________________
उतराध्ययनसूत्रम्
शुभमभूद्य-न्मिलितस्त्वमिति ब्रुवन्नृपसुतं सः ॥ निन्ये धनावहगृहे, तं दृष्ट्वा सोपि बहु मुमुदे ॥ ३३० ॥ सोत्सवमय रत्नवतीं, व्यवाहयन्नृपभुवा सह श्रेष्ठी ॥ मृतकार्यमन्यदा वर - धनोरुपाक्रंस्त नृपतिसुतः ॥ ३३१ ॥ लुब्धत्वावेशवशा- द्विजेषु कुर्वत्सु भोजनमतृप्त्या ॥ तत्रागत्यावादी - द्वरधनुरिति विप्रवेषधरः ॥ ३३२ ॥ यदि मे दत्तादनमिह, साक्षाद्वरघनोर्भवति नूनम् ॥ तच्चाकर्ण्य कुमार-स्ससम्भ्रममगाद्वहिर्गेहात् ॥ ३३३ ॥ तं च प्रविलोक्य दृढं परिरम्यानन्दबाष्पजलपूरैः ॥ त्रपयन्निव गेहान्त - नीत्वा पप्रच्छ तद्वार्त्ताम् ॥ ३३४ ॥ सोवादीत्त्वयि सुप्ते, द्रुमान्तरस्थेन तस्करेण तदा । इपुणा हतोहमपतं, मुव्यन्तरधां च गहनान्तः ॥ ३३५ ॥ तेषु च गतेषु दस्युषु, मीन इवान्तर्जलं तरुगणान्तः ॥ अन्तर्हितश्चरन्नह - मापं ग्रामं तमतिकृच्छ्रात् ॥ ३३६ ॥ ग्रामपतेस्त्वद्वार्त्ता, ज्ञात्वा चागममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्ट्या, सुखप्तमिवेहितार्थकरम् ॥ ३३७ ॥ अथ भूपसुतोऽवादी - द्विना पुरुषकारमेवमावाभ्याम् ॥ स्थातव्यं नश्यद्भयां, दस्युभ्यामिव कियत्कालम् ! ॥ ३३८ ॥ प्रादुर्भवनोपायं चिन्तयतोरिति तयोरथान्येद्युः ॥ रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ॥ ३३९ ॥ द्विरदस्तदा च मत्तः, स्तम्भं भक्त्वापशृंखलो नृपतेः ॥ निरगात्रासितलोक - स्ततश्च भूयानभूत्तुमलः ॥ ३४० ॥ व्यालस्तु कनीं कांचि - न्नितम्बवक्षोजभारमन्दगतिम् ॥ भयवेपमानवपुषं वीक्ष्याधावद्रहीतुं द्राक् ॥ ३४१ ॥ धीरः कोपि धरायां, यद्यस्ति तदा स पातु मां सद्यः ॥ मृत्योरिव मत्तेभादस्मादिति सा तदाक्रन्दत् ॥ ३४२ ॥ तस्यां शरणार्थिन्यां विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति, जने च तत्परिजने च भृशम् ॥ ३४३ ॥ तत्क्षणमेत्य ब्रह्मा- जो गजं हक्कयाम्बभूवोच्चैः ॥ सोपि ततस्तां त्यक्त्वा, दधाव तं प्रति रुपा परुषः ॥ ३४४ ॥ [ युग्मम् ] प्राक्षिपदथोत्तरीयं तस्य पुरो ब्रह्मनन्दनस्तं च ॥ तत्र प्रहर्तुमवनत-मारोहद्दन्तदत्तांघ्रिः ॥ ३४५ ॥ वचनक्रमाङ्कुश करै-स्तं च वशीकृत्य हस्तिनं सद्यः ॥ स्तम्भे वबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥ ३४६ ॥ तत्रागतोथ भूप-स्तं तत्तेजश्च वीक्ष्य विस्मितवान् ॥ कोयं छन्नो रविरुत, हरिः शशी वेति चापृच्छत् १ ॥ ३४७ ॥ तद्वृत्तेथ पितृव्येन, रलवत्या निवेदिते नृपतिः ॥ सोत्सवमष्टौ खसुता, दिश्रिय इव दत्तवांस्तस्मै ॥ ३४८ ॥ ताः परिणीय मुहूर्त्ते, शुभेऽवसत्तत्र भूपभूः ससुखम् ॥ तं चान्येद्युर्जरती, समेत्य काचिज्जगादैवम् ॥ ३४९ ॥ वैश्रवणाख्यो वैश्रवण-देश्यसंपत्पुरेत्र वसतीभ्यः ॥ वार्द्धे श्रीरिव तस्य, श्रीमत्याह्वास्ति वरतनया ॥ ३५० ॥ सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् ॥ चित्रलिखितेव दृष- दुल्लिखितेवाभूत्त्वदेकमनाः || ३५१ || कथमपि च परिजनेना- नीता सद्मनि न भोजनं कुरुते ॥ न खपिति न च क्रीडति, पश्यति च त्वन्मयं विश्वम् ॥ ३५२ ॥ पृष्टाथ मया धात्र्या, सा प्रोचे येन रक्षितास्मि गजात् ॥ स हि नरमणिर्न रमणो, यदि मे स्यात्स्थातदा मरणम् ॥ ३५३ ॥ तद् ज्ञापितोथ तस्या - स्तातो मां प्राहिणोत्तव समीपे ॥ तदरक्षि यथा व्याला- द्रक्ष तथा मन्मथादपि ताम् ॥ ३५४ ॥ तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे ॥ वरधनुरपि नन्दाहा - मुदुवाह सुबुद्धिसचिवसुताम् ॥ ३५५ ॥ अथ तौ तत्र वसन्तौ प्रथितौ पृथ्यां गुणैरजायेताम् ॥ वाणारसीं प्रति ततः, सोत्साही प्रास्थिपातां च ॥ ३५६ ॥ आयान्तं ब्रह्मसुतं ज्ञात्वा वाणारसीपतिः कटकः ॥ अभ्येत्य सोत्सवं निज-गृहमनयद्रराजमिव ॥ ३५७ ॥ निजतनयां कटकवतीं, चतुरंगं कटकमुत्कटं कटकः ॥ प्रकटं विसङ्कटमदा-द्वनं च तस्मै मुदितचेताः ॥ ३५८ ॥ अथ तद्दुताहूता, धनुसचिवकणेरुदत्तचम्पेशाः ॥ भगदत्तचन्द्रसिंहा-दयः परेप्याययुर्भूपाः ॥ ३५९ ॥ वरधनुमथ सेनान्यं कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने नेतुम् ॥ ३६० ॥ दीर्घप्रहितो दूतोऽथागत्यैवं जगाद कटकादीन् ॥ दीर्घेण समं सख्यं त्यक्तुं युक्तं न वः प्राच्यम् ॥ ३६१ ॥ ते प्रोचुर्ब्रअयुताः, पञ्चवयस्याः पुरा भवाम वयम् । ब्रह्मणि तु गते खर्गे, मैत्रीं प्राग् दीर्घ एव जहाँ ॥ ३६२ ॥ यद्ब्रह्मणोपि पुत्रे, राज्ये च त्रातुमर्पिते दीर्घः ॥ चिरमकृत कर्म वैशस - मनुतिष्ठति नान्त्यजोपि हि तत् ! ॥ ३६३ ॥ तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ॥ ३६४ ॥ काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणैर्द्राग् ॥ सैन्यै रुरोध परितो, नीरैर्नीरधिरिव द्वीपम् ॥ ३६५ ॥ चुलनी तदा विरक्ता, गत्वा पूर्णाप्रवर्तिनीपार्श्वे ॥ प्रत्रज्य तपस्तीत्रं, विधाय निर्वृत्तिमगात्क्रमतः ॥ ३६६ ॥ दीर्घोपि पुरान्निरगा-द्रणार्थमवलमध्य साहसं सबलः । युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ॥ ३६७ ॥ भग्नमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः ॥ योढुमढौकत गर्जन्, घन इव मुञ्चन् शरासारम् ॥ ३६८ ॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्मुसुषितरोषः ॥ प्राज्यवलौ तौ च मिथः, शस्त्रैः शस्त्राणि चिच्छिदतुः ॥ ३६९ ॥ ब्रह्मसुतस्याथ करे, तदाययों चक्रमक
॥ १९० ॥