________________
उचराणवनस्वम् व नमसः ॥ स तु तेन दुमफलमिष, दीशिरोऽपातयत् पृथिव्याम् ॥ ३७० ॥ जयतादयमुदयदयो, द्वादशचक्रीति पादिनो देवाः ॥ तच्छिरसि कुसुमवृष्टिं, तदा व्यधुः समवसरण इव ॥ ३७१ ॥ पौरैः पितेव दृष्टो, बन्दिभिरिव जयजयेति वचनपरैः ॥ सोत्सवमविशचक्री, काम्पील्यं त्रिदिवमिव मघवा ॥ ३७२ ॥ नृपतिः प्राक् परिणीताः, पनीरानाययत्ततः सकलाः ॥ भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलकलितः ॥ ३७३ ॥ तस्याथ नृपैर्निखिलै-रभिषेको द्वादशाब्दिको विदधे ॥ सोथागमयत्समयं, समयमिव समं सुखं विलसन् ॥ ३७४ ॥ अन्येधुर्षरगीतं, सङ्गीतं तख पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं, ददौ कुसुमकन्दुकं दासी ॥ ३७५ ॥ तं प्रेक्ष्य चक्रवर्ती, दृष्टः कापीशो मयेत्यन्तः ॥ कुर्वन्नुहं स्मृत्वा, पञ्चभवान्मूछितो न्यपतत् ॥ ३७६ ॥ सम्भ्रान्तैः सामन्तैः, सिक्तश्चन्दनरसैर्गतः खा. स्थ्यम् ॥ सौधर्मेऽद्राक्षमहं, कन्दुकमीशमिति स बुबुधे ॥ ३७७ ॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंचक्री ॥ तं ज्ञातुममुं चक्रे, सार्धश्लोकं शुचिश्लोकः ॥ ३७८ ॥ “तथाहि-["दासा दसण्णे आसी, मिआ कालिंजरे नगे। हंसा मयंगतीराए, सोवागा कासिभूमीए ॥१॥ देवा य देवलोगंमि, आसि अम्हे महिड्डिआ"] पूर. यति यो द्वितीयं, श्लोकं तस्मै ददामि राज्यार्धम्॥ इति चाघोषयदुः, पुरेऽखिले प्रतिदिनं चक्री ॥३७९॥ राज्यार्थी चक्रे तं, श्लोकं साधं जनोऽखिलः कण्ठे ॥ पूरितवान्न तु कश्चि-द्विपश्चिदपि पश्चिमश्लोकम् ॥ ३८० ॥ इतश्च
१ पूरितवान्न तु कश्चि-पश्चिममर्द्ध द्वितीयस्य ॥ इति “घ” संज्ञकपुस्तके ॥ जीवश्चित्रस्य महेभ्य-नन्दनः पुरिमतालसंज्ञपुरे ॥जातिस्मरणाद् ज्ञात्वा, पूर्वभवानाददे दीक्षाम् ॥ ३८१ ॥ प्रामादिषु विहरंस्तं, सदलं श्लोकं निशम्य लोकेभ्यः ॥ प्राग्भवबान्धवबोधन-कृते स काम्पील्यनगरमगात् ॥ ३८२ ॥ तत्रारामे नाना, मनोरमे संस्थितः स साधुस्तम् ॥ सार्धे श्लोकं श्रुत्वा-रघट्टिकमुखाददोऽवादीत् ॥ ३८३॥ [“इमा जो छडिआ जाई, अन्नमन्नण जा विणा" ] इति तेनोक्तमधीत्या-रघट्टिकः श्लोकपश्चिमदलं तत् ॥ गत्वा सपदि नृपाने, श्लोकयुगलमब्रवीत् सकलम् ॥ ३८४ ॥ स्नेहावेशान्मूछों, गतस्ततोऽपतदिलापतिरिलायाम् ॥ तच प्रेक्ष्यानमा-ऽशनिपातमिवाक्षुभत् परिषत् ॥ ३८५ ॥ जातेशी दशा दः, प्रभोगिरास्येति परिजनः कोपात् ॥ तमथारपट्टिकं मुहु-रताडयत् पार्णिघातायैः ॥ ३८६ ॥न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् ॥ मुक्तः स कोस्य पूरक, इति पृष्टश्चाब्रवीदेवम् ॥ ३८७ ॥ श्लोकमपूरयदपरं, मुनिर्मदरघट्टनिकटभूमिष्ठः ॥ प्रापमहं तु व्यसनं, मुधैव राज्यस्पृहामहिलः ॥ ३८८ ॥ अथ चन्दनरसपूरैः, संसिक्तो व्यक्तचेतनश्चक्री ॥ विज्ञातमुनिवरागम-वृत्तः सेहोलसञ्चित्तः ॥ ३८९ ॥ दत्वारपट्टिकाय, घुम्नं बहु पारितोषिकं सद्यः ॥ सान्तःपुरपरिवारः, सोत्कण्ठोऽगात्तदुधानम् ॥ ३९ ॥ युग्मम् ] नत्वा च तं मुनिवरं, बाष्पजलाप्लुतविलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यनेहाधिकस्नेहः ॥ ३९१॥ [ इह ब्रह्मदत्तहिण्डिमाश्रित्य श्रीउत्तराध्ययनसूत्रनिर्युक्तौ कश्चिद्विशेषो दृश्यते, स तु तत एवावधार्यः ] इत्युक्तश्चित्रसम्भूतयोः पूर्ववृत्तान्ताख्यानेन सूत्रत्रयभावार्थः ॥३॥ तयोर्मियः सम्भाषणं तु सूत्रसिद्धमिस्पधुनाऽवशिष्यमाणं तदेव व्याख्यायते । तत्र चक्री यदूचे सत्सबन्धपुरस्सरं सूत्रचतुष्केनाहमूलम्-चकवट्टी महिड्डीओ, बंभदत्तो महायसो। भायरं बहुमाणेणं, इमं वयणमब्बवी ॥४॥
व्याख्या-चक्रवर्ती महर्द्धिको ब्रह्मदत्तो महायशाः प्रातरं पूर्वभवसोदरं बहुमानेन मानसप्रतिबन्धेन इदं वक्ष्यमाणवचनमब्रवीत् ॥४॥ तद्यथामूलम्-आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमन्त्रमणुरता, अन्नमन्नहिएसिणो ॥५॥
न्याख्या-आसिमोत्ति' अभूवाऽऽवां प्रातरौ छावपि अन्योन्यपरस्परं 'वसाणुगत्ति' वशं आयत्ततां अनुगच्छनो गौ तावन्योन्यवशानुगौ, अन्योन्यवशवर्तिनावित्यर्थः । तथा अन्योन्यमनुरक्तौ अतीव नेहवन्ती, अन्योन्यं हितेषिणी मिथः शुभाभिलाषिणी, पुनःपुनरन्योन्यग्रहणं तु तुल्यचिचतातिशयख्यापनार्थ, मकारश्च सर्वत्रालाक्षणिकः ॥५॥ के पुनर्मवेषित्थमावामभूवेत्साह-. मूलम् दासा दसण्णे आसि, मिआ कालिंजरे नगे।हंसा मयंगतीराए, सोवागा कासिभूमिए ॥६॥
न्याख्या-दासौ दशाणे दशार्णदेशे 'आसित्ति' अमूव, मृगौ कालिंजरे कालिंजरनानि नगे, हंसौ मृतगङ्गातीरे, बपाको चाण्डालौ काशीभूमी काश्यभिधाने जनपदे ॥६॥