________________
223
उत्तराध्ययन
इत्ययोध्यामुपागत्य, सामन्ताद्या व्यचिन्तयन् ॥ ३४ ॥ दग्धाः खामियुताः सर्वे - ऽप्यागता वयमक्षताः ॥ लजाकर• मिदं राज्ञो ऽग्रे कथं कथयिष्यते १ ॥ ३५ ॥ प्रविशामस्ततो वहि-मनन्यगतिका वयम् ॥ तानिति ध्यायतोऽभ्येत्य, विप्रः कोपीत्यभाषत ॥ ३६ ॥ कर्मणा शुभमन्यद्वा नाङ्गिनां किं भवे भवेत् १ ॥ तथाकुला भक्त मा, वक्ष्याम्येतदहं प्रभोः ॥ ३७ ॥ इत्युदित्वा द्विजः कञ्चिदनाथं शयमुद्वहन् ॥ गत्वा राजकुलद्वारे, व्यलापीदुच्चकैर्मुहुः ||३८|| तत् श्रुत्वा चक्रिणाऽऽहूय, पृष्टः किं रोदिपीति सः १ ॥ प्रोचे ममैक एवासी, सूनुर्दष्टो महाहिना ॥ ३९ ॥ प्राप्तो निवेष्टतां देव !, तदेनं जीवयाऽधुना ॥ जाङ्गुलीकमथादिक्ष- त्तत्र कर्मणि भूधवः ॥ ४० ॥ ज्ञातभूपापत्यमृत्यु - रित्यूचे सोऽपि कोऽपि हि ॥ मृतो न स्याद्यत्र तस्मा-इस्माऽऽनयत मन्दिरात् ॥ ४१ ॥ यथाऽहं जीवयाम्येन - मिति तेनोदितो नृपः ॥ तद्भस्मामार्गयद्भुत्यैः पुर्यां सर्वेषु वेश्मसु ॥ ४२ ॥ तेऽप्यागत्यावदन्नाथ !, सकला वीक्षिता पुरी ॥ परं पुरा यत्र मृतो, न कचिन्नास्ति तद्गृहम् ॥ ४३ ॥ राजाऽप्यूचेऽस्माकमपि, भूयांसः पूर्वजाः मृताः ॥ सर्वसाधारणे त्यौ, तत्किं कोविद । खिद्यसे ? ॥ ४४ ॥ किं शोचसि १ मृतं पुत्रं किञ्चिदात्महितं कुरु ॥ सिंहेनेव मृगो यावम्मृत्युना त्वं न गृह्यसे ! ॥ ४५ ॥ भूदेवोऽथावदद्देव, जानाम्येतदहं परम् ॥ अद्यैव जायते पुत्र-मन्तरा मे कुलक्षयः ॥ ४६ ॥ तद्वलाक्रान्तविक्रान्त- दीनानाथैकनाथ ! हे ॥ कथञ्चिज्जीवयित्वाऽमुं पुत्रभिक्षां प्रदेहि मे ॥ ४७ ॥ भूयोऽभ्यधान्मंत्रतंत्र - शस्त्रादीनामगोचरे ॥ अदृष्टविद्विपि विधौ, कः पराक्रमते ? कृतिन् ! ॥ ४८ ॥ तन्मुञ्च शोकं शोकोहि विपदि क्रियते जडैः ॥ आर्यैस्तु कार्य तत्रापि धर्मकर्मैव शर्मकृत् । ॥ ४९ ॥ विप्रः प्रोचे प्रभो ! षष्टि-सहनाणि सुतास्तव । सममेव विपन्नास्तच्छोकं त्वमपि मा कृथाः ! ॥ ५० ॥ आः । किमेतदिति क्ष्माप - स्ततो याव दचिन्तयत् ॥ सामन्तमुख्यास्ते पूर्व-सङ्केतात्तावदाययुः ॥ ५१ ॥ यथावृत्तेऽथ तैः प्रोक्ते, वज्राहत इव क्षणात् ॥ मूर्च्छितो न्यपतद्भूमौ सार्वभौमः स विष्टरात् ॥ ५२ ॥ कथञ्चिलब्धसंज्ञस्तु व्यलापीदिति भूपतिः ॥ हा ! पुत्रा मां विमुच्यैकं, यूयं सर्वेऽपि किं गताः १ ॥ ५३ ॥ अरे दुर्दैव ! तान् सर्वानपि संहरतः शिशून् ॥ न ते कृपा कृपाणामक्रूरचित्तस्य काप्यभूत् ॥५४॥ सुतानपि मृतान् श्रुत्वा शतधा यन्न भिद्यसे ॥ तत्त्वां हृदय ! मन्येऽहं निष्ठुरेभ्योऽपि निष्ठुरम् ॥ ५५ ॥ अतृप्तान् सर्वसौख्यानां, परलोकपथं श्रितान् ॥ यत्सुतान्नान्वगच्छंत प्रेम कृत्रिममेव मे ॥ ५६ ॥ विलपन्तमिति प्रोच्चैः, स विप्रः स्माह चक्रिणम् ॥ मां निषिध्याऽधुनैव त्वं, स्वामिन्! रोदिषि किं स्वयम् १ ॥ ५७ ॥ वियोग: प्रेयसां नाथ !, न स्यात्कस्याऽतिदुःसहः १ ॥ सहते किन्तु तं धीरो, वडवाभिभिवार्णवः ।। ५९ ।। शिक्षादानं परेषां हि, तेपामेव विराजते ॥ आत्मानमपि ये काले, शिक्षयन्ति विचक्षणाः १५९ ॥ इति तद्वचनैर्मत्रि - वाक्यैम विविधैश्विरात् ॥ आलम्ब्य धीरतां चक्री, चक्रे कालोचितक्रियाम् ॥ ६० ॥ तदा चाष्टापदासन्न -ग्रामे भ्योऽभ्येत्य मानवाः ॥ राज्ञे व्यजिज्ञपन्नेवं, मुकुलीकृतपाणयः ॥ ६१ ॥ श्रोतस्त्रिस्रोतसो देवा - Sऽनिन्ये यद्भवतां सुतैः ॥ प्रपूर्व परिर्खा
१ गङ्गायाः ॥
ग्रामान्, प्लावयत्तन्निवार्यताम् ॥ ६२ ॥ राज्ञादिष्टस्ततः शिष्टः, पुत्रपुत्रो भगीरथः ॥ तत्र गत्वाऽष्टमं कृत्वा ऽऽराधयज्ज्वलनप्रभम् ॥ ६३ ॥ प्रदत्तदर्शनं तं चे-त्यूचे युष्मत्प्रसादतः ॥ गङ्गा नीत्वाम्बुधौ लोकान् करोमि निरुपद्रवान् ॥ ६४ ॥ वारयिष्यामि भुजगा-नहं भरतवासिनः ॥ तत्कुरुष्वाऽभयोऽभीष्ट - मित्युक्त्वाऽगात्ततोऽहिराइ ॥ ६५ ॥ नागपूजां ततः कृत्वा, दण्डरलेन जड़जः ॥ नीत्वा सुपर्वसरितं पूर्वाच्धावुदतारयत् ॥ ६६ ॥ भगीरथो भोगिपूजा, तत्रापि विधिवत् व्यधात् ॥ गङ्गासागरसङ्गाख्यं तत्तीर्थं पप्रथे ततः ॥ ६७ ॥ गङ्गापि जहुनाऽऽनीते- त्युक्ता लोकेन जाह्रवी ॥ भगीरथेन नीतान्धा - विति भागिरथी तथा ॥ ६८ ॥ अथो भगीरथोऽयोध्यां गतस्तुष्टेन चक्रिणा ॥ सोत्सवं निदधे राज्ये, मूर्त्यन्तरमिवात्मनः ॥ ६९ ॥ स्वयं तु श्रतमात्य, सन्निधावजितप्रभोः ॥ सुदुस्तपं तपस्तेपे, सगरस्सेत्यसङ्गरः ॥ ७० ॥ क्रमाच केवलज्ञानं, ध्वस्ताज्ञानमवाप्य सः ॥ द्वासप्ततिं पूर्वलक्षाः समाप्यायुः शिवं ययौ ॥ ७० ॥ सर्वे समायुषो जडु-मुख्याः किं जज्ञिरे १ प्रभो ! ॥ ज्ञानी भगीरथेनेति, पृष्टोऽन्येद्युरदोऽवदत् ॥ ७२ ॥ सङ्घः पुरा जिनान्नन्तुं सम्मेताद्रिं व्रजन्महान् ॥ सम्प्राप्य गहनप्रान्तं, प्रान्तग्रामे कचिद्ययौ ॥ ७३ ॥ अनार्यैस्तद्गतैः षष्टिसहस्रप्रमितैर्जनैः ॥ एकेन कुम्भकारेण, वार्यमाणैरपि स्फुटम् ॥७४॥ स संघो मुषितो लुब्धैः, कथञ्चिदगमत् पुरः ॥ तैस्तु तत्प्रत्ययं सर्वैः, पापकर्म निकाचितम् ॥ ७५ ॥ [ युग्मम् ] अन्यदा कोऽपि तत्रत्यो - न्यत्र चौर्य व्यधात्
१ सत्यप्रतिशः ॥