________________
227
उत्तराध्ययन
मुत्क्षिप्य यक्षोपा - sक्षिपदस्योपरि द्रुतम् ॥ क्षणं निश्चेतनो जज्ञे, बाधितस्तेन ते सुहत् ॥ १०९ ॥ लब्धसंज्ञस्तु से शैल - मवधूयोत्थितो द्रुतम् ॥ आर्यपुत्रो नियुद्धेन, योडुमाहास्त गुलकम् ॥ ११० ॥ ततोऽसौ बाहुदण्डेन, इत्वा से खण्डशो व्यधात् ॥ अमरत्वात्तदा मृत्यु - माससाद न गुलकः ॥ १११ ॥ ततो रसित्वा विरस-मसिताक्षः पलायत ॥ पुरो हि हस्तिमल्लस्य, महिषः स्यात्कियश्विरम् ॥ ११२ ॥ वीक्षितुं समराश्चर्य-मागताः सुरखेचराः ॥ मौलौ त्वत्सुहृदः पुष्प वृष्टिं तुष्टा वितेनिरे ! ॥ ११३ ॥ अपराडे पुरो गच्छंस्ततोऽसौ नन्दने वने ॥ ददर्शाष्टौ कनीः शक्र -महिषीवि सुन्दराः ॥ ११४ ॥ कटाक्षदक्षनयनै - देशे ताभिरप्ययम् ॥ अथोपेत्यार्यपुत्रस्ता - स्तद्भावं ज्ञातुमित्यवक् ॥ ११५ ॥ नयनानन्दना यूयं, कृतिनः कस्य नन्दनाः ॥ हेतुना केन युष्माभिर्वनमेतदलङ्कृतम् १ ॥ ११६ ॥ ताः प्रोचुर्भानुगस्य, खेचरस्य सुता वयम् ॥ इतश्च नातिदूरेस्ति, तत्पुरी प्रियसङ्गमा ॥ ११७ ॥ तामलङ्कृत्य विश्राम्ये -त्युक्तस्ताभिः सखा तव । दर्शिताध्वा तदादिष्ट-किङ्करेण जगाम ताम् ॥ ११८ ॥ उपापरार्णवं भानु-स्तदानीयत सन्ध्यया ॥ उपतातं मुदानायी, सौविदेस्ताभिरप्यसौ ॥ ११९ ॥ अभ्युत्थानादिकं कृत्वो - चितं सोयेन मित्यवक् ॥ उद्वह त्वं महामाग !, ममाष्टौ नन्दना इमाः ॥ १२० ॥ एतासां स प्रियो भावी योऽसिताक्षं विजेष्यते ॥ इत्यर्चिर्मालिमुनिना, प्रोचे तत्प्रार्थ्य से मया ॥ १२१ ॥ तेनेत्युक्तस्तव सुहत्, परिणिन्ये तदैव ताः ॥ ताभिः सहाखपीद्वासा - वासे चाssबद्धकङ्कणः ॥ १२२ ॥ तदोत्क्षिप्यासिताक्षोऽमुं, निद्राणं गहनेऽक्षिपत् ॥ तत्र प्रेक्ष्य विनिद्रः खं दध्यौ किमिदमित्ययम् ॥ १२३ ॥ आर्यपुत्रस्ततोऽटव्या - मेकाकी पूर्ववद्धमन् ॥ सप्तभूमीकमद्राक्षीत् प्रासादमधिभूधरम् ॥ १२४ ॥ मायेयमपि कस्यापि भाविनीत्येष भावयन् ॥ तत्समीपे गतोऽश्रौषी - कस्याश्चिद्रुदितं स्त्रियाः ॥ १२५ ॥ ततस्तत्र प्रविश्याय - मारूढः सप्तमीं भुवम् ॥ दिव्यां कनीं ददशैंकां वदन्तीमिति गद्गदम् ॥ १२६ ॥ जगत्रयजनोत्कृष्ट, कुरु वंशनभोरवे ! ॥ सनत्कुमार ! भर्त्ता त्वं, भूयाज्जन्मान्तरेऽपि मे ॥ १२७ ॥ तदाकर्ण्य ममासौ का, भवतीति विचिम्तयन् ॥ पुरोभूयार्यपुत्रस्तां, न्यग्मुखीमेवमत्रवीत् ॥ १२८ ॥ का त्वं सनत्कुमारेण, सम्बन्धस्तव कः पुनः १ ॥ मुदुः स्मरन्ती तं चैवं केन दुःखेन रोदिषि १ ॥ १२९ ॥ पृष्टानेनेति साऽमुष्मै, प्रदायासनमुत्तमम् ॥ सुस्मिता विस्मिता प्रोचे, सुधामधुरया गिरा ॥ १३० ॥ सुराष्ट्रराजः साकेत - पुरेशस्य सुतास्म्यहम् ॥ सुनन्दाहा चन्द्रयशो - देवी कुक्षिसमुद्भवा ॥ १३१ ॥ कलयित्वा कलाः सर्वा, वयो मध्यममध्यगाम् ॥ धवोस्याः कोऽनुरूपः स्या-दिति दध्यौ तदा नृपः १ ॥ १३२ ॥ आनाय्य भूपरूपाणि, ततो मेऽदर्शयन्मुदुः ॥ नारमत्तेषु मे दृष्टिः, किंशुकेषु शुकी यथा ! ॥ १३३ ॥ दूतानीतपटम्यस्तं पित्रा दर्शितमन्यदा । रूपं सनत्कुमारस्य, वीक्ष्य व्यामुहमुच्चकैः ! ॥ १३४ ॥ हियानुक्तोपि तातेन, रागोबुध्यत तत्र मे ॥ प्रच्छन्नोऽपि प्रकाशः स्या- तृणछन्नानिवत्स हि ! ॥ १३५ ॥ ततः सनत्कुमाराय पितृभ्यां कल्पितास्म्यहम् ॥ भर्त्ता तदिच्छामात्रेण, स मे न तु विवाहतः ।। १३६ ।। [ इतक्ष ] खेचरः कोऽपि हत्वा मा-मिहानैषीत्स्वकुट्टिमात् ॥ विद्याकृतेऽत्र गेहे मां, मुक्त्वा च काप्यगात्कुधीः ॥ १३७ ॥ स्मारं स्मारं कुमारं तं ततो रोदिमि सुन्दर ! ॥ बालानामचलानां च दुःखिताना हृदो बलम् ॥ १३८ ॥ आख्यत्सखा ते मा रोदी-यस्मै दत्तासि सोस्म्यइम् ॥ सानन्दाख्यत्सुनन्दाथ, दैवं जागर्त्ति देव मे ॥ १३९ ॥ तयोरालपतोरेव - मागात्तत्र क्रुषा ज्वलन् ॥ नन्दनोऽ • शनिवेगस्य, वज्रवेगः स खेचरः ॥ १४० ॥ त्वन्मित्रं च समुत्पाट्यो - दक्षिपद्वियति द्रुतम् ॥ रुदती सुदती भूमौ भूच्छिता साऽपतत्ततः ॥ १४१ ॥ मुष्टिघातेन दुष्टं तं, ततो व्यापाद्य तत्क्षणम् ॥ अक्षताङ्गस्तामुपेत्या - वासयामास ते सखा ॥ १४२ ॥ वार्त्ता प्रोच्यात्मनः सर्वा - मुदुवाह च तां मुदा ॥ अमुष्य मुख्यपत्ती सा, भाविनी भाविचक्रिणः ॥ १४३ ॥ स्वसाथ बज्रवेगस्य, नाम्ना सन्ध्यावली कनी ॥ तदा तत्राययौ भ्रातृ-वधं वीक्ष्य चुकोप च ॥ १४४॥ भावी भर्त्ता भ्रातृहन्ता तवेति ज्ञानिनो गिरम् ॥ स्मृत्वा शान्ता पतीयन्ती, सार्यपुत्रमुपासरत् ॥ १४५ ॥ अयं तामप्युपायंस्त सुनन्दानुज्ञया कृती ॥ स्वयमायान्ति पात्रं हि, स्त्रियोऽर्णवमिवापगाः ! ॥ १४६ ॥ अत्रान्तरे खेचरी द्वा-दुपेत्यामुं प्रणम्य च ॥ प्राभृतीकृत्य कवचं, स्यन्दनं चैवमूचतुः ॥ १४७ ॥ खपुत्रमरणोदन्तं ज्ञात्वा विद्याधराधिपः ॥ आयात्यशनिवेगोऽत्र, सैन्यैराच्छादयन्नभः ॥ १४८ ॥ तत आवां हरिश्चन्द्र-चन्द्रवेगौ तवान्तिके ॥ प्रहितौ चन्द्रवेगेन भानुवेगेन चात्मजौ ॥ १४९ ॥ आरोहार्करथामं त-सत्प्रेषितममुं रथम् ॥ कवचं वामुमायुंच, वज्रसन्नाहसंन्निभम् ॥ १५०॥ चन्द्रवेग मानुवेगी, सोदरौ श्रसुरौ तव ॥ महाचमूवृतौ खामिन् !, विद्धि सेवार्थमागतौ ॥ १५१ ॥ तयोरेवं प्रवदतोस्तत्र तावप्युपेयतुः ॥ खेचरेन्द्रौ चन्द्रवेग - भानुवेगौ महाबलौ ॥ १५२ ॥ तदा सन्ध्याबली विद्या - मस्ले प्रसि