________________
214 उत्तराध्ययन व्याख्या-स्पष्टमेव, नवरं 'भुत्तासिआणित्ति' मुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि भोगरूपाणि, मासितानि स्यादिभिरेव सहावस्थानानि, हास्याधुपलक्षणश्चैतत् ॥ १२॥ मूलम्-गत्तभूसणमिदं च, कामभोगा य दुजया । नरस्सत्तगवेसिस्स, विसं तालउड जहा ॥१३॥
म्याख्या-गात्रभूषणमिष्टं चेति चशब्दोऽप्यर्थः, तत इष्टमपि वाञ्छितमपि, आस्तां कृतं, कामौ रूपशम्दी, भोगाथ गम्धायाः कामभोगाश्च दुर्जयाः, नरस्योपलक्षणत्वात् सयादेश्व, आत्मगवेषिणो विषं तालपटे यथा । यथा हितालपरविषं सद्योपातित्वेन दारुणविपाकं तथा मोक्षार्थिनां स्वीजनाकीर्णालयाद्यपि, शङ्काकांक्षादिदोषहेतुत्वेन तस्यापि संयमरूपभावजीवितापहारहेतुत्वादिति सूत्रत्रयार्थः ॥ १३ ॥ अथ निगमयितुमाहमूलम्-दुजए कामभोगे अ, निच्चसो परिवजए । संकटाणाणि सवाणि, वजिजा पणिहाणवं ॥१४॥
व्याख्या-दुर्जयान् कामभोगान् नित्यं परिवर्जयेत् , प्राच्यचशब्दस्य भिन्नक्रमस्येह योगाच्छङ्कास्थानानि च सर्वाणि पूर्वोक्तानि दशापि वर्जयेत् , प्रणिधानवानेकाग्रमनाः ॥ १४ ॥ एतर्जकश्च किं कुर्यादित्याहमूलम्-धम्मारामे चरे भिक्खू , धितिमं धम्मसारही। धम्मारामरए दंते, बंभचेर समाहिए ॥१५॥
व्याख्या-धर्म एव दुःखसन्तापतसानां निवृत्तिहेतुत्वादिष्टफलदानाच आराम इव धर्मारामस्तत्र चरेत् प्रवर्चेत भिक्षुर्मुनिः, धृतिर्मनःखास्थ्यं तद्वान् , धर्मसारथिरन्येषामपि धर्मे प्रवर्त्तयिता, धर्मे आरमन्ते इति धर्मारामाः सुसापवस्तेषु रतो न त्वेकाकित्वे धर्मारामरतो दान्त उपशान्तः, ब्रह्मचर्ये समाहितः समाधानवान् ब्रह्मचर्यसमाहित इति सूत्राथेंः ॥१५॥ अथ ब्रह्मचर्यमाहात्म्यमाहमूलम्-देवदाणव गंधवा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुक्करं जे करंति ते ॥ १६ ॥ व्याख्या-देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, सकलदेवजात्युपलक्षणमेतत् , एते सर्वेपिब्रह्मचारिणं मुनि नमस्सन्ति दुष्कर दुरनुचरंप्रक्रमाद्रह्मचर्य 'जेकरंति तेत्ति' सूत्रत्वाद्यः करोति पालयति तमिति सूत्रार्थः ॥१६॥अध्ययनार्थोपसंहारमाह
मूलम्-एस धम्मे धुवे निइतिए, सासए जिणदेसिए।
सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरेत्ति बेमि ॥ १७ ॥ व्याख्या-एष पूर्वोक्तो धर्मो ब्रह्मचर्यरूपो धुवः स्थिरः परवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इत्यर्थः, नित्यत्रिकालभावित्वात् , शाश्वतोऽनवरतभवनात् , एंकार्थिकानि वा एतानि, जिनैदेशितःप्रोक्तो जिनदेशितः, अस कालिक फलमाह-सिद्धाः पूर्वमनन्ताः, सिध्यन्ति विदेहेषु अत्र वा तत्कालापेक्षया, चः समुचये, अनेन ब्रह्मचर्यरूपेण धर्मेण सेत्स्यन्ति तथाऽपरे अनन्तायामनागताद्धायामिति सूत्रार्थः, इति ब्रवीमीति प्राग्वत् ॥ १७ ॥
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षोडशमध्ययनं सम्पूर्णम् ॥ १६ ॥ मयमायालयमययनस्यकताasaHOLISODEReयकायकायमLETEST
॥अथ सप्तदशमध्ययनम् ॥
BOOTLOOSEOVGORONTO
MOUTROLE HOMOLETO DOSTOSOGORONTO COMERCIA
LE
॥ॐ॥ व्याख्यातं षोडशमध्ययनं, अथ पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चामयमभिसम्बन्धः, इहानन्तराध्ययने ब्रह्मचर्यसमाधिस्थानान्युक्तानि तानि च पापश्रमणैः सेवितुं दुःशकानीति तत्वरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्पदमादौ सूत्रद्वयम्
मूलम्-जे केइ उ पवईए निअंठे, धम्म सुणित्ता विणओववण्णे ।
___ सुदुल्लहं लहिउं बोहिलाभ, विहरिज पच्छा य जहासुहं तु ॥१॥ व्याख्या-यः कश्चित्तुः पूरणे प्रबजितो निर्ग्रन्थः, कथं पुनः प्रव्रजितः १ इत्याह-धर्म शुभचारित्ररूपं श्रुत्वा विनयेन ज्ञानविनयादिना उपपन्नो युक्तो विनयोपपन्नः सन् सुदुर्लभमतिशयदुःप्रापं लम्बा बोधिलाभं जिनधर्मावाप्तिरूप, अनेन भावप्रतिपत्त्याऽसौ प्रबजित इत्युक्तं भवति । विहरेत्पश्चाहीक्षादानोत्तरकालं चः पुनरर्थे ततश्च प्रथमं सिंहतया प्रवज्य पश्चात्पुनः 'जहासुहं तुत्ति' तुशब्दस्यैवकारार्थत्वात् यथासुखमेव निद्रादिप्रमादपरतया शृगालवृत्त्यैव विहरेदि. सर्थः ॥ १॥ स च गुदिनाऽध्येतुं प्रेरितो यद्वक्ति तदाह