________________
उतराध्ययनसूत्रम्
॥ २०३ ॥
वदतीति शेषः, यथा हि शाखा दुमस्य शोभा संरक्षणादिना समाधिहेतव एवं ममाप्येतौ सुतौ तद्रहितश्चाहमपि खाणुकल्प एवेति भावः ॥ २९ ॥ किञ्च -
मूलम् - पंक्खाणिव जहेह पक्खी, भिचविहूणोव रणे नरिंदो । विन्नसारो वणिओa पोए, पहीणपुत्तोम्हि तहा अहंपि ॥ ३० ॥
व्याख्या - पक्षविहीनो वा दृष्टान्तान्तरसमुच्चये यथेह लोके पक्षी, भृत्यविहीनो वा रणे नरेन्द्रो, विपन्नसारो विनहिरण्यादिद्रव्यो वणिगिव पोते प्रवहणे भिन्ने इति शेषः, एते यथा व्यसनभागितया विषीदन्ति पुत्रप्रहीणस्तथाहमप्यस्मीति सूत्रद्वयार्थः ॥ ३० ॥ वाशिष्ट्याह
मूलम् — सुसंभिआ कामगुणा इमे ते, संपिंडिआ अग्गरसप्पभूआ ।
भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामि पहाणमग्गं ॥ ३१ ॥ व्याख्या - सुसम्भृताः सुष्ठु संस्कृताः कामगुणा इमे खगृहवर्त्तिनस्ते तव, तथा सम्पिण्डिताः पुञ्जीकृताः 'अग्गरसत्ति' चस्य गम्यत्वादय्याः प्रधानास्ते च ते रसाश्च मधुरादयो अय्यरसाः प्रभूताः, कामगुणान्तर्गतत्वेपि रसानां पृथगुपादानमतिगृद्धहेतुत्वात् भुञ्जीवहि तत्तस्मात्कामगुणान् प्रकाममत्यर्थं पश्चादृद्धावस्थायां गमिष्यावः प्रधानमार्ग प्रत्रज्यारूपं मुक्तिमार्गमिति सूत्रार्थः ॥ ३१ ॥ भृगुः प्राह
मूलम् - भुत्ता रसा भोइ ! जहाइ णे वओ, न जीविअट्ठाए जहामि भोए ।
लाभं अलाभं च सुहं च दुक्खं, संविक्खमाणो चरिस्सामि मोणं ॥ ३२ ॥
व्याख्या - भुक्ताः सेविता रसा उपलक्षणत्वाच्छेषकामगुणाश्च 'भोइत्ति' हे भवति ! ब्राह्मण्या आमंत्रणमेतत्, ज हाति त्यजति नोऽस्मान् वयः, प्रक्रमादिष्टक्रियाकरणक्षमं, उपलक्षणत्वाज्जीवितं च ततो यावत्तन्न त्यजति तावत्प्रप्रजाम इति भावः । दीक्षां हि भवान्तरभाविभोगार्थ गृह्णासि ते चाधुनापि सन्त्येव तत्किं तयेति प्रेरणायामाह - न जीवितार्थमसंयमजीवितहेतोः प्रजहामि भोगान् किन्तु लाभमलाभं सुखं चस्य भिन्नक्रमादुःखं च 'संविक्खमाणोति' समतया ईक्षमाणः, लाभालाभसुखदुःखजीवितमरणादिषु समतामेव भावयन्निति भावः, चरिष्यामि मौनं मुनिभावं, ततो मुक्त्यर्थमेव मे दीक्षाप्रतिपत्तिरिति सूत्रार्थः ॥ ३२ ॥ यशा प्राह
मूलम् - मा हु तुमं सोअरिआण संभरे, जुण्णोब हंसो पडिसोअगामी ।
भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिआ विहारो ॥ ३३ ॥
व्याख्या - मा निषेधे, दुर्वाक्यालङ्कारे, त्वं सौदर्याणां भ्रातृणामुपलक्षणत्वाच्छेषस्वजनानां भोगानां च 'संभरेत्ति' स्मार्षीः 'जुण्णोव हंसोत्ति' जीर्णो हंस इव प्रतिश्रोतोगामी सन् अयं भावः - यथासौ नदीस्रोतसि प्रतिकूलगमनमतिकष्टमारभ्यापि तत्राशक्तः पुनरनुस्रोत एव धावति, तथा त्वमपि प्रतभारं वोढुमक्षमः खजनान् भोगांश्च स्मरिव्यसि, ततो भुंक्ष्व भोगान् मया समानं सार्द्ध । 'दुक्खं खुत्ति' दुःखमेव भिक्षाचर्या भिक्षाटनं, विहारो ग्रामादिष्वप्रतिबद्धविहारः, उपलक्षणञ्चैतच्छिरोलो चादीनामिति सूत्रार्थः ॥ ३३ ॥ भृगुः प्राह
मूलम् – जहा य भोइ ! तणुअं भुअंगमो, निम्मोअणि हेच पलेइ मुत्तो । एमेए जाया पहंति भोए, तेऽहं कहं नाणुगमिस्समिको ॥ ३४ ॥
ब्वाख्या—यथा चः पूर्त्तो 'भोइत्ति' हे भवति ! तनुजां देहोद्भवां मुजङ्गमो निर्मोचनीं कञ्चुलिकां हित्वा पर्येति समन्ताद्गच्छति मुक्तो निरपेक्षः, 'एमेएत्ति' एवमेतौ जातौ प्रजहीतस्त्यजतो भोगान् तौ जातौ अहं कथं नाऽनुगमिम्यामि १ प्रव्रज्याग्रहणेनानुसरिष्यामि १ एकोऽद्वितीयः, किं १ ममासहायस्य गृहवासेनेति भावः ॥ ३४ ॥ तथा
मूलम् - छिंदित्तु जालं अबलं व रोहिआ, मच्छा जहा कामगुणे पहाय । धोरेजसीला तवसा उदारा, धीरा हु भिक्खायरिअं चरंति ॥ ३५ ॥
व्याख्या - छित्वा जालमबलमिव दुर्बलमिव बलीयोऽपीति शेषः, रोहिता रोहितजातीया मत्स्याश्चरन्तीति सम्ब न्धः, यथेति दृष्टान्तोपन्यासे, तथेति गम्यते, ततश्च तथा जालरूपान् कामगुणान् प्रहाय त्यक्त्वा धुरि वहन्ति धौरेवास्तेषामिव शीलमुत्क्षितभारनिर्वाहलक्षणं येषां ते तथा, तपसाऽनशनादिनोदाराः प्रधानाः, धीराः सात्विकाः 'हुरिति'