॥ १९ ॥ श्रुत्वेति विस्मितेष्वन्तः, सकलेवर्ककीर्तिसूः ॥ मन्योऽस्मि यदि वा नास्मी-यपृच्छत्तं मुनिप्रभुम् ॥ १९१ ॥ साधुरूचे भवादमा-झावी त्वं नवमे भवे ॥ क्षेत्रेऽत्र पंचमश्चक्री, धर्मचक्री च षोडशः ॥ १९२ ॥ तस्मिन् भवे श्रीविजयो, ज्येष्ठपुत्रो गणी च ते ॥ भावीत्याकर्ण्य तौ श्राव-धर्म खीचक्रतुर्नुपौ ॥ १९३ ॥ अथेत्यूचेऽशनिः साधु, विना सन्मार्गदेशकम् ॥ मूढः पान्थ इवारण्ये, भवे सु. चिरमभ्रमम् ॥ १९४ ॥ दिष्ट्या त्वमद्य दृष्टोऽसि, सिद्धिधर्मार्गदर्शकः ॥ तत्प्रसब प्रभो ! सद्यः, साधुधर्म प्रदेहि मे ॥ १९५ ॥ अनुज्ञातोज्य मुनिना-ऽशनिघोपो न्यधात्सुधीः ॥ खपुत्रमयघोषाख्य-मुत्संगेऽमिततेजसः ॥ १९६ ॥