________________
उत्तराध्ययन
213
धनाकुलः, रहितो अकालचारिणा बन्दन श्रवणादिनिमित्तागतेन स्त्रीजनेन चशब्दात्पण्डकादिभिश्व, कालाकालचारित्वविभागस्तु श्रमणीराश्रित्यायं - " अट्ठमी पक्खिए मोतुं, वायणाकालमेव य ॥ सेसकालमयंतीओ, आओ अकालचारीओ ॥ १ ॥ ति" ब्रह्मचर्यस्य रक्षार्थ रक्षणार्थ आलयं तमिति शेषः, तुः पूत, निषेषते ॥ १ ॥
मूलम् —मणपल्हायजणणी, कामरागविवडणी । बंभचेररओ भिक्खू, थीकहं तु विवज्जए ॥ २ ॥
व्याख्या ——मनः प्रह्लादजननीं कामरागस्य विषयाभिष्वङ्गस्य विवर्द्धनीं कामरागविवर्द्धनीं ब्रह्मचर्यरतो भिक्षुः श्री• कथां तु विवर्जयेत् ॥ २ ॥
मूलम् —समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, निश्चसो परिवज्जए ॥३॥
व्या-सम च सह संस्तवं परिचयं स्त्रीभिर्निषद्या प्रस्तावादेकासनभोगेनेति गम्यते, सङ्कथां च ताभिरेव सह सततभाषणरूपां अभीक्ष्णं वारंवारं 'निवसोत्ति' नित्यं शेषं स्पष्टम् ॥ ३ ॥
मूलम् — अंगपञ्चंगसंठाणं, चारुल्लविअपेहिअं । बंभचेररओ थीणं, चक्खुगिज्झं विवज्जए ॥ ४ ॥
व्याख्या -- अङ्गानां शिरः प्रभृतीनां प्रत्यज्ञानां च कुचकक्षादीनां संस्थानमाकारं, चारु पेशलं उलपितं मन्मनभाषितादि, प्रेक्षितं कटाक्षादि, ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुर्ब्राह्यं सद्विवर्जयेत् । अयं भावः - चक्षुषि सति रूपग्रहणमवश्यम्भावि परं तद्दर्शने तत्त्याग एव कार्यो न तु रागवशात्पुनः पुनस्तदेव वीक्षितव्यं । यदुक्तं - " अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् ॥ रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥ ॥ इति ॥ ४ ॥
मूलम् — कुइअं रुइअं गीअं, हसिअं थणिअकंदिअं । बंभचेररओ थीणं, सोअगिज्झं विवज्जए ॥ ५ ॥ व्याख्या - कूजितादि प्राग् व्याख्यातं, कुड्यान्तरादौ जायमानं श्रोत्रग्राह्यं सत्तत्र मनसोऽकरणेन विवर्जयेत् शेषं स्पष्टम् ॥ ५ ॥
मूलम् — हासं किड्डुं रई दप्पं, सहसावत्तासिआणि अ । बंभचेररओ थीणं, नाणुचिंते कयाइवि ॥ ६ ॥
व्याख्या -- हास्यं प्रतीतं, क्रीडां द्यूतरमणादिरूपां, रतिं कान्ताङ्गसङ्गजनितां प्रीतिं, दर्प मानिनीमानदलनोत्थं गर्व, सहसाऽपत्रासितानि च पराङ्मुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनादीनि प्राकृतानीति शेषः, शेषं व्यक्तं ६ मूलम् – पणिअं भत्तपाणं च खिष्पं मयविवडणं । बंभचेररओ भिक्खू, निच्चसो परिजए ॥ ७ ॥
व्याख्या - स्पष्टं, नवरं - मदः कामोद्रेकः ॥ ७ ॥
मूलम् — धम्मलद्धं मिअं काले, जतत्थं पणिहाणवं । नाइमत्तं तु भुंजिवजा, बंभचेररओ सया ॥ ८॥
व्याख्या - धर्मेण हेतुना न तु कुटिलादिकरणेन लब्धं धर्मलब्धं, मितं “अद्धमसणस्स सर्वजणस्स कुज्जा दवस्स दो भाए ॥ वाऊ परिआरणट्ठा छन्भागं ऊणगं कुज्जा ॥ १ ॥" इत्यागमोक्तमानान्वितमाहारमिति शेषः, काले प्रतावे, यात्रार्थं संयमनिर्वाहार्थं न तु रूपाद्यर्थ, प्रणिधानवान् मनःस्वास्थ्योपेतो न तु रागद्वेषवशगा मुञ्जीतेति योगः । तु शब्दस्योत्तरस्येह सम्वन्धान्न तु न पुनरतिमात्रं मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्यरतः सदा, कदाचित्तु कारणादतिमात्राहारोप्यदुष्टः ॥ ८ ॥
1
मूलम् — विभूसं परिवज्जिज्जा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥ ९ ॥ व्याख्या - विभूषामुपकरणगतां परिवर्जयेत्, शरीरपरिमण्डनं च केशश्मश्रुसमा रचनादिकं ब्रह्मचर्यरतो भिक्षुः शृङ्गारार्थ न धारयेन्न कुर्यात् ॥ ९ ॥
मूलम् - सदे रूवे अ गंधे अ, रसे फासे तहेवय । पंचविहे कामगुणे, निच्चसो परिवज्जए ॥ १० ॥
व्याख्या -- व्यक्तं, नवरं - कामस्य इच्छामदनरूपस्य गुणा उपकारकाः कामगुणास्तानिति सूत्रदशकार्थः ॥ १० ॥ अथ यत्पूर्व प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तदेव दृष्टान्तेन स्पष्टयितुमाह
मूलम् -- आलओ थीजणाइण्णो, थी कहा य मणोरमा । संथवो चेव नारीणं, तासिं इंदिअदरिसणं ॥ ११ ॥ व्याख्या -सुगमं, नवरं - 'संथवोत्ति' संस्तव एकासनभोगादिना परिचयः ॥ ११ ॥
मूलम् — कुइअं रुइअं गीअं, सहसा भुत्तासिआणि अ । पणिअं भत्तपाणं च, अइमायं पाणभोअणं ॥१२॥