________________
224 उत्तराध्ययन पुरे ॥ पुरारक्षास्ततो ग्राम-मीयुस्तं तत्पदानुगाः ॥७६ ॥ ग्रामद्वाराणि चावृत्या-उज्यालयन् परितोऽनलम् ॥ स कुलालस्तु तत्राह्नि, ग्राममन्यं गतोऽभवत् ॥ ७० ॥ तं विना ते ततः सर्वे, प्लष्टा दुष्टा विपेदिरे ॥ मात्रिवाहकजीवत्वेनाऽटव्यां चोपपेदिरे ॥ ७८ ॥ पिण्डीभूय थितास्तेऽथ, तत्रायातस्य हस्तिनः ॥ पादेन मर्दिता मृत्वा, चिरं प्रेम कुयोनिषु ॥ ७९ ॥ पुण्यं च प्राग्भवे किञ्चि-त्कृत्वा ते सङ्घदस्यवः ॥ जज्ञिरे चक्रिणः पष्टि-सहस्राणि सुता इमे ॥८॥ प्राग्भवैर्दुवैस्तस्य, बहुभुक्तस्य कर्मणः ॥ शेषांशेन मृता एते, सममेव महीपते ! ॥ ८१ ॥ कुलालोऽप्यन्यदा मृत्वा, सोऽभूत् कापि पुरे धनी ॥ तत्रापि सुकृतं कृत्वा, विपद्य काप्यभून्नृपः ॥ ८२ ॥ भूयोऽपि सोऽन्यदा दीक्षां, लात्वा मृत्वा सुरोऽभवत् ॥ ततश्युतश्च त्वं जहु-जातो जातोऽसि भूपते ।।८३॥ भगीरथक्षोणिधयोऽथ याचं, वाचंयमस्वेति निशम्य सम्यक् ॥ सुश्राद्धधर्म प्रतिपद्य हृद्यं, सद्योऽनवद्यः खपुरी जगाम ॥८४॥ इति सगरचक्रवर्त्तिकथालेशः॥३५॥ मूलम्-चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ। पवजमब्भुवगओ, मघवं नाम महायसो ॥ ३६ ॥ व्याख्या-सुगम, तत्कथालेशस्त्वेवं, तथा हि
अभूदिहव भरते, महीमण्डलसत्पुरे ॥ वासुपूज्यप्रभोस्तीर्थे, नाना नरपतिपः ॥ १॥ खप्रजावत् प्रजाः सम्यक्, पाल यित्वा चिरं स राट् ॥ संत्यज्य राज्यमन्येद्यु-विरक्तो व्रतमाददे ॥२॥ अप्रमत्तविरं दीक्षां, पालयित्वा विपष च ॥ अहमिन्द्रः स गिर्वाणो, मध्यप्रैवेयकेऽभवत् ॥ ३॥ इतश्चात्रैव भरते, श्रावस्त्यां पुरि भूपतिः ॥ श्रिया समुद्रविजयी, समुद्रविजयोऽभवत् ॥ ४ ॥ तस्य भार्याऽभवद्भद्रा, भद्राकारजितामरी ॥सोऽथ देवोऽन्यदा व्युत्वा, तस्याः कुक्षाववातरत् ॥ ५॥ चतुर्दशमहाखप्नां-स्तदा च प्रेक्ष्य सा मुदा ॥ राजे जगाद चक्री ते, सुतो भाविति सोऽप्यपक् ॥ ६॥ क्रमाच सुपुवे पुत्रं, राज्ञी पूर्वेव भास्करम् ॥ महोत्सवैर्नृपस्तस्य, मघवेत्यभिधां व्यधात् ॥ ७॥ संप्रासः सोऽथ तारुण्य, दत्तराज्यो महीभुजा ॥ उत्पन्नचक्रः षटूखण्डं, साधयामास भारतम् ॥ ८॥ भुक्त्वा चिरं चक्रिरमा विरक्तः, प्रान्ते परिव्रज्य स चक्रवर्ती ॥ पंचाब्दलक्षीमतिवाट सर्वा-ऽऽयुषो सुरोऽभूत्रिदिवे तृतीये ॥९॥ इति श्रीमधवचक्रिकथा ॥ ३६॥ मूलम्-सणंकुमारो मणुस्सिदो, चक्कवट्टी महिड्डीओ। पुत्तं रजे ठवित्ता णं, सोवि राया तवं चरे॥३७॥ व्याख्या-स्पष्टं-तचरितं चैवं, तथा हि
अस्तीह काश्चनपुरं, समृद्धं काञ्चनर्द्धिभिः ॥ तत्रासीद्विक्रमयशा, विक्रमाक्रान्तभूर्नृपः ॥ १॥ तस्य पंच शतान्या. सन् , राज्ञो विश्वमनोहराः ॥ तत्र चाभूत् पुरे नाग-दत्ताहः सार्थपो धनी ॥२॥ रूपलावण्यसौभाग्य-निर्जिताय. रसुन्दरी ॥ विष्णुश्रीरिति तस्यासी-कान्ता विष्णोरिवाधिजा ॥३॥ तां चान्यदा नृपोऽपश्य-मनसः पश्यतो. हराम् ॥ दध्यौ चेमा विना जन्म, राज्यं चैतन्ममाऽफलम् !॥४॥ चिक्षेप क्षितिपः क्षिप्र-मन्तरन्तःपुरं च ताम्॥ प्राणिनो हि प्रियःप्रायो-ऽन्यायोऽपथ्यमिवाऽपटोः॥५॥ विनाऽपि विप्रियं त्यक्त्वा, प्रियं कासि ? गता प्रिये!॥ विलपन्निति सार्थेशो, बभ्रामोन्मत्तवत्ततः ! ॥ ६ ॥ शुद्धान्तनारीसहिता, लजां लोकापवादजां ॥ विमुच्य रेमे भूपस्तु, नित्यं विष्णुश्रिया समम् ॥ ७ ॥ जातासूयास्ततो राज्यो-ऽकारयन् कार्मणं तथा ॥ मृगाक्षी क्षीयमाणा सा, व्यपधत यथा खयम् ॥८॥ ततस्तस्था वियोगेन, दुस्सहेन दवाग्निवत् ॥ नागदत्त इवोन्मत्तः, पृथ्वीनाथोऽभवदशम् ॥९॥ नामौ क्षेसुमदात्तस्याः, शवं स खेहमोहितः॥ ऊचे च मस्त्रिया मौनं, धत्ते प्रणयकोपतः !॥ १० ॥ सचिवाः किचि. दालोच्य, वञ्चयित्वा च पार्थिवम् ॥ विपिने क्षेपयंस्तस्या, धेनोरिव शवं ततः॥ ११ ॥ ताश्चापश्यन्नश्रुनीर-धारामिः स धराधरः ॥ धरां धारधर इव, सिञ्चन्नाटीदितस्ततः॥ १२ ॥ कान्ते ! कान्तस्त्वदेकान्त-खान्तो विरहविह्वलः ॥ हास्यानोपेक्षणार्हः स्था-दिति चाक्रन्ददुश्चकैः । ॥ १३ ॥ इत्थं त्यक्तानपानस्य, गते राज्ञो दिनत्रये ॥ अमात्या नि यता माय-मिति तं काननेऽनयन् ॥ १४ ॥ तत्र च प्रसरत् पूती-क्लिन्नं क्रमिकुलाकुलम् ॥ गृप्रविक्षिप्तवक्षोज, वाक साकृष्टलोचनम् ॥ १५ ॥ आकृष्टांत्रं शृगालीभि-रावृतं मक्षिकागणैः ॥ विष्णुश्रियो वपुर्वीक्ष्या-ऽध्यासीदिति मही पतिः ॥ १६ ॥ [ युग्मम् ] अहो असारे संसारे, सारं किंचिन्न रश्यते ॥ मया त्वसौ सारमिति-ध्याता मूढेन पिण चिरम् ॥ १७ ॥ कुलशीलयशोलजा-स्त्यका यस्याः कृते त्वया ॥ रेजीव ! मत्त ! पश्याध, तस्या जातेशी दशा ॥ १८॥ प्रियेति यां पृथक -मभवं न प्रभः क्षणम् ॥ वीक्ष्य तामपि शीतार्च-मिव मे वेपते वपुः ॥ १९॥ ततो धर्मक्रियानीरः पापपङ्कपरिपतम् ॥ आत्मानं विमलीकर्नु, साम्प्रतं मम साम्प्रतम् ॥ २०॥ विमृश्येति विरक्तात्मा