________________
॥ १९२ ॥
उतराष्ययनसूत्रम्
मूलम् - देवाय देवलोगम्मि, आसि अम्हे महिड्डिया । इमा णो छट्टिआ जाई, अन्नमन्त्रेण जा विणा ॥७॥
व्यख्या - देवौ च देवलोके सौधर्माहे 'आसित्ति' अभूव 'अम्हेत्ति' आवां महर्द्धिकौ, न तु किल्विषकत्वादिना निन्द्यौ, 'इमा णोति' इयं आवयोः षष्टिका जातिः कीदृशी येत्याह- 'अन्नमन्नेणनि' अन्योन्येन परस्परेण या बिना, वा परस्परसाहित्यरहितेति भाव इति सूत्रचतुष्कार्थः ॥ ७ ॥ इत्थं चक्रिणोके मुनिराह
मूलम् - कम्मा निआणप्पगडा, तुमे राय ! विचिंतिआ । तेसिं फलवित्रागेणं, विप्पओगमुवागया ॥८॥
व्याख्या – कर्माणि ज्ञानावरणादीनि निदानं साभिष्वङ्गप्रार्थनारूपं तेन प्रकृतानि प्रकर्षेण रचितानि निदानप्रक तानि निदानवशनिबद्धानीत्यर्थः, त्वया राजन् ! विचिन्तितानि, तद्धेतुभूतार्त्तध्यानाभिध्यानेन कर्माण्यपि तथोच्यन्ते । तेषां कर्मणां फलं चासौ विपाकश्च शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन विप्रयोगं विरहमुपागतौ प्राप्तौ । जयं भावः - यत्तदा त्वया मन्निषिद्धेनापि निदानं कृतं, तस्य फलमेतद्यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ॥८॥ एवं वियोगहेतुं ज्ञात्वा चक्री पुनः प्रश्नयितुमाह
मूलम् - सच्च सोअप्पगडा, कम्मा मए पुरा कडा । ते अज परिभुंजामो, किं नु चित्तोवि से तहा ॥९॥ व्याख्या—सत्यं मृषाभाषात्यागरूपं, शौचं च निर्मायमनुष्ठानं, ताभ्यां प्रकटानि ख्यातानि सत्यशौचप्रकटानि क र्माणि प्रक्रमाच्छुभानुष्ठानानि मया पुराकृतानि यानीति शेषः, तान्यद्य अस्मिन्दिने शेषतद्भवकालोपलक्षण चैतत् 'परि-, आमोत्ति' परिभुंजे तद्विपाकोपनतस्त्रीरत्नादिभोगद्वारेण वेदये यथाहमिति गम्यते, किमिति प्रश्ने, नु इति वितर्के, चित्रोपि चित्रनामापि ? कोर्थो ? भवानपि 'से' इति तानि तथा परिभुंक्ते ? अपि तु न परिभुंक्ते, भिक्षुकत्वाद्भवतः । तथा च किं तव तानि मया सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः ॥ ९ ॥ इत्थं चत्रिणोक्ते खखरूपं मुनिराह -
मूलम् -- सवं सुचिणं सफलं नराणं, कडाणकम्माण न मुक्खु अत्थि । अहिं कामेहि अ उत्तमेहिं आया ममं पुण्ण फलोववेए ॥ १० ॥
व्याख्या - सर्व सुचीर्ण शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, किमिति यतः कृतेभ्योऽर्थादवश्यवेद्यतया रचितेभ्यः कर्मभ्यो न मोक्षो मुक्तिरस्ति, ददति हि तानि निजं फलमवश्यमिति भावः । प्राकृतत्वाच्चेह विभक्तिव्यत्ययः, न च वाच्यं त्वयैवात्र व्यभिचार इत्याह- अर्थेद्रव्यैः कामैश्च शब्दादिभिः, उत्तमैः प्रधानैरुपलक्षितः सन्नात्मा “ममंति” ममापि "पुण्णफलोववेएत्ति” अत्र 'उप' 'अप' 'इत' इति - शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे 'उपपेत' इति द्रष्टव्यं ततश्च पुण्यस्य शुभकर्मणः फलं पुण्यफलं तेनोपतो युक्तः, पुण्यफलोपपेतोऽभूदिति शेषः ॥ १० ॥ ततश्च
मूलम् - जाणासि संभूअ महाणुभागं, महिड्डिअं पुण्णफलोववेअं ।
चित्तंपि जाणाहि तहेव रायं, इड्डी जुई तस्सवि अप्पभूआ ॥ ११ ॥
व्याख्या—जानासि अवबुध्यसे यथा त्वमात्मानमिति शेषः, हे सम्भूत ! पूर्वभवे सम्भूताभिधानमहानुभागं बृहन्माहात्म्यं महर्धिकं चक्रवर्त्तिपदानात्या सातिशयसम्पद्युक्तं, अत एव पुण्यफलोपपेतं चित्रमपि जानीहि तथैव तादृशमेव हे राजन् ! किमित्येवमत आह-ऋद्धिः सम्पत्, द्युतिर्दीप्तिस्तस्यापि जन्मान्तरनाम्ना चित्राभिधानस्य ममापीति भावः, शब्दो यस्मादर्थे, ततो यस्मात्प्रभूता बही बभूवेति शेषः, गृहस्थभावे ममाप्येवंविधत्वादेवेति भावः ॥ ११ ॥ यदि तवाप्येवंविधा सम्पदभूत्तदा कथं प्रव्रजितः १ इत्याह
मूलम् — महत्थरूवा वयणप्पभूआ, गाहाणुगीआ नरसंगमज्झे ।
जं भिक्खुणो सीलगुणोववेआ, इहज्जयंते समणोम्हि जाओ ॥ १२ ॥ व्याख्या— महार्थरूपा अनन्तद्रव्यपर्यायात्मकतया बह्नर्थखरूपा, वचनेनाप्रभूता वचनाप्रभूता, स्वल्पाक्षरेत्यर्थः । कासौ ? गीयते इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अनुलोमं श्रोतुरनुकूलं गीता कथिता अनुगीता । अनेन श्रोत्रनुकूलैव देशना कार्येति ख्यापितं भवति । केत्याह- नरसङ्घमध्ये, न तु कोणके प्रविश्येति भावः,