________________
219 उत्तराध्ययन व्याख्या-स्पष्ट, नवरं 'महयत्ति' महत् संवेगनिर्वेदं, तत्र संवेगो मोक्षाऽभिलाषः, निर्वेदः संसारोद्वेगः ॥ १८ ॥ मूलम्-संजओ चइउं रजं, निक्खंतो जिणसासणे। गहभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥
व्याख्या-संजयस्त्यक्त्वा राज्यं निष्क्रान्तः प्रत्रजितो जिनशासने न त्वन्यत्र, गईभालेभंगवतोऽनगारखाऽन्तिके, स चैवं प्रव्रज्याधिगतश्रुतः सामाचारीरतोऽप्रतिवद्धतया विहरन् कश्चित्सन्निवेशमगात्तत्र च यदभूतदाह ॥ १९ ॥ मूलम्-चिच्चा रडं पवइए, खत्तिए परिभासई। जहा ते दीसह रूबं, पसन्नं ते सहा मणो ॥ २०॥
व्याख्या-त्यक्त्वा राष्ट्र देशं प्रबजितः क्षत्रियः क्षत्रिवजातिरनिहिर्टनामा कोपि मुनिः परिभाषते संजयराजर्षिमिति शेषः, स हि पूर्वभवे वैमानिकोऽभूत्ततश्युतश्च क्षत्रियकुले राजा जातस्तत्र च कुतोऽपि निमित्तावातजातिस्मृतिस्तत एवं विरक्तः प्रव्रज्य विहरन् संजयमुनि प्रेक्ष्य तस्परीक्षार्थमिदमाचख्यौ, यथा ते दृश्यते रूपं प्रसन्न निर्विकारं ते सव तथा मनोऽपि प्रसन्नं वर्तते इति शेषः, अन्तः कालुष्ये हि सति बहिनैवं प्रसन्नता स्यादिति भावः ॥ २०॥ किञ्चमूलम्-कि नामे कि गोत्ते, कस्सट्राए व माहणे। कहं पडिअरसी बुद्धे,कहं विणीएत्ति वुश्चसी ? ॥२१॥
व्याख्या-किनामा ? किं गोत्रः? 'कस्सठाएपत्ति' कस्मै वा अर्थाय माहनः प्रनजितः कथं केन प्रकारेण प्रतिचरसि सेवसे युद्धानाचार्यादिन् ? कथं विनीत इत्युच्चसे ? इति सूत्रचतुष्कार्यः ॥ २१ ॥ संजयमुनिराहमूलम्-संजयो नाम नामेणं, तहा गोत्तेण गोअमो । गहभाली ममायरिआ, विजाचरणपारगा २२
व्याख्या-संजयो नाम नाना, तथा गोत्रेण गौतमोऽहमिति शेषः, शेषप्रश्नत्रयोत्तरमाह-गईभालयो ममाऽचार्याः, विद्याचरणपारगाः श्रुतचारित्रपारगामिमः, अयं भावः-गर्दनालिनामाचाजीपघातान्निवर्तितोऽहं तन्निवृत्तौ च तैर्मुक्तिरूपं फलं दर्शितं ततस्तदर्थ माहनोऽस्मि, यथा सदुपदेशं गुरुन् प्रतिचरामि, तदुपदेशासेवनाच विनीतोऽहमिति सूत्रार्थः ॥ २२ ॥ ततस्तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाह
मूलम्-किरिअं अकिरिअं विणयं, अण्णाणं च महामुणी।
____एएहिं चउहिं ठाणेहि, मेअण्णे किं पभासति ? ॥ २३ ॥ व्याख्या-क्रिया अस्ति जीव इत्यादिरूपा, नपुंसकत्वं प्राकृतत्वात् , एपमप्रेऽपि, अक्रिया तविपरीता, विनयो नमस्कारादिः, अज्ञानं तत्त्वाऽनवगमः, चः समुचये, हे महामुने ! एतैः क्रियादिमिश्चतुर्मिः स्थानः 'मेजष्णेत्ति' मेयं ज्ञेयं जीनादिवस्तु जामन्ति इति मेयज्ञाः, क्रियादिमिः खखाभिप्रायकल्पितः वस्तुतस्थपरिच्छेदिन इत्यर्थः । कि मिति कुत्सितं 'पभासतित्ति' प्रभाषन्ते विचाराक्षमत्वात् तदुक्तीना, तथा हि-ये तावत् क्रियावादिनः ते अस्तिक्रियाविशिटमात्मानं मन्यमाना अपि विभुरविभुः कर्ता अकर्ता मूर्तोऽमूर्तोऽसावित्साधेकान्तवादमभ्युपगताः, कुत्सितभाषणश्चैतत् युक्तिवाधितत्वात् । इह हि विभुत्वं व्यापित्वं, तचात्मनो न घटते, देह एव तलिगभूतचैतन्योपलव्धेः । न च वाच्यं आत्मनो अभ्यापित्वे सद्गुणयोधर्माधर्मयोरपि अव्यापित्वं, तथा च द्वीपान्तरगतदेवदत्तादृष्टाफूष्टमणिमुक्तादीनामिहागमनं न स्यादिति, भित्रदेशस्थस्याप्ययस्कान्तादेलोहाबाकर्षणशक्तिदर्शनाच्छरीरग्यापिनोरपि धर्माऽधर्मयोर्दूरस्थ
दरस्थस्याऽपि वस्तुन आकर्पणमुपपद्यत एवेति न विभुत्वमात्मनो युज्यते । तथाऽविभुरप्यङ्गुष्टपर्वमात्रायधिष्ठानो रिप्यते तेषामपि शेषावयवेषु चैतन्याभावाच्छस्त्रादिना छेदने वेदनानुभवाभावः खान्न चैवं दृश्यते, एवं कर्तृत्वाद्यकान्तवादोऽपि खधियाऽपासनीयः । अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, तदप्यसङ्गततरं, अहं सुखीत्यादिप्रत्ययानामन्यथानुपपत्या मानसप्रत्यक्षादिप्रमाणगम्यत्वात् तस्य । विनयवादिनस्तु सुरनृपमुनिगजवाजिगोमृगकरभमहिपकुकुरछगलशृगालकाकमकरादिनमस्कारकरणादेव कर्मक्षयमभ्युपगताः, दुष्टश्चैतत् , लोकसमयवेदेषु गुणाधिकस्यैव विनयाहतया प्रतीतत्वात् , तदन्यविनयस चाशुभफलत्वात् । अज्ञानवादिनच ज्ञानस मोक्षं प्रत्यनुपयोगित्वात् केवलं कष्टमेव कार्य, न हि कष्टविनेष्टसिद्धिरिति प्रतिपन्नाः, इदमप्ययुक्तमेव, ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात् , ज्ञानं विना च भूयोपि कष्टानुष्ठानं पशोरिव व्यर्थमेव स्थादिति सर्वेऽप्यमी कुत्सितमेव प्रभाषन्ते इति स्थितमिति सूत्रार्थः ॥ २३ ॥ न चैतत्वाभिप्रायेणैवोच्यते इत्याह
मूलम्-इइ पाउकरे बुद्धे, नायए परिनिबुडे । विजाचरणसंपन्ने, सच्चे सञ्चपरक्कमे ॥ २४ ॥ व्याख्या-इति एते क्रियावाद्यादयः कुत्सितं प्रभाषन्ते इत्येवं रूपं पाउकरेत्ति'प्रादुरकार्षीत् प्रकटितवान् बुद्धो ज्ञाततत्वो,