________________
उत्सराप्ययन
216 पमानेन्द्रियमनोनिग्रहः, असंविभागी कुक्षिम्भरित्वेन गुरुग्लानादीनां योग्यमशनादि न यच्छति, 'अघिअत्तेत्ति' गुर्वादिष्वपि अप्रीतिमान् ॥ ११॥ मूलम्-विवायं च उदीरेइ, अधम्मे अत्तपण्णहा । वुग्गहे कलहे रत्ते, पावसमणेत्ति वुच्चइ ॥ १२ ॥
व्याख्या-विवादं वाकलह, चः पूरणे, उदीरयति उपशान्तमपि मर्मभाषणादिना वर्द्धयति, अधर्मो निर्धर्मः, आसां सद्बोधरूपतया इहपरलोकयोर्हिता प्रज्ञामात्मनोऽन्येषाश्च सुबुद्धिं कुतर्कव्याकुलीकरणेन हन्ति यः स आसप्रज्ञाहा, व्युद्हे दण्डादिघातजनिते विरोधे, कलहे वाचिके विरोधे, रक्तः सक्तः ॥ १२ ॥ मूलम्-अथिरासणे कुक्कुइए, जत्थतत्थ निसीअइ । आसणंमि अणाउत्ते, पावसमणेत्ति वुच्चइ ॥१३॥
व्याख्या-अस्थिरासनः, कुकुचो हास्यविकथादिचापल्यवान् , यत्र तत्र संसक्तसरजस्कादावपीत्यर्थः, निषीदति पीठादी, अत एवाऽऽसनेऽनायुक्तोऽनुपयुक्तः ॥१३॥ मूलम्-ससरक्खपाओ सुअइ, सिजं न पडिलेहइ । संथारए अणाउत्ते, पावसमणेत्ति वुच्चइ ॥१४॥
व्याख्या-सरजस्कपादः खपिति, कोऽर्थः ? संयमविराधनाभीरुताया अभावात् पादावप्रमृज्यैव शेते, शय्या वसतिं न प्रतिलेखयति न प्रमार्जयति, संस्तारके कम्बलादौ सुप्त इति शेषः, अनायुक्तः "कुक्कुडिपायपसारण" इत्याद्यागमार्थानुपयुक्तः ॥ १४ ॥ अथ तपोषिषयं पापश्रमणमाहमूलम्-दुखदही विगईओ, आहारेइ अभिक्खणं । अरए अ तवो कम्मे, पावसमणेत्ति वुच्चइ ॥१५॥
व्याख्या-'दुद्धदहित्ति' दधिदुग्धे विकृतिहेतुत्वाद्विकृती, उपलक्षणश्चैतद् घृताद्यशेषविकृतीनां, आहारयति अभीक्ष्णं पारं वारं तथाविधकारणं विनापीति भावः, अत एवारतश्च तपःकर्मणि अनशनादौ ॥ १५॥ मूलम्-अत्यंतंमि अ सूरमि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणेत्ति वुच्चह ॥१६॥
चः पूरणे सूर्ये आहारयस्यभीक्ष्णं प्रतिदिनमित्यर्थः. यदि यथाऽऽयुष्मन् ? किमेवमाहारतत्पर एव तिष्ठसि ? दुर्लभा खल्वियं धर्मसामग्री ! ताञ्च प्राप्य तपस्युद्यन्तुमुचितमिति, ततः किमित्याह-चोदितः प्रेरितः प्रतिचोदयति, यथा दक्षस्त्वमुपदेशं दातुं न तु खयं विधातुं ! नो चेदेवं विदन्नपि किं न विकृष्टं तपोऽनुतिष्ठसीति ॥ १६ ॥ मूलम्-आयरिअ परिचाई, परपासंडसेवए । गाणंगणिए दुब्भूए, पावसमणेत्ति वुच्चइ ॥ १७ ॥
व्याख्या-आचार्यपरित्यागी, ते हि तपः कारयन्ति आनीतमपि चानादि ग्लानादिभ्यो दापयन्त्यतोऽत्यन्तमाहारलौल्यासत्परित्यागशीलः, परपापण्डान् “मृद्वी शय्या प्रातरुत्थाय पेया" इत्याधुपदिशतः सौगतादीन् अत्यन्ताहारप्रसक्तान् सेवते परपाषण्डसेवकः, तथा खच्छन्दतया गणागणं षण्मासाभ्यन्तर एव संक्रामतीति गाणंगणिकोऽत एष दुष्टु भूतो जातो ?भूतो दुराचारतया निन्द्यत्वं प्रास इत्यर्थः ॥ १७ ॥ मूलम् सयं गेहं परिच्चज्ज, परगेहंसि वावरे । निमित्तेण य ववहरइ, पावसमणेत्ति वुच्चइ ॥ १८॥
व्याख्या-खकं गेहं निजगृहं परित्यज्य परगेहे 'वावरेत्ति' व्याप्रियते पिण्डादिलोमात्खयं तत्कृत्यानि विधत्ते, निमित्तेन च शुभाशुभकथनादिना व्यवहरति द्रव्याघर्जयति ॥ १८ ॥ मूलम् –सण्णाइपिंडं जेमेइ, नेच्छड् सामुदाणि । गिहिनिसिजं च वाहेइ, पावसमणेत्ति वुच्चइ १९
व्याख्या-खजातिभिर्निजबन्धुभिर्यः नेहाहीयते पिण्डः खजातिपिण्डस्तं जेमति भुक्ते, नेच्छति सामुदानिकं मैक्ष्य, गृहिनिषधां पर्यङ्किकादिकां वायति सुखशीलतया रोहति यः स पापश्रमण उच्यते इति सूत्रसप्तदशकार्थः ॥१९॥ अथाध्ययनाथेमुपसंहरनुक्तदोषासेवनत्यागयोः फलमाह
मूलम्-एआरिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हिडिमे।
____ अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए ॥२०॥ व्याख्या-एतादृशो यारश उक्तः, पञ्चकुशीलाः पार्थस्थादयस्तद्वदसंवृतः पञ्चकुशीलासंघृतः रूपधरो रजोहरणादिवेषधरः, बिन्दुश्चेह प्राकृतत्वात् , मुनिप्रवराणां प्रवरयतीनां 'हेडिमेत्ति' अधोवर्ती अतिजघन्यसंयमस्थानवर्णितया निकृष्टः 'अयंसित्ति' अस्मिन् लोके विषमिव गर्हितो प्रष्टप्रतिज्ञतया प्राकृतजनैरपि निन्दितोऽत एव न स 'इहंति' इहलोके नैव नापि परलोके अर्ग्यत इति शेषः ॥२०॥