________________
225
उत्तराध्ययन
सुव्रताचार्य सन्निधौ । राज्यं रज इवोत्सृज्य, प्रब्रज्यामाददे नृपः ॥ २१ ॥ तपोभिः विविधैः साकं, कर्मभिः शोषयन् वपुः ॥ चिरं विहृत्य व्यापन्न - स्तृतीयं खर्जगाम सः ॥ २२ ॥ ततश्युतो रत्नपुरे, जिनधर्माऽभिधोऽभवत् ॥ श्रेष्ठिपुत्रः श्राद्धधर्म, शुद्धं बाल्यादपि श्रितः ॥ २३ ॥
इतश्च कान्ताविरहा-नागदतोऽतिदुःखितः ॥ मृत्यार्त्तध्यानतो भ्रामं, भ्रमं तिर्यक्षु भूरिशः ॥ २४ ॥ अग्निशर्मायो विप्रः, पुरे सिंहपुरेऽभवत् ॥ पुण्याशया त्रिदण्डित्वं स्वीचकार स चैकदा ॥ २५ ॥ [ युग्मम् ] द्विमासादि तपः कुर्वन् सोऽगालपुरेऽन्यदा । त्रिदण्डिभक्तस्तत्राभू- पतिर्नरवाहनः ॥ २६ ॥ तेन राज्ञा तपखीति, भोकुं नीतो निजे गृहे ॥ सोऽपश्यज्जिनधर्म तं देवात्तत्रागतं तदा ॥ २७ ॥ ततः प्राग्भववैरेण, कोपाटोपारुणेक्षणः ॥ नरवाहनभूमी - मित्यूत्रे स त्रिदण्डिकः ॥ २८ ॥ अस्याढ्यस्य न्यस्य पृष्ठे, पात्रमत्यूष्णपायसम् ॥ चेद्विभो ! भोजयसि मां तदा भुझे भव ॥ २९ ॥ स्थालमन्यम्य विन्यस्य, पृष्ठे त्वां भोजयाम्यहम् ॥ नृपेणेत्युदितो रुष्टो दुष्टो भूयोऽवद' द्वती ॥ ३० ॥ पृष्ठेऽस्यैव न्यस्य पात्रं, मुझे गच्छामि वाऽन्यतः ॥ तद्भक्तः स ततो भूयः प्रत्यपद्यत तद्वचः ॥ ३१ ॥ नृपादेशात्ततः पृष्ठे, तेन दत्ते स तापसः । अत्युष्णपायसं स्थालं, न्यस्य भोक्तुं प्रचक्रमे ॥ ३२ ॥ श्राद्धोऽपि स्थालतापं तं सोऽधिसेहे विशुद्धधीः ॥ स्वस्यैव कर्मणोऽयं हि, विपाक इति चिन्तयन् ॥ ३३ ॥ भुक्ते भिक्षौ श्रेष्ठिपृष्ठात्समं त्वग्मांसशोणितैः ॥ जनैः स्थालं तदुत्खातं, ततः श्रेष्ठी गृहं ययौ ॥ ३४ ॥ सत्कृत्य क्षमयित्वाऽथ, खजनान् पूजनांस्तथा ॥ जिनधर्मो गुरूपान्ते, प्रत्रज्य जिनधर्मवित् ॥ ३५ ॥ पुरान्निर्गत्य विहिता - ऽनशनोऽद्रिशिरस्थितः ॥ पक्षं पक्षं कृतोत्सर्गः, क्रमादस्थाच्चतुर्द्दिशम् ॥ ३६ ॥ [ युग्मम् ] गृध्रकाकादिभिर्भक्ष्य-माणपृष्ठोऽपि तत्र सः ॥ सहमानो व्यथामुग्रां, स्मरन् वञ्चनमस्त्रियाः ॥ ३७ ॥ विपद्य प्रथमखर्गे, बभूव त्रिदशाधिपः ॥ आनुपति फलं तत्, जिनधर्मविधायिनाम् ॥ ३८ ॥ [ युग्मम् ] तापसोऽपि मृतस्तेना - ऽऽभियोग्येन कुकर्मणा ॥ ऐरावणाह्वयो हस्ती, जज्ञे तस्यैव वाहनम् ॥ ३९ ॥ ततश्युत्वा भवे भ्रान्त्वा, कृत्वा वालतपः कचित् ॥ यक्षोऽसिताक्षनामाभू - जीवस्तस्य त्रिदण्डिनः ॥ ४० ॥
इतश्चात्रैव भरते, विषये कुरुजाङ्गले ॥ अस्ति खस्तिपदं श्रीम-न्नगरं हस्तिनापुरम् ॥ ४१ ॥ जैत्रसेनोऽवसेनाह्नस्तत्राभूद्भूभुजां वरः ॥ सहदेवीति तस्यासी देवी देवीव भूगता ॥ ४२ ॥ तस्याः कुक्षौ जिनधर्म - जीवः स्वर्गात्परि च्युतः ॥ चतुर्दश महास्वप्नान्, दर्शयन् समवातरत् ॥ ४३ ॥ पूर्णे कालेऽथ साऽसृत, सुतं लक्षणलक्षितम् ॥ जगजनमनोहारि, रूपं लक्ष्मीरिव स्परम् ॥ ४४ ॥ सनत्कुमार इत्याख्यां चक्रे तस्योत्सवैर्नृपः ॥ सोऽथ क्रमेण ववृधे, कल्पद्रुम इत्रोद्गतः ॥४५॥ श्रीमान् महेन्द्रसिंहाख्यः, कालिन्दीसूरयोः सुतः ॥ सपांशुक्रीडितस्तस्य, वयस्यः शस्यधीरभूत् ॥ ४६ ॥ समं तेन वयस्येन, कलाचार्यस्य सन्निधौ ॥ सनत्कुमारः सकलाः, कलाः जग्राह लीलया ॥ ४७ ॥ अमंत्रयंत्र निश्शेप - कामिनीजनकार्मणम् ॥ लावण्यपुण्यं तारुण्यं कुमारः प्राप स क्रमात् ॥ ४८ ॥ उद्यानं मकरन्दाख्यं, वसन्तसमयेऽन्यदा । समं महेन्द्र सिंहेन, क्रीडाये भूपभूर्ययौ ॥ ४९ ॥ नानाक्रीडाभिरक्रीड - त्सत्रा मित्रेण तत्र सः ॥ तदा च राज्ञोऽथपति-र्यान्वाहानढोकयत् ॥ ५० ॥ हयं जलधिकलोला - ह्वयं भूवभुवोऽप्यधात् ॥ कुमारोऽपि तमारोह - तद्गतिं द्रष्टुमुत्सुकः ॥ ५१ ॥ कश चोत्क्षिप्य तं यावत् प्रेरयामास भूपभूः ॥ सोऽश्वस्तावदधावोचे-र्वायुं जेतुमना इव ॥ ५२ ॥ यथा यथाकृपद्वल्गां, रक्षितुं तं नृपाङ्गजः ॥ स वऋशिक्षितो वाहो, बह्वधावत्तथा तथा ॥ ५३ ॥ राज़ां राजकुमाराणां, सादिनां धावतामपि ॥ मध्यात्कुमारं हृत्वाऽथः क्षणात्सोऽगाददृश्यताम् ॥ ५४ ॥ ततोऽश्वसेनभूशको, ज्ञात्वाऽश्वापहृतं सुतम् ॥ प्रत्यानेतुं स सैन्योगा- द्यावद्वाजिपदानुगः ॥ ५५ ॥ तावद्भूरिरजः पुअ-दिग्मूढीकृतसैन्यया ॥ भग्नानि पादचिह्नानि, तस्य वाहस्य वात्यया ॥ ५६ ॥ निरुपाये ततोऽत्यर्थ, व्याकुले सकले बले ॥ महेन्द्रसिंहो भूमीन्द्र-सिंहमित्थं व्यजिज्ञपत् ॥ ५७ ॥ देव ! देवादिदं सर्व - मजनिष्टासमञ्जसम् ॥ तथापि मित्रमन्विष्या - ऽऽनेप्यामि न चिरादहम् ॥ ५८ ॥ प्रभोः प्रभूतसैन्यस्य, कान्तारे दुष्करा भ्रमिः ॥ सुकरा सा खगस्येव, खल्पतंत्रस्य मे पुनः ॥ ५९ ॥ तत्तिष्ठतु प्रभुर्यामि, खामीन् ! सुहृदमन्वहम् ॥ तेनेत्युक्तोऽवलिष्टर्वी - पतिरश्रुजलाविलः ॥ ६० ॥ धीरो महेन्द्रसिंहस्तु, मितसारपरिच्छदः ॥ क्रीडावनीं यमस्यैवा - ऽरण्यानीं प्रविवेश ताम् ॥ ६१ ॥ प्रौढपादैरुग्रदन्तैः, प्रक्षरन्मदनिर्झरैः ॥ करीन्द्रैश्च गिरीन्द्रैश्व, क्वापि दुर्गमतां गताम् ॥ ६२ ॥ कापि प्रारू घसमर-सैरिभोत्खातपादपाम् ॥ सङ्कीर्णी केशरीव्याघ्र - व्यालभल्लूकसूकरैः ॥ ६३ ॥ भानुभानुगणाभेद्य - निकुअनिकरैः क्वचित् ॥