________________
उतराध्ययन
217
मूलम् - जो वजए एए सया उ दोसे से सुबर होई मुणीण मज्झे ।
"
असि लोए अमयंत्र पूईए, आराहए लोगमिणं तहा परति बेमि ॥ २१ ॥
व्याख्या - यो वर्जयत्येतान् उक्तरूपान् 'सया उत्ति' सदैव दोषान् स सुव्रतः प्रशस्यत्रतो भवति मुनीनां मध्ये भावमुनित्वेनासौ तन्मध्ये गण्यत इत्यर्थः तथा चास्मिन् लोके अमृतमिव पूजित आराधयति लोकमिमं तथा 'परंति' परलोकमिति सूत्रद्वयार्थः, इति ब्रवीमीति प्राग्वत् ॥ २१ ॥
AAAAAE
इति श्रीतपागच्छीयमहोपाध्याय श्री विमलहर्षगणिशिष्यमहोपाध्याय श्री मुनिविमलग णिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तदशमध्ययनं सम्पूर्णम् ॥ १५ ॥
रफार फरक फरक फर
॥ अथ अष्टादशमध्ययनम् ॥
TOD
॥ अर्हम् ॥ उक्तं सप्तदशमध्ययनमथाष्टादशं संयतीयाख्यमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने पापस्थानवर्जनमुक्तं, तश्च भोगर्द्धित्यागेन संजयनृपवद्विधेयमिति सम्बन्धस्यास्येदमादिसूत्रम् - मूलम् -- कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेणं संजए नामं, मिगवं उवनिग्गए ॥ १ ॥
व्याख्या— काम्पील्ये काम्पील्यनानि नगरे राजा उदीर्णमुदयप्राप्तं बलं चतुरङ्गं वाहनं च शिबिकादिरूपं यस्म स तथा, स च नाम्ना संजयो 'नामेति' प्राकाश्ये, ततः संजय इति प्रसिद्धो मृगव्यां मृगयां प्रतीति शेषः, उपनि तो निर्यातः पुरादिति गम्यते, इति सूत्रार्थः ॥ १ ॥ स च कथं निर्गतः १ किं चकारेत्याहमूलम् - हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सवओ परिवारिए ॥ २ ॥
व्याख्या - सर्वत्र सुव्यत्ययात् हयानीकेन गजानीकेन रथानीकेन तथैव च पदातीनां समूहः पादातं तदनीकेन च महता सर्वतः परिवारितः ॥ २ ॥
मूलम् - मिए छुभित्ता हयगओ, कंपिल्लुजाणकेसरे । भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥ ३ ॥ व्याख्या - मृगान् क्षिप्त्वा प्रेर्य हयगतोऽश्वारूढः काम्पील्यस्य सम्बन्धिनि केसरनाम्नि उद्याने भीतान् स्तान श्रान्तानितस्ततः प्रेरणेन खिन्नान् मितान् परिमितान् तत्र तेषु मृगेषु मध्ये 'वहेइति' हन्ति, रस मूर्च्छितस्तन्मासाखादलुब्ध इति सूत्रद्वयार्थः ॥ ३ ॥ तदा च यदभूत्तदाह
मूलम् - अह केसरंमि उज्जाणे, अणगारे तवोधणे । सज्झायज्झाणसंजुत्ते, धम्मज्झाणं झियाय ॥४॥ - अथानन्तरं सरोद्याने अनगारस्तपोधनः स्वाध्यायध्यानसंयुक्तो यथावसरं तदासेवनात् अत एव धर्मध्यानं ध्यायति ॥ ४॥
मूलम् - अफोवमंडवंसि, झायइ झविआसवे । तस्सागए मिए पासं, वहेइ से नराहिवे ॥ ५ ॥
व्याख्या- 'अफोव' इति वृक्षाद्याकीर्णः स चासौ मण्डपश्च नागवल्यादिसम्बन्धी अफोवमण्डपस्तस्मिन् ध्यायति धर्मध्यानमिति शेषः, पुनरस्याभिधानमतिशयद्योतकं, 'झविअत्ति' क्षपिता आश्रवा हिंसादयो येन स तथा, तस्य मुनेरागतान् मृगान् पार्श्व समीपं 'वहेइत्ति' दन्ति स नराधिपः इति सूत्रद्वयार्थः ॥ ५ ॥
मूलम् - अह आसगओ राया, खिप्पमागम्म सो तहिं । हुए मिए उपासिता, अणगारं तत्थ पासई ॥ ६ ॥
व्याख्या - अथानन्तरमश्वगतो राजा क्षिप्रमागम्य स तस्मिन् मण्डपे हतान् 'मिए उत्ति' मृगानेव न पुनर्मुनिमित्यर्थः, ष्ट्वा अनगारं तत्र पश्यति इति सूत्रार्थः ॥ ६ ॥ ततोऽसौ किं १ चकारेत्याहमूलम् - अह राया तत्थ संभंतो, अणगारो मणाहओ । मए उ मंदपुण्णेणं, रसगिद्धेण घण्णुणा ॥७॥