________________
उतराध्ययनसूत्रम्
॥ १९७॥
"
द्विरदे, स्थितः सितछत्रचामरो ब्रजति । प्रक्षिप्य गोलिके त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ॥ ४०१ ॥ तत्प्रतिपद्य जडत्वात् स्थित्वा कुब्यान्तरे दृशौ नृपतेः । सह मुक्तगोलिकाभ्यां, सोपि समं स्फोटयामास ॥ ४०२ ॥ पशुवत्पशुपालः सोथ, हन्यमानोङ्गरक्षकैर्दृत्वा ॥ राज्ञेऽपकारिणं तं द्विजमाख्यत्कुमतिदानरिपुम् ॥ ४०३ ॥ तदवेत्य नृपः कुपित-स्तं विप्रं पुत्रमित्रबन्धुयुतम् ॥ व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः ॥ ४०४ ॥ अपरान् पुरोहितादी - नपि निखिलान्नगरवासिनो विप्रान् ॥ सोऽघातयद्रुषा क नु रोषान्धानां विवेकमतिः १ ॥ ४०५ ॥ सचिवं चैवमोचत, भृत्वा स्थालं द्विजन्मनां नयनैः ॥ स्थापय मम पुरतोन्वह-महं यथा तानि मृद्नामि ! ॥ ४०६ ॥ राज्ञस्तस्य तमाशय-मवेत्य सचिवोपि शुभमतिः क्रूरम् ॥ आपूर्य श्लेष्मातक- फलैः पुरोऽस्थापयत्स्थालम् ॥ ४०७ ॥ तदथ स्थालं नृपतिः, पस्पर्श मुहुर्मुहुः खपाणिभ्याम् ॥ रमणीरत्नस्पर्शा - दपि तत्स्पर्शेऽधिकं मुमुदे ॥ ४०८ ॥ द्विजनेत्रघिया तानि च फलानि निर्दयममर्दयन्मुदितः ॥ न च तत्स्थालं पुरतो ऽपासारयदनिशमपलज्जः ॥ ४०९ ॥ इत्थं प्रवर्द्धमाना - ऽशुभपरिणामो दिनं दिनं प्रति सः ॥ अतिगमयति स्म षोडश, वर्षाण्यविरतविषयतर्षः ॥ ४१० ॥ सर्वा - युषाथ नृपतिः शरदां शतानि, सप्तातिवाय विषयामिषलोलुपात्मा ॥ उत्कृष्टजीवितमुपार्ज्य तमस्तमायां, रौद्राशयादजनि नैरयिकः क्षमायाम् ॥ ४११ ॥ इत्युक्तो ब्रह्मदत्तकथावशिष्टांशः, सम्प्रति प्रसङ्गतचित्रवक्तव्यतामाह
मूलम् - चित्तोवि कामेहिं विरत्तकामो, उदतचारित्ततवो महेसी ।
अणुत्तरं संजमपालइत्ता, अणुत्तरं सिद्धिगइं गयत्ति बेमि ॥ ३५ ॥
व्याख्या - चित्रोपि चित्रः पुनः कामेभ्यो विरक्तकामो निवृत्ताभिलाषः उदात्तं प्रधानं चारित्रं सर्वविरतिरूपं तपश्च द्वादशविधं यस्य स तथा, महर्षिः अनुत्तरं संयमं सप्तदशभेदं पालयित्वा अनुत्तरां सर्वलोकाकाशोपरिवर्त्तिनीं सिद्धिं गतिं गतः प्राप्त इति सूत्रार्थः ॥ ३५ ॥ इति ब्रवीमीति प्राग्वत् ॥ १३ ॥
gggg
P
इति श्रीतपागच्छीय महोपाध्याय श्रीविम लहर्षगणिमहोपाध्याय श्री मुनिविमलगणिशिष्य भुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्तौ त्रयोदशमध्ययनं सम्पूर्णम् ॥ १३ ॥ meninininininenem
॥ अथ चतुर्दशमध्ययनम् ॥
॥ रेँ नमः ॥ व्याख्यातं त्रयोदशमध्ययनं, अधुनेषुकारीयाख्यं चतुर्दशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने मुख्यतया निदानदोष उक्तः, प्रसङ्गान्निर्निदानतागुणश्च, अत्र पुनर्मुख्यतया स एवोच्यते, इत्यनेन सम्बम्भेनायातस्यास्येदमादौ सूत्रत्रयम् -
मूलम् — देवा भवित्ताण पुरे भवंमि, केई चुआ एगविमाणवासी । पुरे पुराणे उसुआरनामे, खाए समिद्धे सुरलोअरम्मे ॥ १ ॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु अ ते पसूआ । निविण्णसंसारभया जहाय, जिनिंदमग्गं सरणं पवण्णा ॥ २ ॥ पुमत्तमागम्म कुमार दोवि, पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती अ तहेसुआरो, राईत्थ देवी कमलावई अ ॥ ३ ॥
ब्वाख्या - देवा भूत्वा पूर्वभवे केचिदनिर्दिष्टनामानश्चयुताः खर्गादिति शेषः, एकस्मिन् पद्मगुल्मनानि विमाने