________________
उचराप्ययनरम्
॥१९॥ वां गाथां श्रुत्वेति शेषः, भिक्षयो मुनयः शीलं चारित्रं, गुणो ज्ञानं, ताभ्यामुपपेताः शीलगुणोपपेता इस जिनप्रवचने यतन्ते यत्नवन्तो भवन्ति, सोपस्कारत्वात्सूत्रस्य, सा मयापि श्रुता, ततः श्रमणोऽस्मि अहं जातो न त दुःखदग्धत्वादिति भाव इति सूत्रत्रयार्थः ॥ १२ ॥ एवं मुनिनोक्ते चक्री खसम्पदा निमंत्रयितुमाह
मूलम्-उच्चोदए महु कक्के अ बंभे, पवेइआ आवसहा य रम्मा।
इमं गिहं चित्तधणप्पभूअं, पसाहि पंचालगुणोववेअं॥ १३ ॥ व्याख्या-उच्चोदयो मधुः कैः चशब्दान्मध्यो प्रेमा चेति पञ्च प्रधानाः प्रासादाः प्रवेदिता मम वकिपुरःसरेरुपनीता इत्यर्थः, आवसथाश्च शेषा भवनप्रकारा रम्या रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्र भवन्तीति वृद्धाः। किञ्च इदं प्रत्यक्षं गृहमवस्थितिप्रासादरूपं प्रभूतं बहु, चित्रं विविधमाश्चर्यकारिवा, धनमस्मिन्निति प्रभूतचित्रधनं, प्राकृतत्वात्पूर्वापरनिपातः, प्रशाधि पालय उपभुक्ष्वेति भावः । पाञ्चाला नाम देशस्तस्मिन् गुणा इन्द्रियोपकारिणो रूपादयस्तैरुपपेतमन्वितं पाञ्चालगुणोपपेतं, अयं भावः-पाञ्चालेषु यानि श्रेष्ठवस्तूनि तानि ग्र्याण्यस्मिन् गृहे सन्ति, पाञ्चालानां तदातिसमृद्धत्वात्पाञ्चालग्रहणं, अन्यथा हि भरतेपि यद्विशिष्टं वस्तु तत्तदा तद्गृह एव आसीत् ॥ १३ ॥ किञ्च
मूलम्- नट्टेहिं गीएहि अ वाइएहि, नारीजणाई परिवारयंतो।
___भुंजाहि भोगाई इमाई भिक्खू , मम रोअइ पवज्जा हु दुक्खं ॥ १४ ॥ व्याख्या-"नदेहिति" नृत्यैर्गीतैश्चस्य भिन्नक्रमत्वाद्वादित्रैश्च नारीजनान् परिवारयन् परिवारिकुर्वन् भुंव भोगानिमान् प्रत्यक्षान् सूत्रत्वात्सर्वत्र लिङ्गव्यत्ययः, हे भिक्षो ! । इह च यद्गजतुरङ्गादीन् विहाय स्त्रीणामेवाभिधानं तत् बीलोलुपत्वात्तस्य, तासामेव चात्यन्ताक्षेपकत्वज्ञापनार्थ, किमित्येवमत आह-मह्यं रोचते प्रतिभाति प्रव्रज्या हुरवधारणे भिन्नक्रमश्च ततो दुःखमेव, न मनागपि सुखमिति भाव इति सूत्रद्वयार्थः ॥ १४ ॥ एवं चक्रिणोक्ते मुनिः किं व्यधादित्याह__ मूलम्- तं पुवनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं ।
___ धम्मस्सिओ तस्स हि आणुपेहि, चित्तो इमं वयणमुदाहरित्था ॥ १५ ॥ व्याख्या-तं ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु विषयेषु गृद्धं, धर्माश्रितो धर्मस्थितस्तस्येति चक्रिणो हितानुप्रेक्षी हिताकांक्षी चित्रश्चित्रजीवमुनिरिदं वचनं वाक्यमुदाहृतवानिति सूत्रार्थः ॥ १५ ॥ तदेव दर्शयतिमूलम्-सवं विलवि गीअं, सवं नर्से विडंबिअं । सवे आहारणा भारा, सवे कामा दुहावहा ॥१६॥
व्याख्या सर्व विलपितं विलपितकल्पं निरर्थकतया रुदितयोनितया च गीतं ! मत्तबालादिगीतदत् , सर्व नृत्यं विडम्बितं विडम्बनाप्रायं ! यक्षाविष्टपीतोन्मत्ताद्यङ्गविक्षेपवत् , सर्वाण्याभरणानि भारास्तत्त्वतो भाररूपत्वात्तेषाम् ।
तथा हि कस्यचित् श्रेष्ठि-सुतस्य श्रेष्ठिसम्पदः ॥ वर्यसौन्दर्यचातुर्या, प्रिया प्राणप्रियाभवत् ॥१॥ हे सुषे । सौधमध्यात्त्वं, शिलापुत्रकमानय ॥ तामित्यूचेऽन्यदा श्वश्रूः, खयं कृत्यपरायणा ॥२॥ महाभारमहं मात-स्तमुछोढुं न हीश्वरी ॥ इति सा माह तच्छुत्वा, विममर्शेति तत्पतिः ॥३॥ देहरक्षापराऽलीको-त्तरमेषा ददौ शठा ॥ तत्तथा शिक्षयाम्येना, नैवं कुर्याद्यथा पुनः ॥ ४ ॥ ध्यात्वेति तं दृषद्गोलं, वर्णनावेष्ट्य सर्वतः ॥ तत्खरूपमजानत्यास्तस्याः सोऽन्येधुरार्पयत् ॥५॥ सापि तुष्टा तमादाय, विदधे कण्ठभूषणम् ॥ विमुखन्ति खरूपेण, बाखेनैवाल्पमेधसः ॥ ६ ॥ ततोऽन्यदा तत्पतिस्ता-मित्यप्राक्षीदयि प्रिये ! ॥ इदं भूषणमुद्वोढुं, भवत्या शक्यते न वा ? ॥७॥ साऽवादीत्किमियन्मात्र-मियतोपि चतुर्गुणान् ॥ सुखं सुवर्णालङ्कारा-नुद्वहेहं प्रदत्त चेत् !॥ ८॥ स्मित्वा माह ततः कान्तो, यं शिलापुत्रकं तदा ॥ न त्वमुद्वोढुमीशाभूः, करेण क्षणमप्यरे ! ॥९॥ वर्णावृतः स एवासौ, कण्ठेन प्रियते सुखम् ॥ खपुत्र इव वात्सल्या-जातु नोत्तार्यते हृदः ॥१०॥ खल्पस्यापि सुवर्णस्य, तदहो महिमा महान् ॥ गिरिषद्गुरुरप्येष, येनासीत्तूलवल्लघुः ॥ ११॥ तेनेत्युक्ता शठत्वं मे, भर्ना ज्ञातमिति हिया ॥ वीक्षामास विलक्षा सा, क्षमा प्रत्युत्तराक्षमा ॥ १२॥ स भाररूपोपि चिरं यथाऽश्मा, मोहात्तयालोठ्यत कण्ठपीठे ॥ भूषास्तथान्या