________________
उत्तराध्ययनसूत्रम् .
॥ १९५ ॥
या पिता वा भ्राता वा काले तस्मिन् जीवितान्तरूपे, अंशं प्रक्रमाज्जीवितस्य भागं धारयन्ति, मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि नृपादौ खजनसर्वस्वं हरति स्वधनदानात्स्वजनैस्तद्रक्ष्यते नैवं खजीवितांशदानेन तज्जीवितं धार्यते इति भावः ॥ २२ ॥ न च जीवितारक्षणेपि दुःखांशहारिणो भाविन इत्यपि ध्येयमित्याह
मूलम् — न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा । इको सयं पञ्चणु होइ दुक्खं, कत्तारमेवं अणुजाई कम्मं ॥ २३ ॥
व्याख्या- न तस्य मृत्युना नीयमानस्य दुःखं शारीरं मानसं वा विभजन्ते विभागीकुर्वन्ति जातयो दूरवर्तिनः वजनाः, न मित्रवर्गाः सुहत्समूहाः, न सुताः पुत्राः, न बान्धवा निकटवर्त्तिनः खजनाः, किन्तु एकः स्वयं प्रत्यनुभवति वेदयते दुःखं, किमिति ? यतः कर्तारमेव अनुयाति कर्म ॥ २३ ॥ इत्थमशरणभावनामुक्त्वा एकत्व भावनामाहमूलम् - चिच्चा दुपयं च चउप्पयं च खितं गिहं धण्ण धन्नं च सवं । सकम्मप्पबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ २४ ॥
व्याख्या - त्यक्त्वा द्विपदं च भार्यादि, चतुष्पदं च हस्त्यादि, क्षेत्रमिक्षुक्षेत्रादि, गृहं धवलगृहादि, धनं कनकादि, धान्यं च शाल्यादि सर्व, स्वकर्मैवात्मनो द्वितीयं यस्य स खकर्मात्मद्वितीयः, अवशोऽखतंत्रः, प्रयाति परमन्यं भवं जन्म सुन्दरं स्वर्गादिकं, पापकं वा नरकादिकं स्वकृतकर्मानुरूपमिति भावः ॥ २४ ॥ अथ जीवत्यक्तशरीरस्य का वार्त्तेत्याह
मूलम् - तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं ।
भजा य पुत्तोवि अ नायओ वा, दायारमन्नं अणुसंकसंति ॥ २५ ॥
व्याख्या - तदिति यत्तेन त्यक्तं एककं अद्वितीयं तुच्छमसारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि चितिगतं चिताप्रासं दग्ध्वा तुः पूरणे पावकेनाग्निना भार्या च पुत्रोपि च ज्ञातयश्च दातारमन्यं अनुसंक्रामन्ति उपसर्पन्ति, ते हि गृहमनेनापावनमिति तद्वहिर्निष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा, कृत्वा च लौकिककृत्यानि, आक्रंद्य च कतिचिद्दिनानि पुनः खार्थसिद्ध्यै अन्यमनुवर्त्तन्ते, न तु तद्वार्त्तामपि पृच्छतीत्याशय इति सूत्रचतुष्कार्थः ॥ २५ ॥ किञ्च -
मूलम् — उवनिज्जइ जीविअमप्पमायं, वण्णं जरा हरइ नरस्स रायं । पंचाल या वयणं सुणाहि मा कासि कम्माई महालयाई ॥ २६ ॥
व्याख्या - उपनीयते ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिर्जीवितं अप्रमादं प्रमादं विनैव अवीचिमरणेनेति वर्ण सुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् ! यतश्चैवमतः पाञ्चालराज ! वचनं शृणु, किन्तदित्याहमा कार्षीः कर्माणि महालयानि अतिशयमहान्ति पञ्चेन्द्रियवधादीनीति सूत्रार्थः ॥ २६ ॥ एवं मुनिनोक्ते चक्री स्लाह
भावः,
मूलम् - अहंपि जाणामि जहेह साहू, जं मे तुमं साहसि वक्कमेअं ।
भोगा इमे संगकरा हवंति, जे दुच्चया अज्जो ! अम्हारिसेहिं ॥ २७ ॥
व्याख्या -- अहमपि जानामि तथेति शेषः, यथा येन प्रकारेण इह जगति साधो ! यन्मे मम त्वं साधयसि कथयसि वाक्यमुपदेशरूपं वचः एतदनन्तरोक्तं, तत्किं भोगान्न जहासीत्याह - भोगा इमे प्रत्यक्षाः सङ्गकराः प्रतिबन्धोत्पादका भवन्ति, ये दुस्त्यजा आर्य ! अस्मासैर्गुरुकर्मभिरिति सूत्रार्थः ॥ २७ ॥ किञ्च -
मूलम् — हत्थिणपुरंमि चित्ता, दहूणं नरवई महिडिअं । कामभोगेसु गिद्धेणं, निआणमसुहं कडं ॥ २८ ॥ तस्स मे अप्पडिकंतस्स, इमं एआरिसं फलं । जाणमाणेवि जं धम्मं, कामभोगेसु मुच्छिओ ॥ २९ ॥ [जुयलं]
व्याख्या - हस्तिनापुरे हे चित्र ! प्राग्भवे चित्राहृमुने ! दृष्ट्वा नरपतिं सनत्कुमारसंज्ञं तुर्यचक्रिणं महर्द्धिकं कामभोगेषु एद्धेन मयेति शेषः, निदानमशुभमशुभानुबन्धि कृतम् ॥ २८ ॥ 'तस्सत्ति' सुबूव्यत्ययात्तस्मान्निदानान्मे ममाप्रतिक्रान्तस्याऽप्रतिनिवृत्तस्य तदा हि त्वया बहुतेपि न मन्मनसो निवृत्तिरभूदितीदं एतादृशं अनन्तरवक्ष्यमाणरूपं फलं कार्य जातमिति शेषः, यत्कीदृशमित्याह-जानन्नपि यदहं धर्मं श्रुतधर्मादिकं कामभोगेषु मूच्छितो गृद्धः तदेतत्कामभोगेषु मूर्च्छनं मम निदानस्य फलमिति सूत्रद्वयार्थः ॥ २९ ॥ पुनर्निदानफलमेवोदाहरणेन दर्शयितुमाह
मूलम् - नागो जहा पंकजलावसण्णो, दहुं थलं नाभिसमेइ तीरं ।
एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुवयामो ॥ ३० ॥