________________
, 230
उत्सराध्ययन तपाप्याप्रतीकार-मकुर्वन्तं तमन्यदा ॥ पुरुहूतः पुरः साहा-भुजामेवमवर्णयत् ॥ २४ ॥ अहो । सनत्कुमारोसौ, धेर्याधरितभूधरः ॥ त्यक्त्वा चक्रिश्रियं भार-मिवो तप्यते तपः । ॥ २४१ ॥रोगानलाब्दमालासु, लग्यासपि हि लन्धिषु ।। चिकित्सति यतिः काय-निस्पृहो नायमामयान् । ॥ २४२ ॥ अश्रदधानौ तदाक्यं, तावेव त्रिदशी ततः ॥ अभिरूपभिषयूपी, मुनिरूपमुपेयतुः ॥ २४३॥ तं घेत्ययोचता साधो !, यदि स्वमनुमन्यसे ॥ धर्मवैयौ चिकित्साव-स्तदावा तेऽगदान्मुदा ॥ २४४ ॥ भूयो भूयः पुरोभूय, ताभ्यामित्युदितो प्रती ॥ उवाच पाचां चित्तवं, तस्वामृतमिवोद्विरन् ।। २४५॥ चिकित्सथो युवा कर्म-रोगान् किं वा वपुर्गदान १॥ तावुचतुधिकित्साव, मापी कायामयान्मुने ! ॥ २४६ ॥ ततो लिवाली पामा-शीर्णी निष्ठीवनेन सः ॥ स्वर्णवर्णसवर्णामां, व्यधादेवमुवाच प॥ २४७ ॥ आतहान्तं नयाम्येता-शांस्तु स्वयमप्यहम् ॥चिकित्सा क्रियते कर्म-रुजां चेत्कार्यते तदा ! ॥२४८॥ हन्तुं कर्मामयान् शक्ता, यूयमेवेतिवादिनी ॥ विस्मितौ तौ ततश्चक्रि-मुनिं नत्वैवमूचतुः ॥ २४९ ॥ लब्धलब्धिरपि व्याधि-व्यथा धीरस्तितिक्षते ॥ सनत्कुमारराजर्षि-रिति त्वां हरिरस्तवीत् ॥ २५० ॥ ततस्ते रूपवीक्षार्थे, यथापामागतौ पुरा ॥ तथा सत्वपरीक्षार्थ-मधुनापि समागतौ ॥ २५१ ॥रष्टं च तदपि स्पष्टं सुराचल वाचलम् ॥ इत्युक्त्वा तं च नत्वा तौ, तिरोधत्ता सुधाशनी ॥ २५२ ॥ कौमारे मण्डलीत्वे च, लक्षाई शरदामभूत् ॥ लक्षं । तस्य चक्रित्वे, श्रामण्येऽपि तदेव हि ॥ २५३ ॥ वर्षलक्षत्रयीमान-मतिवाखायुरित्ययम् ॥ चकारानशनंप्रान्ते, सम्मेताचलमूर्द्धनि ॥ २५४ ॥ आयुःक्षयेणाऽय सनत्कुमार, सनत्कुमारत्रिदिवे सुरोऽभूत् ॥ ततश्युतश्चायमषाप्य देहमन्त्यं विदेहे शिवगेहमेता ॥ २५५ ॥ इति सनत्कुमारचक्रिकथा ॥ ३७॥ मूलम्-चइत्ता भारहं वास, चक्कवही महिडीओ। संती संतीकरो लोए, पत्तो गइमणुत्तरं ॥ ३८॥ व्याख्या-व्यक्तं, कथासम्प्रदायस्त्विहायम् , तथा हि
अत्रैव भरतक्षेत्रे, पुरे रनपुराभिधे ॥ भूपः श्रीषेणनामाभू-त्समप्रगुणसेवधिः ॥१॥ प्रिये अभूतां तखाभि-नन्दिताशिखिनन्दिते ॥ स्मरस्येव रतिप्रीती, परमप्रीतिभाजनम् ॥२॥ तत्राभिनन्दिताकुक्षि-अभयौ तख भूप्रभोः ॥ इन्दुषेणबिन्दुषेणा-पभूतां तनयाबुभौ ॥३॥ सूरेविमलबोधावात् , श्राद्धधर्म स पार्थिवः ॥ प्राप लोक इवालोकं, कोकबन्धोस्तमोपहात् ॥ ४॥ तत्र चाभूपाध्यायः, सत्यकिर्नाम सस्पधीः ॥ जंबुकाहा प्रिया तस्स, सत्यभामा च नन्दना ॥५॥ [इतब ] मगधेवचलमामे, वेदवेदाङ्गपारगः ॥ नामा धरणिजटोऽभू-हिनो धरणिविश्रुतः ॥६॥ तस्याभूतां यशोभद्रा-मिघमासमुद्भवी ॥ कुलीनी हो सुत्ती नंदि-भूतिश्रीभूतिसंज्ञको ॥ ७ ॥ च विप्रश्चिरं रेमे, दास्या कपिलया समं ॥ तत्कुक्षिजः ततस्तख, सुतोऽभूत्कपिलामिधः ॥८॥स दासेरः सुती कुल्यो, पितुः पाठयतोऽन्तिकात् ॥ कर्णश्रुत्सा श्रुतीः सर्वा-स्तूष्णीकोप्यग्रहीत्सुधीः ॥ ९ ॥ प्रामात्ततोऽय निर्गयो-पवीतद्वयमुहन् ॥ द्विजोत्तमोऽस्मीति वदन् , पर्यटन् पृथिवीतले ॥ १० ॥ पुरे रनपुरे सोऽगात्, सत्सकिद्विजसन्निधौ ॥ कस्त्वमागाः कुतथेति, तत्पृष्टपैवमत्रवीत् ॥ ११॥ [युग्मम् ] पुत्रोऽहं धरणिजट-द्विजस कपिलामिधः ॥ इहागामचलप्रामात् , धोणीवीक्षणकौतुकी ॥१२॥ सत्यकि पृच्छता सोऽय, छात्राणां निखिलानपि॥ चिच्छेद वेदविषया-नन्तरापि हि संशयान् ॥ १३॥ तुष्टोऽय सत्यकिश्छात्र-पाठने तं न्ययोजयत् ॥ खपुत्री सखमामा च, मुदा तेनोदवाहयत् ॥ १४॥ कपिलोऽपि सुखं सत्य-मामयाऽन्वहमन्वभूत् ॥ लोकप्रदत्तद्रविणैः, समृाथाचिरादभूत् ॥ १५ ॥ नाव्यं वीक्ष्याऽन्यदा तस्मि-निवृत्ते प्रावृषो निशि ॥ सारं धाराधरो धारा-सारं मोक्तुं प्रच. क्रमे ॥ १६ ॥ तदा धनान्धकारत्वा-द्विजनत्वात्पथश्च सः ॥ वित्त्वांशुकानि कक्षांत-नमीभूयाऽगमगृहम् ॥ १७ ॥ द्वारे च परिधायान्तर्गतं तं सत्यकिसुता ॥ क्लिनवखोऽयमित्यन्य-वसपाणिरुपागमत् ॥ १८॥ नाीभूतानि मे पृष्टा-पपि वासांसि विद्यया ॥ अलं तदपर्वबै-रित्यूचे कपिलस्तु ताम् ॥ १९ ॥ तस्याहं लिजमल्लिना-ज्यंशुकान्यथ वीक्ष्य सा ॥ दध्यौ यो विधया रक्षे-खाण्यङ्गं कथं न सः ॥ २०॥ तनमागानमोय-मकुलीनच विद्यते ॥ मवेन्नैताशी बुद्धिः, कुलीनानां हि जातुचित् । ॥ २१ ॥ वेदानपि पपाठायं, कर्णश्रुत्यैष धीबलात् ॥ घ्यायन्तीति ततो मन्द-नेहा तस्मिन् बभूष सा ॥२२॥ अन्यदा घरणिजटो, दैवात्प्रासोऽतिदुःस्थताम् ॥ श्रीमन्तं कपिलं श्रुत्वा, तत्रागाद्धनलिप्सया ॥ २३ ॥ चकार कपिलस्तख, मकिं खानाशनादिना ॥ अपरोप्यतिथिः पूज्यः, कोविदैः किं पुनः