________________
उतराध्ययनसूत्रम्
॥ २०१ ॥
रजन्यादयो हरन्ति भवान्तरं नयन्ति इत्यतो हेतोः कथं प्रमादो धर्मे कर्तुं युक्त इति सूत्रषट्कार्थः ॥ १५ ॥ अब तौ धनादिना लोभयितुं पुरोधाः प्राह
मूलम् - धणं पभूअं सह इत्थिआहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पति जस्स लोओ, तं सब्बसाहीणमिहेव तुब्भं ॥ १६ ॥ व्याख्या -- धनं प्रभूतं सह स्त्रीभिः खजनाः पितृपितृव्यादयः, तथा कामगुणाः शब्दादयः प्रकामा अतिशायिनो. वर्त्तन्त इति गम्यं, तपः कष्टानुष्ठानं कृते निमित्तं तप्यतेऽनुतिष्ठति यस्य धनादेर्लोकः तत्सर्व खाधीनमिहैवास्मिन्नेव गृहे 'तुति' युवयोरिति सूत्रार्थः ॥ १६ ॥ तावाहतुः
मूलम् - धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहिं चेव ।
समणा भविस्सामु गुणोहधारी, बहिंविहारा अभिगम्म भिक्खं ॥ १७ ॥ व्याख्या–धनेन किं ? न किंचिदित्यर्थः, धर्म एव सात्विकधुरन्धरैरुह्यमानतया धूरिव धर्मधुरा तदधिकारे तत्प्रस्तावे खजनेन वा कामगुणैश्चैव ततः श्रमणौ भविष्यावो गुणाधधारिणौ क्षमादिगुणसमूहधारकौ, बहिर्ग्रामादिभ्यो विहारो यस्तो बहिर्विहारी अप्रतिबद्धविहारावित्यर्थः, अभिगम्याश्रित्य भिक्षामिति सूत्रार्थः ॥ १७ ॥ आत्मास्तित्वमूलत्वाद्धर्मानुष्ठानस्य तन्निराकर्त्तुं भृगुराह—
मूलम् - जहा य अग्गी अरणी असंतो, खीरे घयं तिलमहा तिलेसु । एमेव जाया सरिरंमि सत्ता, संमुच्छई नासइ नावचिट्ठे ॥ १८ ॥
व्याख्या -- यथैव चकारस्यैवकारार्थत्वात् अभिः 'अरणित्ति' अरणितोऽग्निर्मन्थनकाष्ठादसन् अविद्यमान एव सम्मूच्छति, तथा श्रीरे घृतं तैलमथ तिलेषु, एवमेव हे जातौ ! शरीरे सत्वाः 'संमुच्छइत्ति' सम्मूर्च्छन्ति, पूर्वमसन्त एवो`त्पद्यन्ते । तथा 'नासइत्ति' नश्यन्ति, अभ्रपटलवद्विलयमुपयान्ति । 'नावचिट्ठेत्ति' न पुनरवतिष्ठन्ते, शरीरनाशे सति तन्नाशादिति सूत्रार्थः ॥ १८ ॥ कुमारावाहतुः
मूलम् -नो इंदिअगिज्झो अमुत्तभावा, अमुत्तभावाविअ होइ निश्च्चो ।
अज्झत्थउं निअओस्स बंधो, संसारहेउं च वयंति बंधं ॥ १९ ॥
घ्याख्या -नो इंद्रियग्राह्यः सत्व इति प्रक्रमः, अमूर्त्तभावादिन्द्रियग्राह्य रूपाद्यभावात् । तथा अमूर्त्तभावादपि च भवति नित्यस्तथा हि-यद्द्रव्यत्वे सत्यमूर्त्त तन्नित्यं, आकाशवत् । न चैवममूर्त्तत्वादेव बन्धासम्भवः इति वाच्यं १ यतः 'अज्झत्थहेउंति' इहाध्यात्मशब्देनात्मस्थाः मिथ्यात्वादय उच्यन्ते, ततस्तद्धेतुस्तन्निमित्तो नियतो निश्चितोऽस्य जन्तोन्धः कर्मभिः संश्लेषः यथाऽमूर्त्तस्यापि नभसो मूर्तैरपि घटादिभिः सम्बन्धः एवमस्यापि मूर्तेरपि कर्मभिर्ध्न विरुध्यते । तथा संसारहेतुं च वदन्ति बन्धमिति, ततश्चास्त्येवात्मा चेतनाश्रयः, तदभावे हि प्रतिदेहिनमुपलभ्यमानस्य चैतन्यस्य निरास्पदत्वप्रसङ्गात् । न च वाच्यं पृथिव्यादिभूतानि चैतन्यस्याश्रय इति न तस्य निरास्पदत्वमिति ? पृथक्रस्थितेषु तिलेषु स्नेहस्येव पृथग्भूतेषु भूतेषु चैतन्यांशस्याप्यनुपलब्धेः यच्च येषु पार्थक्यावस्थायां स्वल्पमपि नास्ति न तत्तेषु संहितेष्वपि भवितुमर्हति, रेणुकणेषु तैलमिव । स्यादेतन्मद्याङ्गेषु मदशक्तिः पूर्वमनुपलभ्यमानापि संहितेषु तेषु दृश्यत इति चेन्मैवं तेषु पूर्वमपि मदशक्तेः किञ्चिदुपलभ्यमानत्वात् दृश्यते हि धातकीपुष्पेषु मनाग् वैकल्यजनकत्वं, गुडे बलवर्धकत्वं चेति, एवमन्येष्वपि तदङ्गेषु द्रष्टव्यं, न चैवं पार्थक्यावस्थायां पृव्यादिषु किञ्चिदस्पष्टमपि चैतम्यमुपलभ्यते, तत एभ्यो ऽतिरिक्त एव तस्याश्रय एष्टव्यः, स चात्मैवेति स्थितं । स च नित्यो भवान्तरयायी, तस्य च मिथ्यात्वादिभिर्बन्धो बन्धादेव च संसार इति सूत्रार्थः ॥ १९ ॥ ततश्च
मूलम् — जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा । उरभमाणा परिरक्खि अंता, तं नेव भुज्जोवि समायरामो ॥ २० ॥ व्याख्या—यथा वयं इत्यावां धर्म सम्यग्दर्शनादिकं अजानन्तौ पापं पापहेतुः पुरा पूर्व कर्मानुष्ठानं 'अकासित्ति' मका, मोहात्तत्वाज्ञानात् अपरुयमाना गृहान्निर्गममलभमानाः परिरक्ष्यमाणा अनुजीविभिरनुपात्यमानास्तत्पापकर्म नैव भूयोपि पुनरपि समाचरामो यथावद्विदितवस्तुखरूपत्वादिति सूत्रार्थः ॥ २० ॥ अन्यच्च -