________________
२०६॥
उचराप्ययनक्षम् मूलम्सासणे विगयमोहाणं, पुर्वि भावणभाविआ। अचिरेणेव कालेणं, दुक्खस्संतमुवागया॥५२॥
व्याख्या---शासने विगतमोहानामर्हता पूर्वमन्यजन्मनि भावनया धर्माभ्यासरूपया भावितानि वासितानि भावनामाषितानि, भचिरेणैव कालेन खल्पकालेनैव दुःखस्यान्तं मोक्षमुपामतानि प्रासानि सर्वत्र प्राकृतत्वात् पुलिनि. बेश॥५२॥ मन्दमतिस्मरणाय पुनरध्ययनार्थमुपसंहरन्नाहमूलम्-राया य सह देवीए, माहणो अ पुरोहिओ।माहणी दारगाचेव, सवे ते परिनिवुडत्ति बेमि॥५३॥
म्याख्या-राजा इपुकारः सह देव्या कमलावत्या, ब्राह्मणश्च पुरोहितो भृगुः, ब्रायणी यशा, दारको तत्पनी चैव पूर्ती, सर्वाणि तानि परिनिर्वृतानि मुक्तिं गतानीति सूत्रार्थः ॥ ५३॥ इति प्रवीमीति प्राग्वत् ॥
FEMARKARUAENIPARIVATORIALOGORAMAARAAMAR SIL इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्दशमध्ययनं सम्पूर्णम् ॥ १४ ॥
FOOSSESSEEலை
9mes
॥ अथ पञ्चदशमध्ययनम् ॥ ॥ अहम् ॥ व्याख्यातं चतुर्दशमध्ययनं सम्प्रति सभिक्षुनामकं पञ्चदशमारभ्यते,अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतया भिक्षोरेवेति तद्गुणा इहोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम्
मूलम्-मोणं चरिस्सामि समेच्च धम्म, सहिए उज्जुकडे निआणच्छिन्ने ।
__संथवं जहिज अकामकामे, अण्णाएसी परिवए स भिक्खू ॥१॥ व्याख्या- मौनं श्रामण्यं चरिष्यामीत्यभिप्रायेणेति शेषः, समेत्य प्राप्य धर्म श्रुतचारित्रभेदं, सहितो युक्तोऽन्यसाधभिरिति गम्यं. न त्वेकाकी, एकाकिभावस्यागमे निषिद्धत्वात् , यदुक्तं-"इक्कस्स कओ धम्मो, सच्छंदगई मइप्पयारस्स ॥ किं वा करेइ इको, परिहरउ कहमकजं वा ? ॥१॥" तथा ऋजुकृतोऽशठानुष्ठानः, 'निआणछिन्नेत्ति' छिन्नमपनीतं निदानं विषयाघभिष्वङ्गरूपं येन स छिन्ननिदानः, व्यत्ययस्त्विहोत्तरत्रं च प्राकृतत्वात् , संस्तवं मात्रादिभिः परिचयं जह्यात्त्यजेत् , अकामकामः न कामाभिलाषी, अज्ञातस्तपखितादिगुणैरेषयते ग्रासादिकमित्येवंशीलोऽज्ञातैषी, परिव्रजेदनियतविहारेण विहरेत् ‘स भिक्खुत्तिय एवंविधः स भिक्षरनेन सिंहतया निष्क्रम्य सिंहतयैव विहरणं भिक्षुतानिमित्तमिति सूचितमिति सूत्रार्थः ॥ १॥ सिंहतया विहारमेव विशेषत आह
मूलम्-राओवरयं चरिज लाढे, विरए वेअवि आयरक्खिए।
पण्णे अभिभूय सवदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ॥२॥ व्याख्या-राओवरयंति' उपरतरागं यथा स्यात्तथा चरेद्विहरेत् 'लाढेत्ति' सदनुष्ठानतया प्रधानः, विरतोऽसंयमानिवृत्तो, वेदविदागमवेदी 'आयरक्खिएत्ति' आत्मा रक्षितो दुर्गतेन स आत्मरक्षितः, यद्वा आयाः सम्यक्त्वादिलामा रक्षिता येन स आयुरक्षितः, प्राज्ञो हेयोपादेयबुद्धिमान् , अभिभूय परीषहोपसर्गानिति शेषः, सर्व प्राणिवर्गमात्मवत्पश्यतीति सर्वदर्शी, यः कस्मिंश्चित्सचित्तादिवस्तुनि न मूर्छितः स भिक्षुरिति सूत्रार्थः ॥ २॥ तथा--
मूलम्-अक्कोसवहं विइत्तु धीरे, मुणी चरे लाढे निच्चमायगुत्ते ।।
अवग्गमणे असंपहिढे, जो कसिणं अहिआसए स भिक्खू ॥३॥ व्याख्या-आक्रोशश्च वधश्च आक्रोशवधं तद्विदित्वा खकृतकर्मफलमेतदिति मत्वा धीरोऽक्षोभ्यः मुनिश्चरेदप्रतिबद्धविहारेण 'लाढेत्ति' प्राग्वत् , नित्यं सदा आत्मा रक्षितोऽसंयमस्थानेभ्यो येन स तथा, अव्यग्रमसमअसचिन्तो परतं मनो यस्य स तथा, असम्प्रदृष्टः आक्रोशदानादिषु न सम्प्रहर्षवान् , अमून्याक्रोशवाक्यानि कर्मक्षयहेतुतया ममानन्दाय जायन्ते परमयं वराको मुनीनाशात्य कथं भविष्यतीत्यादिकमप्यजल्पन्नित्यर्थः, यः कृत्स्नं समस्तमाकोबपधमध्यास्ते सहते स भिक्षुरिति सूत्रार्थः॥३॥ किञ्च