________________
221 उत्तराध्ययन तेषां मंत्रास्तकार्यालोचनरूपास्तेभ्यो, वा समुच्चये, पुनर्विशेषणे, अतिसावद्यत्वं तेषां विशिनष्टि, सोपस्कारत्वात्सूत्रस्य यश्चैवं संयम प्रति उत्थानवान् स 'अहो' ! इति विस्मये, उत्थितो धर्मम्प्रत्युद्यतः, कश्चिदेव हि महात्मा एवंविधः स्यादित्याश्चर्य, अहोरात्रं अहर्निशं, इति एतदनन्तरोक्तं 'विजत्ति' विद्वान् जानन् 'तवंति' गम्यत्वादवधारणस्य तप एव, न तु प्रश्नादि, चरेरासेवेथा इति सूत्रार्थः ॥३१ ॥ अथ संजययतिना कथमायुर्वेत्सीति पृष्टोऽसावाहमूलम्-जं च मे पुच्छसी काले, सम्म सुद्धेण चेअसा।ताई पाउकरे बुद्धे, तं नाणं जिणसासणे॥३२॥ __ व्याख्या-यच मे इति मां पृच्छसि काले कालविषयं सम्यक् शुद्धेन चेतसोपलक्षितः 'ताईति' सूत्रत्वात् तत् प्रादुष्कृतवान् प्रकटितवान् बुद्धः सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने सावधारणत्वाद्वाक्यस्य जिनशासने एव, न त्वन्यत्र सुगतादिशासनेऽतो जिनशासने एव यलः कार्यो येन यथाऽहं जानामि तथा त्वमपि ज्ञास्यसि इति भावः, इति सूत्रार्थः ॥ ३२ ॥ पुनरुपदेष्टुमाहमूलम्--किरिअं रोअए धीरो, अकिरिअं परिवजए । दिहिए दिद्विसंपन्ने, धम्मं चर सुदुच्चरं ॥३३॥
व्याख्या-क्रियाश्चास्ति जीव इत्यादिरूपां सदनुष्ठानात्मिका वा रोचयेद्धीरोऽक्षोभ्यः, तथाऽक्रियां नास्त्यात्मा इत्यादिको परिवर्जयेत् , ततश्च दृष्ट्या सम्यग्दर्शनरूपया उपलक्षिता वा इष्टिर्बुद्धिः, सा चेह प्रक्रमात् सम्यक्ज्ञानात्मिका, तया सम्पन्नो दृष्टिसम्पन्नः, एवं च सम्यक्दर्शनज्ञानान्वितः सन् धर्म चर सेवख, सुदुश्चरं अत्यन्तकष्टानुष्ठेयमिति सूत्रार्थः ॥ ३३॥ पुनः क्षत्रियमुनिरेव संजयमुनि महापुरुषाधान्तः स्थिरीक माहमूलम्-एवं पुण्णपयं सोचा, अस्थधम्मोबसोहिओभरहोवि भारहवास, चिच्चा कामाई पवए ॥३४॥
व्याख्या-एतत् पूर्वोक्तं पुण्यहेतुत्यात् पुण्यं, पद्यते गम्यतेऽर्थोऽनेनेति पदं, पुण्यं च तत् पदं च पुण्यपदं, क्रियावादादिलक्षणनानारचिवर्जनादिनापर्क शब्दसंदर्भ श्रुषा अर्थोऽयेमानतवा वर्गाऽपवर्गादिः, धर्मस्तदुपायभूतः श्रुतधर्मादिस्ताभ्यामुपशोभितं अर्थधर्मोपशोभित, भरतः प्रथमचक्री, अपिशब्द उत्तरापेक्षया समुश्चये, भारतं वर्ष क्षेत्रं त्यक्त्वा 'कामाइंति' चस्य गम्यत्वात् , कामांश्च 'पपएत्ति' प्राबाजीत् , तत्काशस्त्येवम् । तथाहि
अत्रैव भरते शका-ज्ञया श्रीदेन निर्मिता । अस्त्वयोध्या पुरी खर्ग-प्रतिस्पर्द्धिसमृद्धिका ॥१॥ प्रथमः प्रथितः पृथ्व्यां, पुत्रः श्रीवृषमप्रमोः । सार्वभौमोऽभवतत्र, भरतो भरतेवरः ॥२॥ चतुर्दशानां रत्नानां, विभुर्नवनिधिप्रभुः । द्वात्रिंशता सहस्रैर्भू-भुजा सेषितपत्कजः ॥३॥ लक्षेचतुरशीवाऽश्व-रयेभानां समाश्रितः ॥ प्रामाणां च पदातीनां, कोटिपण्णवतेः पतिः ॥ ४ ॥ लोकैात्रिंशत्सहस्र-देशानां धृतशासनः ॥ सत्पत्तनसहस्राणां, द्विश्चतुर्विशते
। द्वासप्ततेः श्रेष्ठपुर-सहस्राणामधीश्वरः ॥ सहस्रोनं द्रोणमुख-लक्षं च परिरक्षयन् ॥६॥ गुह्यकानां १ 'अत्यन्तकष्टानुष्ठेयमितिपाठः 'घ' पुस्तके नास्ति । पोडशभिः, सहस्रः सेवितोऽनिशम् ॥ पट्खण्डं भरतक्षेत्र-मखण्डाज्ञः प्रपालयन् ॥ ७ ॥ चतुषष्टिसहस्रान्तः-पुरस्त्रीभिः सहान्यहम् ॥ क्रीडन् पूर्वोक्तपुण्यदु-पुष्पाभं सौख्यमाश्रयन् ॥ ८ ॥ ऋपभखामिनिर्वाणा-स्पदेऽष्टापदपर्वत्ते ॥ चैत्ये खकारिते भक्त्या, जिनविम्बानि पूजयन् ॥९॥ साधर्मिकाणां वात्सल्यं, कुर्वनाश्रितवत्सलः ॥ पूर्वलक्षाणि पद क्षोणी-हर्यश्वः सोऽत्यवाहयत् ॥१०॥[अष्टभिः कुलकम् ] अन्यदा प्रातरभ्यक्तो-द्वर्तितस्त्रपिताङ्गकः ॥ आदर्श सदनं सोऽगा-त्सर्वालङ्कारभूषितः॥११॥ तत्राऽऽत्मदर्श महति, पश्यंश्चक्री निवपुः ॥ भ्रष्टाङ्गुलीयकामेकां, ददर्श खकराङ्गुलीम् ॥ १२ ॥ अशोभमानां तां प्रेक्ष्य, प्रेक्षावान् माधवाग्रणीः ॥ सकलानप्यलङ्कारा-नेकैकमुदतारयत् ॥१३॥ तत उज्झितपाथोज, पद्माकरमिवाऽऽत्मनः ॥ विलोक्य वपुरश्रीक-मिति दध्यौ धराधवः ॥ १४ ॥ अहो ! आगन्तुकैरेव-द्रव्यैरङ्गं विराजते ॥ स्वाभाविकं तु सौन्दर्य, किमप्यस्य न दृश्यते । ॥१५॥ स्वरूपासारतां वक्ति, यस्य सस्कारसारता ॥ मोहादेव तदप्यङ्ग, जना जानन्ति मजुलम् ! ॥ १६ ॥ मनोज्ञमप्यन्नपान-पुष्पगन्धांशुकादिकम् ॥ विनश्यत्यस्य सङ्गेन, ब्रह्मचर्यमिव स्त्रियाः ! ॥ १७ ॥ तदहो निर्विवेकत्वं, विदुषामपि बालवत् ॥ ये देहस्येशस्यापि, कृते पापानि कुर्वते ! ॥ १८ ॥ तन्मोक्षदायि मानुष्यं, शरीरार्थेन पाप्मना ॥ द्यूतेनेव धुसद्रलं, युक्तं नाशयितुं न मे ॥१९॥ ध्यायन्नित्यादि सम्प्राप्तः, संवेगमधिकाधिकम् ॥ आरूढः क्षपक श्रेणी, निश्रेणी शिवसमनः ॥ २०॥ घनघातिक्षयं
१क्षोणीहर्यश्वः भूमीन्द्रः ॥