________________
॥ १८९ ॥
उतराध्ययनसूत्रम् नगादप्रतो व्यनः ॥ २९२ ॥ उल्लंघ्यानुप्या-मपि तामटवीं ययौ स मगधानाम् ॥ सीमग्रामं भवतति-मतील मोक्षं मुमुक्षुरिव ॥ २९३ ॥ तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् ।। पुरुषोत्तमोयमिति हृदि, निरणैषीगृहमनैषीच ॥ २९४ ॥ किं भृशमुद्विग्न इवा-सीत्यथ तेनोदितो वदन्नृपभूः ॥ चौरैः सह कुर्वन् रण - मगाइयस्सो मम कापि ॥ २९५ ॥ तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कृथास्त्वमुद्वेगम् ॥ तत इत्युक्त्वा ग्रामा-धिपोऽटवीं तामबजगाई ॥ २९६ ॥ आगत्य चैवमवद - द्वनेत्र मनुजो न कोप्यदर्शि मया ॥ किन्तु शरोसौ प्राप्तः, प्रहारपतितो रुधिरलिप्तः ॥ २९७ ॥ श्रुत्वेति हतो वरधनु- वश्यमिति सोभवद्धृशं व्यग्रः ॥ रविरप्यस्ताद्रिमगा - तदुःखं द्रष्टुमसह इव ॥ २९८ ॥ यामे तुर्येध निशो, ग्रामे न्यपतन् मलिम्लुचो बहवः ॥ तांस्तु बभअ कुमार - स्ततोsस्तुवंस्तं जनास्तुष्टाः ॥ २९९ ॥ पृष्ट्वाथ ग्रामपर्ति, चलितः सोगात्क्रमेण राजगृहम् ॥ रत्नवर्ती च व्यमुच - तद्वाशे तापसाबसथे ॥ ३०० ॥ प्रविशन् स्वयं च नगरं, सदनगषाक्षस्थिते युवत्यौ द्वे ॥ नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति तम् ॥ ३०१ ॥ सस्नेहमपि जनं य-त्यक्त्वागास्त्वं तदा तदुचितं किम् १ ॥ सोवादीत्कः स्निग्धो, जनः कदा चात्यजमहं तम् १ ॥ ३०२ ॥ एहि प्रसीद विष्टर- माश्रय विश्राम्य विश्रमदृशा नः ॥ ताभ्यामथेति कथिते, विवेश तद्वेश्मनि कुमारः ॥ ३०३ ॥ स्नानाशनादिभक्तिं कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताढ्याहोस्ति रजतगिरिः ॥ ३०४ ॥ शिवमन्दिरमिति नगरं, विराजते तस्य दक्षिणश्रेण्याम् ॥ तत्र नृपो ज्वलनशिखः, प्रिया च विद्युतस्य ॥ ३०५ || नाट्योन्मत्ताख्यसुता - नुजे तयोः प्राणवल्लभे पुत्र्यौ ॥ अभवाव वलेभावां, क्रमेण खंडाविशाखाये ॥ ३०६ ॥ निजसौधकुट्टिमस्थः, सुहृदाभिशिखेन सह सृजन् गोष्ठीम् ॥ व्रजतोऽष्टापदममरान् ददर्श गगनेऽन्यदा तातः ॥ ३०७ ॥ नन्तुं ततो जिनेन्द्रा- नावां सुहृदं च तं सहादाय ॥ अष्टापदमौलिस्थं, चैत्यं सोगाद्विमानस्थः ॥ ३०८ ॥ तत्र च जैनीः प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य || अनमाम मानवर्णान्विता वयं मणिमयाः सर्वाः ॥ ३०९ ॥ चैत्याच निर्गता द्वौ, चारणशमिनावशोकवृक्षाधः ॥ प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथां षयममृतकल्पाम् ॥ ३१० ॥ अथ पप्रच्छाभिशिखः, को अनयोः कन्ययोः प्रियो भावी ? ॥ तौ ज्ञानिनाववदतां सोदर ममुयोर्हनिष्यति यः ॥ ३११ ॥ वचनेन तेन तातो, म्लानिमगाद्दुर्दिनेन दिनकरवत् ॥ आवामपि वैराग्यासदैवमवदाव निजतातम् ॥ ३१२ ॥ अधुनैव देशनायां संसारासारता श्रुताऽस्माभिः ॥ तद्विषयसुखेनैवं विधेन पर्याप्तमस्माकम् ॥ ३१३ || प्रावर्त्तावहि सोदर - रक्षायै तत्प्रभृत्य निशमावाम् ॥ स त्वन्यदैक्षताटन्, पुष्पवतीं पुष्पधूलसुताम् ॥ ३१४ ॥ तद्रूपापहृतमना - स्ततः स द्रुतमपाहरजडधीः ! ॥ तत्तेजोऽसहमानो, विद्यां साधयितुमगमच ॥ ३१५ ॥ यदभूततः परं त-धूयं खयमेव वित्थ सकलमपि ॥ अथ चाख्यत्पुष्पवती, तदावयोः सोदरविनाशम् ॥ ३१६ ॥ शोकं च व्यपनिन्ये ऽस्माकं धर्मानुगैर्मधुरवाक्यैः ॥ शङ्करविद्याशक्त्या, ज्ञात्वास्मद्वृत्तमिति च जगौ ॥३१७॥
१ हे वल्लभ ! आवामिति छेदः ॥
स्मरतं युवां गुरुगिरा-मिहागतं ब्रह्मदत्तमथ वृणुतम् ॥ न हि जातुचिद्विघटते, ज्ञानिवचो ग्रावरखेय ॥३१८॥ तत्खीकृतमावाभ्यां, राभस्यवशेन सा तु सितकेतुम् ॥ प्राचीचलत्ततस्त्वं हित्वा वामन्यतो गतवान् ॥ ३१९ ॥ नागास्त्वं तत्र यदा, त्वामन्वेष्टुं ततो वनानीं ताम् ॥ चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ ३२० ॥ तदनु दनुजमनुजामर-जेता नेता व नौ समेतासौ १ ॥ इति पृष्टाया विद्या - देव्या वचनादिहैवावाम् ॥ ३२१ ॥ अस्मत्पुण्याकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् ॥ पुष्पवतीवत्पाणौ - कृत्य कृतार्थय जनुरिदं नौ ॥ ३२२ ॥ गान्धविवाहेनो- दुवाह ते अपि ततो नरेन्द्रसुतः ॥ रममाणः सह ताभ्यां निमेषमिव तां निशां व्यनयत् ॥ ३२३ ॥ स्थातव्यं पुष्पवती - पार्श्वे तावत्सुखं खलु युवाभ्याम् ॥ यावन्मे राज्याप्तिः, स्यादित्युक्त्वा च ते व्यसृजत् ॥ ३२४ ॥ ओमित्युक्त्वा गतयो -स्तयोस्तिरोभूद्गृहादि तत्सकलम् ॥ रत्नवतीमन्वेष्टुं ततो ययावाश्रमे नृपभूः ॥ ३२५ ॥ तत्र च तां सोऽपश्यन्, नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह वशा, त्वया गतदिनेऽद्य वा प्रवरा ॥ ३२६ ॥ तेन च किं रत्नवती - कान्तस्त्वमसीति सादरं पृष्टः १ ॥ ओमित्यवदन्नृपभू-स्ततः स मुदितः पुनः प्रोचे ॥ ३२७ ॥ सा रुदती सो दृष्टा, का त्वं किं रोदिषीति च मयोक्ता ॥ किंचिदवोचत याव-तावद् ज्ञाता खदौहित्री ॥ ३२ ॥ गत्वा च पितृव्याया - ऽज्ञपयं तस्यास्ततः स मुदितस्ताम् ॥ खगृहेनयद्भवन्तं त्वविन्दतान्वेषयन्नपि नो ॥ ३२९ ॥ अद्यापि
१ वचनात् इह ऐव आवामितिच्छेदः ॥