________________
॥२०॥
उचराषवनवम् मूलम्-सोअग्गिणा आयगुणिधणेणं, मोहानिला पजलणाहिएणं ।
संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ॥ १०॥ पुरोहिअं तं कमसोऽणुणितं, निमंतयंतं च सुए धणेणं।
जहकम कामगुणेहिं चेव, कुमारगाते पसमिक्ख वकं ॥ ११ ॥ व्याख्या-शोकामिना पुत्रविरहसम्भावनोद्भवशोकवह्निना, किंभूतेन ? आत्मनो गुणा आत्मगुणा अनादिकालसहचरितत्वाद्रागादयस्ते इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहानिलादज्ञानवायोः 'पजलणाहिएणंति' सूत्रत्वादधिकं प्रज्वलनं यस्य स तथा तेन, सन्तप्तः भावः अन्तःकरणमस्येति सन्तप्तभावस्तं, अत एव परितप्यमानं समतापमानं, लालप्यमानं पुनः पुनर्दीनवचांसि लपन्तं, बहुधाऽनेकप्रकारं बहु च प्रभूतं यथा स्यात्तथा ॥ १०॥ पुरोहितं तमिति प्रक्रान्तं 'कमसोत्ति' क्रमेणानुनयन्तं स्वाभिप्रायेण प्रज्ञापयन्तं निमंत्रयन्तं च, सुतौ धनेन यथाक्रम कामगुणैश्चैव मनोजशब्दाद्यैः कुमारको तौ प्रसमीक्ष्य प्रकर्षेण मोहाच्छादितमतिमालोक्य वाक्यं वक्ष्यमाणं उक्त. वन्ताविति शेषः ॥ ११ ॥ किं तदित्याह--
मूलम्-वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निति तमंतमेणं ।
___ जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एअं ॥ १२ ॥ व्याख्या-वेदा अधीता न भवन्ति त्राणं शरणं, तत्पठनमात्राहुर्गतिपातरक्षणासिद्धेः । उक्तं हि-“अकारणमधीयानो, ब्रामणस्तु युधिष्ठिर ! ॥ दुष्कुलेनाप्यधीयन्ते, शीलं तु मम रोचते ॥ १॥ शिल्पमध्ययनं नाम, वृत्तं प्रामणलक्षणम् ॥ वृत्तस्थं ब्राह्मणं प्राहु-र्नेतरान् वेदजीवकान् ॥ २॥" तथा 'भुत्तति' अन्तर्भूतणिगर्थत्वाद्भोजिता द्विजा नयन्ति तमसोपि यत्तमस्तमस्तमम्तस्मिन् अतिरौद्रे रौरवादिके नरके इत्यर्थः, णमिति वाक्यालकारे, ते हि मोजिता कुमार्गप्ररूपणपशुवधादावेव प्रवर्त्तन्ते, ततः पात्रबुद्ध्या तेषां भोजनं नरकहेतुरेवेति कुतस्तेषां निस्तारकत्वं ? तथा जाताश्च पुत्रा न भवन्ति त्राणं नरकादौ पततामिति शेषः । उक्तञ्च वेदानुगैरपि-“यदि पुत्राद्भवेत्स्वर्गो, दानधर्मो न विद्यते ॥ मुषितस्तत्र लोकोयं, दानधर्मो निरर्थकः ॥ १॥ बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च ॥ तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति ॥ २॥" यतश्चैवं ततः को नाम ? न कोपीत्यर्थः, ते तव अनुमन्येत अनुजानीयात्सविवेक इति गम्यते एतत्पूर्वोक्तं वेदाध्ययनादीति ॥ १२॥ तथा--
मूलम्-खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा ।
... संसारमोक्खस्स विपक्खभूआ, खाणी अणत्याण उ कामभोगा ॥ १३ ॥ व्याख्या-क्षणमात्रसौख्या बहुकालं दुःखं नरकादिविपयं येभ्यस्ते बहुकालदुःखाः, प्रकामदुःखा अतिशयितदुःखा अनिकाममौख्या अप्रकृष्टसुखाः, संसारमोक्षस्य विपक्षभूताः, खानिराकरोऽनर्थानां, तुरेवकारार्थो भिन्नक्रमच, ततः खानिरेव कामभोगाः ॥ १३ ॥ अनर्थखनित्वमेव स्पष्टयितुमाह
मूलम्-परिवयंते अनिअत्तकामे, अहो अराओ परितप्पमाणे ।
अन्नप्पमत्ते धणमेसमाणे, पप्पोति मधु पुरिसे जरं ज ॥ १४ ॥ व्याख्या-परिव्रजन् विषयसुखलाभार्थमितस्ततो भ्राम्यन् अनिवृत्तकामोऽनुपरताभिलाषः सन् 'अहो अ राओचि' आर्षत्वाचस्य च भिन्नक्रमत्वादह्नि रात्रौ च परितप्यमानस्तत्प्राप्त्यै समन्ताचिन्तामिना दह्यमानः, अन्ये खजनास्तदर्थे प्रमत्तस्तत्कृत्यासक्तचेता अन्यप्रमत्तो धनं एषयन् विविधोपायैर्गवेषयमाणः, 'पप्पोतित्ति' प्राप्नोति मृत्यु पुरुषो जरांच॥ १४॥ तथा--
मूलम्-इमं च मे अस्थि इमं च नत्थि, इमं च मे किच्चमिमं अकिञ्चं ।
तं एवमेवं लालप्पमाणं, हरा हरंतित्ति कहं पमाओ? ॥१५॥ म्याख्या-इमं च मे अस्ति धान्यादि, इदं च नास्ति रूप्यादि, इदं च मे कृत्यं गृहवरण्डिकादि, इदमकृतं प्रारग्यमपि वाणिज्यादि न कर्तुमुचितं, तं पुरुषं एवमेव पृथैव लालप्यमानं अत्यर्थं वदन्तं हरन्यायुरिति हराः, दिन