________________
222 उत्तराध्ययन छत्वा, भाषचारित्रमाश्रितः ॥ अज्ञानतिमिरादिस्यं, केवलज्ञानमाप सः ॥ २१॥ [युग्मम् ] कमालोचं शक्रय, मुनिवेशं दधत्ततः ॥ निर्जगाम गृहापक्रि-साधुर्भानुरिवाम्बुदात् ॥ २२ ॥ तमुपात्तप्रतं वीक्ष्य, क्षामसंसारवासनाः ॥ भूपा दश सहस्राणि, दीक्षामाददिरे मुदा !॥ २३॥ ततः शक्रादयो देवा-स्तं नत्वा खाश्रयं ययुः ॥ भुवि व्यहापींगवा-नपि भन्यान् प्रबोधयन् ॥ २४ ॥ सप्तसप्ततिलक्षाणि, पूर्वाणां भरतप्रमोः ॥ कौमारे मण्डलिये तु, सहन शरदामभूत् ॥ २५ ॥ चक्रित्वेऽष्टसहस्रोनाः, पूर्वलक्षा रसोन्मिताः ॥ पूर्वाणां लक्षमेकं तु, केवलीत्वे व्रतेऽपि । ॥ २६ ॥ सर्वायुषा चतुरशीतिमितानि पूर्व-लक्षाणि सम्यगतिगम्य महेन्द्रनम्यः ॥ कर्मक्षयेण भरतेश्वरसाधुराजो, भेजे महोदयरमामुदितोदितश्रीः ॥ २७ ॥ इतिभरतचक्रिकथालेशः ॥ ३४ ॥ मूलम् -सगरोवि सागरंतं, भरहवास नराहिवो। इस्सरिअं केवलं हिचा, दयाए परिनिषुए ॥३५॥
व्याख्या-सगरो पि द्वितीयचक्री सागरान्तं पूर्यादिदित्रये समुद्रपर्यन्तं, उत्तरस्यां तु हिमवदन्तं भरतवर्ष नरा. धिपः, ऐश्वर्यञ्च केवलं परिपूर्ण हित्वा दयया संयमेन परिनितो मुक्तः । तदत्तलेशो यथा, तथाहि___ अयोध्यायां पुरि क्षमापो, जितशत्रुरभूजयी ॥ युवराजोऽनुजस्तस्य, सुमित्रविजयायः ॥ १॥ तयोर्महिन्यो विज. या-यशोमत्यौ बभूवतुः ॥ शक्रेशानाभ्यां खकल्प-सारे देव्याबिवार्पिते । ॥२॥ तयोश्चतुर्दशखान-सूचितौ सद्गुणा. श्चितौ ॥ सुतावभूतामजित-सगरौ जिनचक्रिणौ ॥३॥ जितशत्रुसुमित्राभ्या-मेकदा खीकृते व्रते ॥ नृपोऽभूदजि. तखामी, युवराट् सगरः पुनः ॥ ४ ॥ न्यथान्यदाऽनुज राज्ये, प्राबाजीदजितप्रभुः ॥ ततो बभूव सगर-चक्रवर्ती महाभुजः ॥ ५॥ क्रमात्पष्टिसहस्राणि, तनयास्तस्य जज्ञिरे ॥ तेषु ज्येष्ठोऽभवजाहुः, सोऽन्यदाऽप्रीणयन्नुपम् ॥६॥ ततः पित्रा वरे दत्ते, सोऽवादीत्त्वत्प्रसादतः ॥ दिक्षेऽहं महीं मातृ-युक्तो दण्डादिरत्नवान् ॥७॥ राजाऽनुज्ञातोऽय जहुः, ससैन्यः प्रस्थितस्ततः ॥ विहिताश्चर्यसन्दी, रत्नगर्भी विलोकयन् ॥ ८ ॥ चतुर्योजनविस्तारं, योजनाष्टकमुन्नतम् ॥ प्राप्तोऽष्टापदमारोह-त्सह सर्वैः सहोदरैः ॥९॥ [ युग्मम् ] क्रोशद्वयपृथु क्रोश-त्रयोचं योजनायतम् ॥ चतुर्मुखं रत्नमयं, तत्र चैसं ददर्श सः ॥१०॥ ऋषभाधर्हतामाः , खखमानादिशोभिताः ॥ स्तूपांश्च भरतादीनां, शतं तत्र ननाम सः ॥ ११ ॥ सुषमा तस्य शैलस्य, चैत्यस्य च विलोकयन् ॥ पीतामृत इवात्यर्थे, जहर्ष सगराङ्गजः ॥ १२ ॥ केनेदं कारितं चैत्य-मित्यमात्यं च पृष्टवान १॥सोप्यचे भरताख्येन. चक्रिणा पूर्वजन वः ॥१३॥ वकान् जह-रीदृशं भरतेऽपरम् ॥ पश्यताद्रिं यथाऽस्माभिः, कार्यते चैत्यमीदृशम् ॥ १४ ॥ तेऽपि गत्वाऽऽगता: प्रोचु-नास्त्यऽन्योत्राऽद्रिरीदृशः ॥ ततो जगाद जहुस्त-द्रक्षामखैव कुर्महे ॥ १५ ॥ कालानुभावतो लुब्धा, भाविनो भाविनो जनाः ॥ उपद्रोष्यन्ति तेखत्र, तद्रक्षास्य महाफला ! ॥ १६ ॥ इत्युक्त्वा दण्डरनेन, जडुस्तं परितो गिरिम् ॥ सहस्रयोजनोद्वेधां, विदधे परिखां क्षणात् ॥ १७॥ तदा च दण्डरलेन, तेन दारयता महीम् ॥ क्रीडागेहानि नागानां. मृत्पात्राणीव पुस्फुटुः ॥ १८ ॥ तं प्रेक्ष्योपद्रवं क्षुब्धा, भुजका ज्वलनप्रभम् ॥ उपेत्य खामुं सौध-भाव्यतिकर जगुः ॥ १९ ॥ सोऽपि ज्ञात्वाऽवधेः कुद्धो-ऽमेत्योचे सगरानजान् ॥ मुवं भवद्भिर्मिन्दान-भॊः! किमेतकतं जडैः १ ॥ ३० ॥ उपद्रुता हि युष्माभि-नागास्तद्नेहभेदनः ॥ ते च ऊदा हनिष्यन्ति, युष्मान् सिंहा इव द्विपान ॥ २१ ॥ तनूनं खवधायैव, प्रयतो मवतामयम् ॥ पतङ्गानां दीपपात-कृते पक्षपलं यथा ॥ २२ ॥ जहुर्जगौ तीर्यरक्षा-कृतेऽस्माभिरदः कृतम् ॥ तन्मन्तुमेनं भोगीन्द्र, क्षमखाज्ञानसम्भवम् ॥ २३ ॥ आगः सोढमिदं नैवं, पुनर कार्यमिति ब्रुवन् ॥ अहीन्द्रोऽगात्ततो जहु-रिति दयौ सहानुजैः॥२४॥परिसाऽसौ विना वारि, पांशुभिः पर विष्यते ॥ तदेनां पूरयामोऽथ, पुण्यैर्मन्दाकिनीजलैः ॥ २५॥ तत्रा सोदराः सर्वे, ज्यायांसमनुमेनिरे ॥ यार भवितव्यं स्या-त्सहायाः खलु तादृशाः । ॥ २६ ॥ ततः स दण्डेनाऽऽष्य, तत्र चिक्षेप जाह्नवीम् ॥ उपाड्यन्त भूयोऽपि, भोगिगेहास्तदम्भसा ॥२७॥ नागलोकं पुनर्वीक्ष्य, क्षुमितं ज्वलनप्रमः॥ कोपावेशाबभूवाशु, प्रज्वलज्ज्वलनप्रभः ॥ २८ ॥ सोऽय दृष्टिविषान् प्रैषी-वधाय महोरगान् ॥ तैष निर्गत्व ते दृष्टा, टिनिर्विषवृष्टिमिः ॥२९॥ ततस्ते भस्मतां भेजुः, सर्वेऽपि सगरात्मजाः ॥ तं चोत्पातं प्रेक्ष्य पक्रि-वर्क चक्रन्द तदशम् ॥३०॥ ततः सैन्या. निति प्रोचे, सचिवः शोचितैरलम् ॥ नावश्यम्भाविनं भाव-मतिकामति कोऽपि हि! ॥३१॥ तीर्थसेवातीर्थरषाकरणोपक्रियादिभिः ॥ कृतपुण्यार्जनाः शोच्या, न चामी खामीसूनकः ॥ ३२ ॥ तद्विमुच्य शुचं सः, क्षिप्रं प्रसि. पतामितः ॥ स्थाने सोपद्रवे स्थातुं, धीधनानां हि मोचितम् ॥३३॥ इति मंत्रिगिरा त्यक्ता-क्रन्दास्ते पलितास्तता।