________________
॥१९६॥
उत्तराप्ययनसूत्रम् व्याख्या-नागो हम्ती यथेत्यौपम्ये, पङ्कप्रधानं जलं पङ्कजलं तत्रावसन्नो निमग्नः सन दृष्ट्वा स्थलं न नैवामिसमेति प्राप्नोति तीरं पारं, अपर्गम्यत्वात्तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धा न भिक्षोः साधोर्मार्ग सदाचाररूपं अनुव्रजामोऽनुसराम इति सूत्रार्थः ॥ ३० ॥ पुनरनित्यतां दर्शयितुं मुनिराह
मूलम्-अच्चेइ कालो तरंति राईओ, नयावि भोगा पुरिसाण निच्चा ।
__उविच्च भोगा पुरिसं चयंति, दुर्म जहा खीणफलं व पक्खी ॥ ३१ ॥ व्याख्या-अत्येति अतिकामति कालो यथायुष्ककालः, किमिति ? यतस्त्वरन्ते शीघ्रं गच्छन्ति रात्रयो रजन्यो दिनोपलक्षणश्चैतत्ततोऽनेनायुपोऽस्थिरत्वमुक्तं, उक्तञ्च-"क्षणयामदिवसमास-च्छलेन गच्छन्ति जीवितदलानि ॥ इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्री ॥ १॥" न च भोगा अपि अपेरत्र सम्बन्धात् पुरुषाणां नित्याः शा. श्वताः, यत उपेत्य स्वप्रवृत्त्या न तु पुरुपाभिप्रायेण भोगाः पुरुपं त्यजन्ति, कमिव क इवेत्साह- द्रुमं यथा क्षीणफलं, वेत्यौपम्ये भिन्नक्रमच, ततः पक्षिण इव विहगा इव फलोपमानि हि पुण्यानि ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिण इव भोगा मुञ्चन्तीति सूत्रार्थः ॥ ३१॥ यत एवमतः
मूलम्-जइ तंसि भोगे चइउं असत्तो, अज्जाइं कम्माइं करेहि रायं ।
धम्मठिओ सवपयाणुकंपी, तो होहिसि देवो इओ विउव्वी ॥ ३२ ॥ व्याख्या-यदि त्वमसि भोगांस्त्यक्तुमशक्तः ततः किमित्याह-आर्याणि शिष्टजनोचितानि कर्माणि कार्याणि कुरु हे राजन् ! धर्मे प्रक्रमाद्हस्थधर्मे सम्यग्दृष्टयाद्याचारलक्षणे स्थितः सन् सर्वप्रजानुकम्पी समस्तप्राणीदयापरः, ततः किं फलमित्याह-तत आर्यकर्मकरणाद्भविष्यसि देवो वैमानिक इतोऽस्मान्मनुष्यभवादनन्तरं 'विउवित्ति' वैक्रियशरीरवानिति सूत्रार्थः ॥ ३२ ॥ एवमुक्तोपि यदासौ न किञ्चित्प्रत्यपद्यत तदा मुनिः स्माह
मूलम्-न तुज्झ भोगे चइऊण बुद्धी, गिद्धोसि आरंभपरिग्गहेसु।
मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं आमंतिओसि ॥ ३३ ॥ व्याख्या-न नैव तव भोगानुपलक्षणत्वादनार्यकर्माणि च त्यक्तुं बुद्धिः, गृद्धः प्रसक्तोसि वर्त्तसे आरम्भपरिग्रहेषु सावद्य व्यापारेषु सचित्ताचित्तादिवस्तुखीकारेषु च, मोघं निष्फलं यथा भवति तथा कृत एतावान् विप्रलापो विविधन्यर्थवचनविन्यासलक्षणः, सम्प्रति तु गच्छामि राजन् ! आमंत्रितोसि धातूनामनेकार्थत्वात् पृष्टोसि गन्तुमिति शेषः । तव हि जीवितानित्यतादर्शनादिभिर्बहुभिः प्रकारैरनुशिष्यमाणस्यापि न मनागपि वैराग्यमभूदित्यविनेयत्वादुपेक्षैव वरीयसीति भाव इति सूत्रार्थः ॥ ३३॥ इत्थमुक्त्वा गते मुनी ब्रह्मदत्तस्य यदभूतदाह
मूलम्-पंचालरायावि अ बंभदत्तो, साहुस्स तस्सा वयणं अकाउं ।
अणुत्तरे भुंजिअ कामभोगे, अणुत्तरे सो नरए पविहो ॥ ३४ ॥ ‘पंचालरायाविअत्ति' अपिः पुनरर्थे, चः पूरणे, ततः पाञ्चालराजः पुनर्बह्मदत्तः साधोस्तस्य वचनमकृत्वा गुरुकर्मतया वतन्दुलवदत्यन्तदुर्भदत्वात् , अनुत्तरान् सर्वोत्तमान् भुक्त्वा कामभोगान् , अनुत्तरे सकलनरकज्येष्ठे अप्रतिछाने इत्यर्थः, स ब्रह्मदत्तो नरके प्रविष्टः । तदनेन निदानस्स नरकान्तं फलमुपदर्शितं भवतीति सूत्रार्थः ॥ ३४ ॥ यथा चायं नरके प्रविष्टस्तथा तत्कथावशिष्टा इहोच्यते । तथाहि___ तमबोध्यतमं हित्वा, सद्वैद्य इवापटुं निकटमरणम् ॥ विजहार यतिर्भूमी-पतिरपि राज्यं चिरं बुभुजे ॥३९२॥ तं चान्यदा द्विजः पूर्व-संस्तुतोऽभ्येत्य कोप्यदोवादीत् ॥ भुंक्षे यदात्मना त-प्रदेहि में भोजनं चक्रिन् ! ॥३९३॥ ऊचे नृपो मदन्नं, दुर्जरमन्यस्य सृजति चोन्मादम् ॥ विप्रो जगाद धिक् त्वां, कदर्यमन्नप्रदानेपि ॥ ३९४ ॥ सकुटुम्बमथ नरेन्द्र-स्तं निजमोजनमभोजयत्कोपात् ॥ अथ तस्याविरभूनिशि, मदनोन्मादो भृशं तस्मात् ॥ ३९५ ॥ अनपेक्षितनिजजननी-जामिजनीव्यतिकरस्ततो विप्रः । ससुतोपि प्रावर्त्तत, रते सुरामत्त इव विकलः ! ॥ ३९६ ॥ प्रातस्तु लजया स, द्विजो गृहजनश्च तस्य नान्योन्यम्॥ दर्शयितमास्यमशकन , मशकपटलमलिनमवसादात ॥३९७॥ अनिमित्तारातिर्मा, सकुटुम्नमहीलयन्महीशोऽसौ ॥ इति चिन्तयन्नमर्या-नगरान्निरगात्ततो विप्रः ॥ ३९८ ॥ तेन भ्रमताथ बहिः, पशुपालोऽदर्शि दर्शिताश्चर्यः ॥ कर्करिकाभिः पिप्पल-दलपटलं छिद्रयन् दूरात् ॥ ३९९ ॥ मत्कार्य कर्तुमसौ, क्षम इति निमित्य वाडवः स ततः ॥ इत्यूचे तं सन्मान-दानवचनैर्वशीकृत्य ॥ ४०० ॥ राजपथे यो