________________
229
उत्तराध्ययन
तत्पुरं खपुरीसमम् ॥ विसृष्टश्वक्रिणा स्वर्ग, ययौ यक्षपतिर्युतम् ॥ १९७ ॥ चक्रेऽथ पार्थिवैस्तस्याऽभिषेको द्वादशाब्दिकः ॥ कृपालुः सोऽथ भूपालो, न्यायेनापालयत्प्रजाः ॥ १९८ ॥ भोगांवावामवाभाक्षी - सम्भोगाभोगम कुलान् ॥ मुनोऽगमयद्भूमान्, वासरानिव वत्सरान् ॥ १९९ ॥ अन्यदा दिवि देवेन्द्रः, सुधर्मासदसि स्थितः ॥ नाटकं नाटयन्नासी- द्रम्यं सौदामिनाभिधम् ॥ २०० ॥ तदा तत्रेशानकल्पा- दाययौ सङ्गमामिधः ॥ सुपर्वा रूपतेजोभ्यां, निर्जरान्निर्जयन् परान् ॥ २०१ ॥ तस्मिन् गते सुराः शक्र -मपृच्छन्निति विस्मिताः ॥ कुतोऽस्य तेजो रूपं च सर्वगीर्वाणगर्वहृत् ॥ २०२ ॥ इन्द्रः प्रोचेऽमुनाचाम्ल - वर्धमानाभिधं तपः ॥ कृतं पूर्वभवे तेजो, रूपं चास्य तदीदशम् ॥ २०३ ॥ एवंविधोऽन्योऽपि कोऽपि किमस्ति भुवनत्रये ॥ इति पृष्टः पुनर्देवै - देवराजोऽब्रवीदिदम् ॥ २०४ ॥ सनत्कुमारनामास्ति, नृहस्ती हस्तिनापुरे ॥ तस्य रूपं च तेजश्व, सुरेभ्योऽप्यतिरिच्यते ! ॥ २०५ ॥ अश्रद्दधानौ तच्छक - वचनं त्रिदशावुभौ ॥ विजयो वैजयन्तश्च विप्ररूपमुपाश्रितौ ॥ २०६ ॥ आगत्य चक्रिप्रासाद-द्वारे तस्थतुरुत्सुकौ ॥ बभूव सार्वभौमस्तु, तदा प्रारब्धमजनः ॥ २०७ ॥ [ युग्मम् ] प्रावीविशद्विशामीशो, द्वास्थेनोक्तौ तदापि तौ ॥ वैदेशि कान् दर्शनोत्कान्, विलम्बयति नो सुधीः ॥ २०८ ॥ ततस्तौ वीक्ष्य तद्रूप -मधिकं शक्रवर्णितात् ॥ प्राप्तौ वचोतिर्ग चित्रं, शिरोsधूनयतां चिरम् ॥ २०९ ॥ दध्यतुश्चेत्यहो ! अस्य, तेजः प्राज्यं खेरिव ॥ पयोधिजलवन्माना-तिगं लावयमप्यहो ! ॥२१० ॥ स्थाप्यते दृष्टिरस्याने, यत्र यत्र ततस्ततः । कीलितेव निममेव, कृच्छ्रादेव निवर्त्तते । ॥ २११ ॥ रूपं तदस्य शक्रेण, मिथ्या न खलु वर्णितम् ॥ अद्येर्ष्ययाप्यभूवावां, कृतार्थावस्य दर्शनात् ॥ २१२ ॥ शुभवन्तौ मनन्तौ भोः !, कुतो हेतोरिहागतौ १ ॥ अथेत्युक्तौ नृदेवेन, भूदेवावेवमूचतुः ॥ २१३ ॥ रूपमप्रतिरूपं ते, वर्ण्यमानं जगज्जनैः ॥ निशाम्यायामिहायातौ तद्दर्शनकुतूहलात् ॥ २१४ ॥ यादृशं च तवावाभ्यां श्रुतं रूपं जनाननात् ॥ दृश्यते सविशेषं भू-विशेषक ! ततोप्यदः ॥ २१५ ॥ ऊचे रूपमदाद्भूपो, युवाभ्यां भो द्विजोत्तमौ ! ॥ किं मे मज्जनसज्जस्य, रूपमेतन्निरूपितम् १ ॥ २१६ ॥ तत्कृत्वा मज्जनं सार-रजालङ्कारभासुरः ॥ शोभयामि सभां यावत्, क्षणं तावत् प्रतीक्ष्यताम् ॥ २१७ ॥ रूपं तदा च मे सम्यकू, प्रेक्षणीयं मनोरमम् ॥ इत्युक्तौ देवभूदेवी, राज्ञा तस्यतुरन्यतः ॥ २१८ ॥ स्नात्वा भूपस्ततो भूरि-भूषाभूषितभूधनः ॥ सभां विभूष्य तौ विप्रो, रूपं द्रष्टुं समादिशत् ॥ २१९ ॥ अथेक्षमाणौ तौ वीक्ष्य, भूपरूपमनीदृशम् ॥ विषण्णौ दध्यतुरहो !, नृणां रूपादि चञ्चलम् ॥ २२० ॥ नृपः प्रोचे पुरा प्रेक्ष्य मां युवां मुदितावपि ॥ विषादश्यामलारयी द्राक्, सातौ साम्प्रतं कुतः १ ॥ २२१ ॥ तावूचतुः सुराधावां, दिवि देवेन्द्रवर्णितम् ॥ अश्रद्दधानौ त्वद्रूपं परीक्षितुमिहागतौ ॥ २२२ ॥ रूपं तब पुरा प्रेक्ष्य, श्रेष्ठमिन्द्रादितादपि ॥ ष्टापि विषीदावो ऽधुनाऽन्याह निरीक्ष्य तत् ! ॥ २२३ ॥ एतावताऽपि कालेनो- द्भूताः काये तथाऽऽमयाः ॥ राक्षसैरिव तैर्प्रस्ता, रूपलावण्यकान्तयः । ॥ २२४ ॥ इत्युदित्वा तयोरन्तर्हितयोः स्वनपुर्नृपः ॥ पश्यनपश्यद्विष्छायं, रजभ्छन्नमिवारुणम् ॥ २२५ ॥ दध्यौ चैवमहो देहे, का नामास्था मनीषिणाम् १ ॥ विविधाः व्याधयो व्याधा; इषैणं बाधयन्ति यम् ॥ २२६ ॥ भीता इवामयेभ्यो ये, नष्टा रूपादयों गुणाः ॥ भीरुवत्यैरिवोffशः, कथं माद्यति तैः सुधीः १ ॥ २२७ ॥ सरोषा इव ये यान्ति, सेव्यमाना अपि क्षणात् ॥ भोगेषु तेषु को नाम, प्रतिबन्धः सुमेधसाम् १ ॥ २२८ ॥ यतो गुणाः प्रणश्यन्ति वैराग्यविनयादयः ॥ परिग्रहे ग्रह श्वा ऽऽग्रहः फस्तन धीमताम् १ ॥ २२९ ॥ तन्ममत्वं शरीरावे - रथ वो वा विनाशिनः ॥ विहाय शाश्वतसुखप्रदानि प्रतमाददे ॥ २३० ॥ ध्यात्वेति नन्दनं न्यस्य, राज्ये प्राज्यमतिर्नृपः ॥ बिनयन्धरसूरीणा-मन्तिके प्रतमग्रहीत् ॥ २३२ ॥ ततः सर्वाणि रत्नानि सर्वा राज्ञ्यो नृपाः समे ॥ निखिला निधयो यक्षाः, सैन्याः प्रकृतयस्तथा ॥ २३२ ॥ गाढानुरागात्तत्पृष्ठे, पण्मासी यावदभ्रमन् ॥ प्रभो ! विनाऽपराधं नः, किं जहासीति वादिनः ॥ २३३ ॥ [ युग्मम्] सिंहावलोकितेनाऽपि, मापश्रसंयतस्तु तान् ॥ ततो नत्वोप्रसत्वं तं ययुस्ते खखमास्पदम् ॥ २३४ ॥ सुनिस्तु षष्ठतपसः पारणे गोचरं गतः ॥ चीनकान्नमजातक - युक्तं सम्प्राप्य भुक्तवान् ॥ २३५ ॥ भूयो भूयोऽपि षष्ठान्ते, पारणं सोडतनोत्तथा ॥ ततो बहुधिरे तस्य, रोगा नीरादिबाङ्कराः ॥ २३६ ॥ कंद्रः कुक्षिंशोः पीडे, कास- बॉस-उपरोऽराँचीः ॥ इति सप्तामपान सेहे, सप्त वर्षशतानि सः ॥ २३७॥ तस्यैवं सहमानस्य, सर्वानपि परीषहान् ॥ प्रकुर्वतस्तपस्तीत्रं, पार्त्तवार्त्तामकुर्वतः ॥ २३८ ॥ मलार्म शिकुन्मूत्र-सर्वोषध्यः कफौषधिः ॥ संभिन्न श्रोतोऽभिधा -त्यभूवन् सप्त खब्धयः ॥ २२९ ॥ [ युग्मस् ]
१ सुखवार्त्ताम् ॥