________________
उचराघवनक्षम् मूलम्- पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दसमसगे।
अवग्गमणे असंपहिहे, जो कसिणं अहिआसए स भिक्खू ॥४॥ व्याख्या-प्रान्तमवमं शयनासनं उपलक्षणत्वाद्भोजनाच्छादनादि च भक्त्वा सेवित्वा शीतोष्णं विविधं च दंशमशकं प्राप्येति शेषः, सर्वत्रापि समाहारद्वंद्वः, शेषं प्राग्वदिति सूत्रार्थः॥४॥ अन्यच
मूलम्-णो सक्किअमिच्छई न पूअं, नो विअ वंदणगं कओ पसंसं ।
से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥ व्याख्या-नो नैव सत्कृतं सत्कारमभ्युत्थानानुगमनादिकमिच्छति,न पूजां वस्त्रादिसपयों, नो पि च नैव च बन्दनकं द्वादशावर्त्तादिकं, कुतःप्रशंसां निजगुणोत्कीर्तनरूपां? नैवेच्छतीति भावः । स एवं विधः सम्यग् यतते सदनुष्ठान प्रतीति संयतः,सुव्रतः शोभनव्रतस्तपखी प्रशस्यतपाः, सहितः सम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेनायति पथ्येनानुष्ठानेन वर्त्तते इति सहितः, आत्मानं कर्ममलापगमाच्छुद्धं गवेषयतीत्यात्मगवेषको यः स भिक्षुरितिसूत्रार्थः ॥५॥तथामूलम्-जेण पुण जहाइ जीविअं, मोहं वा कसिणं निअच्छइ नरनारिं।
पजहे सया तवस्सी न य कोऊहलं उवेइ स भिक्खू ॥६॥ ___ व्याख्या- येन हेतुभूतेन पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतको जहाति त्यजति जीवितं संयमजीवितं, मोहं वा मोहनीयं कषायनोकपायादिरूपं कृत्वं सकलं नियच्छति बभाति तदेवंविधं नरश्च नारी च नरनारि प्रजह्यात्त्यजेत्सदा, यस्तपखी, न च कुतूहलं अभुक्तभोगत्वे ख्यादिविषयं, उपलक्षणात्वाद्भुक्तभोगत्वे स्मृति चोपैति स भिक्षुरिति सूत्रार्थः ॥ ६ ॥ अथ पिण्डविशुद्धिद्वारेण भिक्षुत्वमाह
मूलम्-छिन्नं सरं भोममंतलिक्खं, सुविणं लक्खणदंडवत्थुविज ।
अंगविआरं सरस्स विजयं, जो विजाहिं न जीवई स भिक्खू ॥७॥ व्याख्या-छेदनं छिन्नं वस्त्रदन्तकाष्ठादीनां तद्विषयशुभाशुभनिरूपिका विद्यापि छिन्नमित्युक्ता, एवं सर्वत्र । “देवेसु उत्तमो लाहो, माणुसेसु अ मज्झिमो ॥ आसुरेसु अ गेलन्नं, मरणं जाण रक्खसे ॥१॥" इत्यादि छिन्नं । 'सरंति' खरखरूपाभिधानं "सजं रवइ मयूरो” इत्यादिकं । “सज्जेण लहइ वित्तिं, कयं च न विणस्सइ ॥ गावो पुत्ता यमित्ता य, नारीणं होति वल्लहो॥१॥” इत्यादिकंच तथा भूमौ भवं भौमं भूकम्पादिलक्षणं, "शब्देन महता भूमि-यंदा रसति कम्पते ॥ सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ॥ १॥” इत्यादि । अन्तरिक्षमाकाशं तत्र भवमान्तरिक्षं गन्धर्वनगरादिकं, यथा-"कपिलं सस्य घाताय, माञ्जिष्ठं हरणं गवाम् ॥ अव्यक्तवर्ण कुरुते, बलक्षोभं न संशयः ॥१॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् ॥ सौम्यादिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ॥ २॥" इत्यादि । खनं खानगतशुभाशुभकथनं, यथा-"गायने रोदनं विद्या-वर्तने वधबन्धनम् ॥ हसने शोचनं ब्रूया-त्पठने कलहं तथा ॥१॥"
तथा लक्षणं स्त्रीपुरुषादीनां, यथा-"चक्खुसिणेहे सुभगो, दंतसिणेहे अ भोअणं मिटुं॥ तयनेहण य सोक्खं, नहनेहे होति परमधणं ॥१॥” इत्यादि । तथा दण्डो यष्टिस्तत्वरूपकथनम् , “एगपवं पसंसंति, दुपवा कलहकारिआ" इत्यादि । तथा वास्तुविद्या प्रासादादिलक्षणाभिधायकं शास्त्रं, तथा अङ्गविकारः शिरःस्फुरणादिना शुभाशुभखरूपकथनम् , “सिरफुरणे किर रजं, पिअमेलो होइ बाहुफुरणमि" इत्यादि । खरस्य दुर्गाशिवादिरुतरूपस्य विजयः शुभाशुभनिरूपणाभ्यासः खरविजयः, “गतिस्तारा खरो वामो, दुर्गायाः शुभदः स्मृतः ॥ विपरीतः प्रवेशे तु, स एवाभीष्टदायकः ॥१॥” इत्यादि । ततो य एताभिर्विद्याभिर्न जीवति, नैता एव जीविकाः प्रकल्प्यप्राणान् धारयति स भिक्षुरिति सूत्रार्थः ॥७॥ तथा
मूलम्-मंतं मूलं विविहं विजचिंतं, वमणविरेअणधूमनित्तसिणाणं ।
आउरे सरणं तिगिच्छत्तं च, तं परिणाय परिवए स भिक्खू ॥८॥ व्याख्या-मंत्रं ॐकारादिखाहापर्यन्तं, 'मूलंति' सहदेव्यादिमूलिकाकल्पशास्त्रं, विविधां नानाप्रकारां वैद्यचिन्तां वैषसम्बन्धिनी पथ्यौषधादिव्यापारात्मिकां चिन्तां “वर्जयेद् द्विदलं शूली, कुष्टी मांसं ज्वरी घृतम् ॥ नवमन्नमतीसारी, नेत्ररोगी च मैथुनम् ॥ १॥" इत्यादिकां । वमनमुद्रिणं, विरेचनं कोष्ठशुद्धिरूपं, धूमं मनःशिलादिसम्ब