________________
उत्तराष्पयनसूत्रम्
॥२०५॥ समूह, यो हि सविवेको रागादिरहितश्च स्यात् स दावामिना दयमानानन्यसत्वान् दृष्ट्वा खरक्षणोपायपर एष साह तु मोदते, यस्तु मूर्यो रागादिमांश्च स आयतिमचिन्तयन्मोदते, ततो वयमपि भोगात्यागादज्ञानिन एवेति भावः ।। ४३ ॥ ये त्वेवंविधा न स्युस्ते किं कुर्युरित्याह-- मूलम्-भोगे भुच्चा वमित्ता य, लहुभूयविहारिणो। आमोदमाणा गच्छंति, दिया कामकमा इव ४४
व्याख्या-भोगान् भुक्त्वा पुनरुत्तरकालं वान्त्वा च लघुर्वायुस्तद्भूताः सन्तो विहरन्तीत्येवं शीला लघुभूतविहारिणोऽप्रतिवद्धविहारिण इत्यर्थः, आमोदमानाः प्रमोदं यान्तस्तथाविधानुष्ठानेनेति शेषः, गच्छन्ति विवक्षितस्थानमिति शेषः, क इव ? भिन्नक्रमस्य इवशब्दस्येह योगात् द्विजा इव पक्षिण इव कामक्रमाः खेच्छाचारिणः, यथा हि द्विजा यत्र यत्र रोचते तत्र तत्र मोदमाना भ्राम्यन्ति, एवं मुनयोप्यभिष्वङ्गाभावाद्यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीति भावः ॥ ४४ ॥ पुनरर्थादिषु रागं निराकर्तुमाहमूलम्-इमे अ बद्धा फंदंति, मम हत्थजमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥४५॥ ___ व्याख्या--इमे प्रत्यक्षाः शब्दादयो विषयाश्चोप्यर्थे भिन्नक्रमश्च, ततो बद्धा अपि नियंत्रिता अपि बहूपायै रक्षिता अपीत्यर्थः, स्पन्दन्ते इव स्पन्दन्ते अस्थितिधर्मतया कम्पन्ते, ये कीशा इत्याह-मम उपलक्षणत्वात्तव च हस्तं हे आर्य ! आगताः खवशा इत्यर्थः, वयं च वयं पुनः सक्ताः कामेष्वेवंविधेष्वपि तदहो मोहविलसितमिति भावः ! यतः एवं ततो भविष्यामो यथेमे पुरोहितादयः, अयं भावः-यथामीभिश्चञ्चलत्वं वीक्ष्यामी त्यक्तास्तथा वयमपि त्यक्षामः इति ॥ ४५ ॥ नन्वस्थिरा अपि कामाः सुखहेतवस्तत्किं त्यज्यन्ते ? इत्याहमूलम् -सामिसं कुललं दिस्स,बज्झमाणं निरामिसीआमिसं सबमुज्झित्ता, विहरिस्तामो निरामिसा ४६
व्याख्या--सामिपं पिशितरूपामिषयुक्तं कुललं गृनं शकुनिकां वा दृष्ट्वा बाध्यमानं पीड्यमानं विहगान्तरिति गम्यते, निरामिषं च तमेव निर्भयं वीक्ष्येति शेषः, आमिषं धनधान्यादिसङ्गहेतुं सर्वमुज्झित्वा विहरिष्याम्यप्रतिबद्धविहारेण निरामिषा निःसङ्गा ॥ ४६ ॥ उक्तानुवादेनोपदेष्टुमाहमूलम्-गिद्धोवमे उ नच्चा णं, कामे संसारवड्ढणे। उरगो सुवण्णपासे वा, संकमाणो तणुं चरे॥१७॥ __ व्याख्या-गृधोपमान् सामिषगृध्रसमान् , तुः पूत्तौं, ज्ञात्वा, णं वाक्यालंकारे, कामयन्ते शब्दादीन् वान्छन्तीति कामा विषयाभिलापिणस्तान् संसारवर्द्धनान् , 'उरगो सुवण्णपासेवत्ति' उरग इव सुपर्णपार्थे गरुडाभ्यर्णे शङ्कमानो भयत्रस्तस्तनु स्तोकं यतनयेत्यर्थः चरेः क्रियासुप्रवर्तेथाः, यथा गरुडोपमैर्विषयैर्न बाध्यसे तथा यतखेति भावः ॥४७॥ ततश्चमलम-नागोब बंधणं छित्ता, अप्पणो वसई वए। एअं पत्थं महारायं, इसुआरेत्ति मे सुयं ॥४८॥
व्याख्या-नाग इव बन्धनं छित्त्वा आत्मनो वसतिं व्रज, अयं भावः-यथा हस्ती बन्धनवरत्रां छित्त्वात्मनो वसतिं विन्ध्याटवीं बजत्येवं त्वमपि कर्मबन्धनं छित्वा आत्मनः शुद्धजीवस्य वसतिमाश्रयं मुक्तिं ब्रजे, अनेन दीक्षायाः फलमुक्तं, एवमुपदिश्योपसंहरति । एतद्यन्मयोक्तं पथ्यं हितं महाराज ! इषुकार ! इस्येतन्मया श्रुतं साधुभ्यो न तु खधियैवोच्यत इति सूत्रद्वादशकार्थः ॥ ४८ ॥ एवं च तद्राि प्रतिबुद्धो नृपस्ततो यत्तौ द्वावपि चक्रतुस्तदाहमूलम्-चइत्ता विउलं रजं, कामभोगे अदुच्चए।निविसया निरामिसा, निन्नेहा निप्परिग्गहा ॥४९॥ । व्याख्या-त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान् निर्विषयौ विषयरहितावत एव निरामिषौ अभिष्वङ्गहेतुरहितौ, निःस्नेही निःप्रतिबन्धौ, निःपरिग्रहौ मूर्छारहितौ ॥४९॥ मूलम् सम्मं धम्म विआणित्ता, चिच्चा कामगुणे वरे। तवं पगिज्झ जहक्खायं, घोरं घोरपरक्कमा ५०
व्याख्या-सम्यग्धर्म श्रुतचारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान् , पुनः कामगुणत्यागामिधानमतिशयस्यापकं, तपोऽनशनादि प्रगृह्याङ्गीकृत्य यथाख्यातं यथा येन प्रकारेण जिनैराख्यातं कथितं घोरमतिदुष्करं, घोरः पराक्रमः कोरिजयं प्रति ययोस्तो घोरपराक्रमौ प्रवव्रजतुरिति शेष इति सूत्रद्वयार्थः ॥५०॥ सम्प्रति समस्ताध्ययनार्थोपसंहारमाहमूलम्-एवं ते कमसो बुद्धा, सल्वे धम्मपरायणा । जम्ममच्चुभओविग्गा, दुक्खस्संतगवेसिणो॥५१॥
व्याख्या-एवममुना प्रकारेण तानि पूर्वोक्तानि षडपि क्रमशो यथोक्तक्रमेण बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युभयोद्विमानि दुःखस्यान्तगवेषकानि ॥५१॥