________________
॥२०॥
उचराप्ययनसूत्रम् मूलम् --अब्भाहयंमि लोगंमि, सबओ परिवारिए । अमोहाहिं पडतीहिं, गिहंसि न रई लभे ॥२१॥
ब्याख्या---अभ्याहते पीडिते लोके सर्वतः सर्वासु दिक्षु परिवारिते परिवेष्टिते अमोघाभिरवन्ध्यप्रहरणोपमामिः पतन्तीभिः गृहे गृहवासे न रतिं लभावहे, यथा वागुरावेष्टितो मृगो अमोघैश्च प्रहरणैर्व्याधेनाऽभ्याहतो न रति समते एवमावामपीति सूत्रार्थः ॥ २१ ॥ भृगुराहमूलम्-केण अब्भाहओ लोओ, केण वा परिवारितो।का वा अमोहा वुत्ता, जाया चिंतापरो हुमि २२
व्याख्या-केन व्याधकल्पेनाभ्याहतो लोकः १ केन वा वागुरारूपेण परिवारितः १ का वा अमोघा अमोघप्रहरणोपमा उक्ताः ? हे जातौ ! चिन्तापरः 'हुमित्ति' भवामि, ततो ममावेद्यतामयमर्थ इति सूत्रार्थः॥२२॥ तावाहतुःमूलम्-मच्चुणब्भाहओ लोओ, जराए परिवारिओ। अमोहा रयणीवुत्ता, एवं ताय विआणह॥२३॥
व्याख्या-मृत्युनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात् , जरया परिवारितस्तस्या एव मरणाभिघातयोग्यतापादने प्रवणत्वात् , अमोघा रजन्य उक्ताः दिनाविनाभावित्वात्तासां दिनाच, तत्पतने बवश्यम्भावी जनाभिघातः, एवं तात ! विजानीतेति सूत्रार्थः॥ २३॥ किञ्चमूलम्-जा जा वच्चइ रयणी, न सा पडिनिअत्तइ ।अहम्मं कुणमाणस्स, अहला जंति राइओ २४
व्याख्या-या या व्रजति रजनी उपलक्षणत्वादिनं च न सा प्रतिनिवर्त्तते पुनरागच्छति, ताश्चाधर्म कुर्वतो जन्तोरिति शेषः, अफला यान्ति रात्रयः, अधर्मनिबन्धनं गास्थिमिति तत्त्याग एव श्रेयान् ॥ २४॥ तथामूलम्-जा जा वच्चइरयणी, न सा पडिनिअत्तइ। धम्मं च कुणमाणस्स, सहला जति राइओ ॥२५॥
व्याख्या-प्राग्वन्नवरं 'धम्मं चत्ति' धर्म पुनः कुर्वाणस्य सफला धर्मफलत्वाजन्मनो न च व्रतं विना धर्म इत्यतस्तदेव प्रतिपत्स्यावहे इति सूत्रद्वयार्थः ॥ २५ ॥ अथ तद्वचनेन प्रतिबुद्धो भृगुराहमूलम्-एगओ संवसित्ताणं,दुहओ सम्मत्तसंजुआ।पच्छा जाया गमिस्सामो,भिक्खमाणा कुले कुले २६
व्याख्या-एकत एकस्मिन् स्थाने समुष्य सहैव उषित्वा 'दुहओत्ति' द्वयं च द्वयं च द्वये आवां युवां च सम्यस्वसंयुता उपलक्षणत्वाद्देशविरत्या च संयुताः पश्चाद्यौवनोत्तरकालं हे जातौ ! गमिष्यामो वयं प्रव्रज्य मासकल्पादिक्रमेणेति शेषः, भिक्षमाणाः कुले कुले गृहे गृहे अज्ञातोञ्छवृत्त्येति सूत्रार्थः ॥ २६ ॥ कुमारावाहतुः
मूलम्-जस्सत्थि मञ्चुणा सक्खं, जस्स वत्थि पलायणं।
- जो जाणे न मरिस्सामि, सो हु कंक्खे सुएसिआ ॥ २७ ॥ व्याख्या-यस्यास्ति मृत्युना सह सख्यं मैत्री, यस्य वास्ति पलायनं नशनं मृत्योरिति प्रक्रमः, तथा यो जानाति यथाहं न मरिष्यामि, 'सो हुत्ति' स एव कांक्षति वाञ्छति, व आगामिदिने स्यादिदं कार्यमिति शेषः ॥२७॥ ततश्व
मूलम्-अजेव धम्म पडिवजयामो, जहिं पवण्णा न पुणब्भवामो।
___अणागय नेव य अस्थि किंचि, सद्धा खमं णे विणइत्तु रागं ॥ २८ ॥ व्याख्या-अद्यैव धर्म प्रतिपद्यामहे 'जहिति' आपत्वाचं धर्म प्रपन्ना आश्रिता न पुनः 'भवामोत्ति' भविष्यामः, न पुनर्जन्मजरामरणाद्यनुभविष्यामस्तदभावहेतुत्वाद्धर्मस्य । किञ्च अनागतमप्राप्तं नैव नास्ति किञ्चित्सुन्दरमपि वस्तु विषयसौख्यादि, सर्वभावानामनन्तशः प्राप्तत्वात् , अतः श्रद्धा अभिलाषः, क्षमं युक्तो धर्मानुष्ठानं कर्तुमिति शेषः, 'णेत्ति' नोऽस्माकं 'विणइत्तुत्ति' व्यपनीय रागं खजनाभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ॥ २८ ॥ इदश्चाकर्ण्य जातप्रताशयो भृगु मणी धर्मविनकरी मत्वेदमाह
मूलम् -पहीणपुत्तस्स हु नत्थि वासो, वासिहि भिक्खायरिआइ कालो।
साहाहिं रुक्खो लहई समाहि, छिन्नाहिं साहाहि तमेव खाणुं ॥ २९ ॥ व्याख्या-'पहीणपुत्तस्सत्ति' पुत्राभ्यां प्रहीणस्त्यक्तः पुत्रप्रहीणस्तस्स प्राकृतत्वात् पूर्वापरनिपातः, हुः पूरणे नास्ति वासोऽवस्थानं मम गृह इति शेषः, हेषाशिष्ठि ! वशिष्ठगोत्रोद्भवे । भिक्षाचर्याया व्रतस्य कालः प्रस्तावो वर्त्तते इति गम्यं । किमिसेवमत आह-शाखाभिवृक्षो लभते समाधि खास्थ्यं, छिन्नाभिः शाखाभिस्तमेव वृक्षं स्थाj बनो