________________
218
उतराध्ययन
व्याख्या -- अथ राजा तत्र मुनिदर्शने जाते सति सम्भ्रान्तो भीतो यथाऽनगारो मनाक् स्तोकेनैवाऽहतो न मा रितः तदासन्नमृगहननादिति भाषः, मया 'तुः' पूर्ती, मन्दपुण्येन रसगृद्धेन 'घण्णुणति' घातुकेन हननशीलेन ॥७॥ मूलम् -- आसं विसजइत्ता णं, अणगारस्त सो निवो। विणणं बंदर पाए, भगवं एत्थ मे खमे ॥८॥
व्याख्या - अश्वं विसृज्य विमुच्य अनगारस्य स नृपः विनयेन वन्दते पादौ वक्ति च यथा भगवन् ! अत्र मृगबधे मे ममापराधमिति शेषः, क्षमख ॥ ८ ॥
मूलम् - अह मोणेण सो भयवं, अणगारो झाणमस्तिओ। रायाणं न पडिमंतेइ, तओ राया भयहुओ ९ व्याख्या - अथ मौनेन स भगवान् अनगारो ध्यानमाश्रितः राजानं न प्रतिमंत्रयति न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, ततो तो राजा भयद्रुतो भयत्रस्तोऽभूत् यथा न ज्ञायते किमयं क्रुद्धः करिष्यतीति ॥ ९ ॥ प्रोचे च यथा
मूलम् -- संजओ अहमस्तीति, भयवं वाहराहि मे । कुद्धो तेएण अणगारे, दहिज्ज नरकोडिओ ॥ १०॥
व्याख्या - संजयनामा राजाहमस्मि न तु नीच इति भावः इत्येतस्माद्धेतोर्हे भगवन् । व्याहर सम्भाषय 'मे' इति मां, किमेवं भवान् भयद्रुत इत्याह- क्रुद्धस्तेजसाऽनगारो दहेन्नरकाटीरास्तां शतं सहस्रं चेत्यतो भयद्रुतोऽहमिति सूत्रचतुष्कार्थः ॥ १० ॥ इत्थं तेनो के मुनिराह
मूलम् - अभओ पत्थिवा तुब्भं, अभयदाया भवाहि अ । अणिच्चे जीवलोगंमि, किं हिंसाए पसज्जसि ? ॥११॥
व्याख्या -अभयं पार्थिव । तव न तु कोऽपि त्वां दहतीति भावः, इत्थं समाश्वास्योपदिशति, अभयदाता च प्रा. णिनां प्राणत्राणकर्त्ता 'भवाहिअत्ति' भव, यथा तव मृत्युभयं तथाऽन्येषामपीति भावः, अनित्ये जीवलोके किं हिंसाबां प्रसज्जसि ? नरकहेतुरियं कर्त्तुं नोचितेति भावः ॥ ११ ॥ किञ्च -
मूलम् — जया सवं परिञ्चज्ज, गंतवमवसस्स ते । अनिच्चे जीवलोग़मि, किं रज्जमि पसज्जसि ? ॥१२॥
व्याख्या -- यदा सर्व कोशान्तः पुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः, अवशस्य अस्वतंत्रस्य ते तब ततोs - नित्ये जीवलोके किं राज्ये प्रसज्जसि ? ॥ १२ ॥ अनित्यतामेव भावयति
मूलम् — जीविअं चेव रूवं च, विज्जुसंपायचंचलं । जत्थ तं मुज्झसी रायं, पेश्चत्थं नावबुज्झते ॥१३॥
व्याख्या - जीवितं चैव रूपं च विद्युत्सम्पातो विद्युञ्चलनं तद्वचञ्चलं विद्युत्सम्पातचञ्चलं यत्र जीविते रूपे च त्वं मुसि हे राजन् ! प्रेत्यार्थ परलोककार्य नावबुध्यसे ॥ १३ ॥ तथा
मूलम् - दाराणि अ सुआ चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुवयंति अ ॥१४॥
व्याख्या - दाराश्च सुताश्चैव मित्राणि च तथा बान्धवाः जीवन्तं अनुजीवन्ति तदर्जितवित्ताद्युपभोगेन, मृतं नानुब्रजन्त्यपि चशब्दस्याऽप्यर्थत्वात् कथं पुनः सहायाः स्युरित्यतः कृतघ्नेषु तेषु नास्था कार्येति भावः ॥ १४ ॥ मूलम् — निहरंति मयं पुत्ता, पिअरं परमदुक्खिआ । पिअरोऽवि तहा पुत्ते, बंधू रायं तवं चरे ॥ १५ ॥
"
व्याख्या – 'निहरंति' निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता अपि पितरोऽपि तथा पुत्रान् 'बंधूत्ति' बन्धबश्च बन्धूनिति शेषः, ततो राजंस्तपश्वरेरासेवेथाः ॥ १५ ॥
मूलम् - तओ तेण जिए दवे, दारे अ परिरक्खिए। कीलंतन्ने नरा रायं, हट्टतुट्ठा अलंकिआ ॥ १६ ॥
व्याख्या -- ततो निस्सारणानन्तरं तेन पित्रादिनाऽर्जिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन तैर्दारैश्चेति गम्यं, अन्ये नरा राजन् ! हृष्टतुष्टा अलङ्कृतास्तत्र हृष्टा बहिः पुलकादिमन्तः, तुष्टा आन्तरप्रेममाजः, जलहृताः विभूषिताः, यतः ईदृशी भवस्थितिस्ततो राजंस्तपश्चरेरिति सम्बन्धः ॥ १६ ॥ मृतस्य का वार्त्तेत्याहमूलम् - तेणावि जं कयं कम्मं, सुहं वा जड़वा ऽसुहं । कम्मुणा तेण संजुत्तो, गच्छइ उ परं भवं ॥ १७॥
व्याख्या - तेनाऽपि यत्कृतं कर्म शुभं वा यदिवा अशुभं कर्मणा तेन 'उत्तर तुशब्दस्यैवकारार्थस्येह योगात्तेनैव' न तु धनादिना संयुक्तो गच्छति परमन्यं भवं, यत एवं शुभाशुभयोरेवानुयायित्वं ततः शुभहेतुं तप एव चरेरिति सूत्रसप्तकार्थः ॥ १७ ॥ ततश्चमूलम् - सोऊण तस्स सो धम्मं, ३
- अणगारस्स अंतिए । महया संवेगनिबेअं, समावण्णो नराहिवो ॥ १८ ॥