________________
॥१८८॥
उत्तराप्ययनसूत्रम् नामा-तितो यसौ लेख इति वद त्वं मा॥ को ब्रह्मदत्त इति ? सा, मयानुयुक्तेति पुनरवदत् ॥ २५४ ॥ अत्रास्ति श्रेष्ठिसुता, 'रत्नवती'नाम सुन्दरीरत्नम् ॥ आवाल्यादपि सा म-य्यनुरक्ता प्राप तारुण्यम् ॥२५५॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा तदन्तिकमवोचम् ॥का ते चिन्तेति ? ततो, मामिति तत्परिजनोवादीत् ॥ २५६ ॥ अस्या हि दौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मातः!॥ अथ पृष्टा सा पुनरपि, जगौ न किमपि हिया यावत् ॥ २५७ ॥ अवदत्तावत्तस्याः, प्रियङ्गुलतिकाह्वया प्रियवयस्या ॥ न हि वक्ति लजयासौ, तदहं ते वच्मि मातरिदम् ॥ २५८ ॥ भ्रातुबुद्धिलनाम्नः, सागरनाम्नश्च ताम्रचूडरणे ॥ इयमुपवनं गतेकं, कुमारमुत्तमतममपश्यत् ॥ २५९ ॥ ईदृश्यभूत्ततोसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् ॥ निश्चित्य तामवोचं, सद्भावं ब्रूहि मे वत्से ! ॥२६०॥ अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गलतयोक्तः॥ स ब्रह्मदत्तनामा, पतिने वेन्मे तदा मरणम् ॥२६१॥ घटयिष्ये तव कामितमित्यधृति मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किंचित्स्वस्थेति पुनरूचे ॥२६२॥ भाव्यखिलमीहितं मे. मातव्या इव प्रसादात्ते ॥ तस्मै ज्ञापयितुमद-स्तदपि क्रियतामुपायोयम् ॥ २६३॥ क्षिप्त्वा करण्डमध्ये, हारममुं युतमनेन लेखेन ॥ प्रेषय तस्मै क्षिप्रं, व्यपदेशाद्बुद्धिलभ्रातुः ॥ २६४ ॥ तन्नाम्ना दत्तममुं, लास्यति सद्योन्यथा तु लाति न वा ॥ लक्षार्द्ध युक्तमभू-त्तत्सुहृदो वुद्धिलेन तदा ॥ २६५ ॥ प्रोच्येति तया दत्तौ, हारो लेखश्च दासहस्तेन ॥ प्रहितौ मया गतेहनि, तत्प्रतिलेखोर्प्यतामधुना ॥ २६६ ॥ उक्तवेति तस्थुषी सा, त्वत्प्रतिलेखे मयार्पिते तु ययौ ॥ आर्या तत्र च लेखे, लिखितासौ वर्तते खामिन् । ॥ २६७॥"उचितत्वाद्वरधनुना, सुहृदोक्तो ब्रह्मदत्तनामापि ॥ स्त्रीरत्नं रनवती-मिच्छति गोविन्द इव कमलाम् ॥ २६८॥" श्रुत्वेति मित्रवचनं, तां द्रष्टुं भूपभूरभूदुत्कः ॥ अन्येधुराकुलतया, वरधनुरागत्य तं प्रोचे ॥ २६९ ॥ अत्रावामन्वेष्टुं, प्रहिता दीर्पण सन्ति निजपुरुषाः॥ तद्वचनादत्रत्यो, नृपोपि तदुपक्रमं कुरुते ॥ २७०॥ तत्किं कर्तव्यमिति, ध्यायन्तौ सागरोऽवनिगृहे तौ॥ क्षिप्त्वा जुगोप निधिव-द्रविरप्यपराम्बुधावविशत् ॥ २७१ ॥ निशि निर्गममिच्छन्तौ, तौ रथमारोप्य कमपि पन्थानम् ॥ नीत्वा सागरदत्तो, ववले बाष्पायिताक्षियुगः ॥२७२॥ तावथ पुरः प्रयान्तौ, शस्त्राढ्यरथस्थितां वने वनिताम् ॥ दशतुरियती वेला, किंवा लग्नेति जल्पन्तीम् ॥ २७३॥ कायावां वेत्सि च कथ-मिति पृष्टा नृपभुबाथ सावादीत् ॥ धनसञ्चयाधिनाथः, श्रेष्ठ्यासीदिह धनप्रवरः ॥ २७४ ॥ अष्टानां तनयाना-मुपर्यहं तस्य नन्दनाभूवम् ॥ प्राप्ता च यौवनं ना-पश्यं कंचिद्वरं प्रवरम् ॥ २७५ ॥ स्थितमस्मिन्नद्याने, तदर्थमाराधयं ततो यक्षम् ॥ सोपि हि भक्त्या तुष्टः, प्रत्यक्षीभूय मामवदत् ॥ २७६ ॥श्रीब्रह्मदत्तनामा, चक्री वत्से ! तव प्रियो भावी ॥ स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे ॥२७७ ॥ यः सागरवुद्धिलयो-रायास्यति कुक्कटाहवे स सखा ॥ विश्वमनोहररूपः, श्रीवत्सी स त्वया ज्ञेयः ॥ २७८ ॥ स च मच्चैत्यसमीपे, प्रथमं ते मेलितान्यतो गच्छन् ॥ इति यक्षगिरा
१ भूमिगृहे ॥ खामिन् !, जानामि त्वामहं नियतम् ॥ २७९ ॥ तन्मे मन इव रथममु- मारोह विमो ! द्रुतं तयेत्युदितः ॥ रब. मारुह्य समित्रः, क्क १ गम्यमिति तां जगौ नृपभूः ॥ २८० ॥ साख्यन्मगधपुरे मम, वसति पितृव्यो धनावहःश्रेष्ठी ॥ स हि कर्ता प्रतिपत्तिं, प्रचुरां तत्तत्र गम्यमितः ॥ २८१॥ इति रत्नवतीवचना-त्सुहृदा सूतेन वाहयन् वाहान् ॥ प्रापाटवीं कुमारः, कौशांबीविषयमुलंध्य ॥ २८२ ॥ तत्र सुकण्टककण्टक-संज्ञौ चौराधिपौ प्रबलसैन्यौ ॥ तं रुरुधतुरपहर्तु, रथादि विशिखान् प्रवर्षन्तौ ॥ २८३ ॥ चापमुपादाय ततः, प्रहरन्नृपनन्दनः शरप्रकरैः ॥ तहस्युबलमनाशय-दहर्पतिस्तम इवांशुभरैः ॥ २८४ ॥ तमथोचे सचीवसुतः, श्रान्तोसि रणेन तद्रथेत्रैव ॥ खपिहि क्षणं ततः सो-ऽप्यशेत सह रत्नवत्या द्राग् ॥ २८५ ॥ प्रातश्चैकां तटिनी, प्राप्यातिष्ठन् हयाः खयं श्रान्ताः ॥ तत्र च जागरितो ना-पश्यत्सुहृदं रथे नृपभूः ॥ २८६ ॥ भावी जलाय गत इति, मुहुर्मुहुरशब्दयत्कुमारस्तम् ॥ न त्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ॥ २८७ ॥ न्याकुलचेताः स ततो, बाष्पजलाविलशा दिशः पश्यन् ॥ रक्ताभ्यक्तमपश्यत् , सन्दनवदनं नरेन्द्रसुतः ॥ २८८ ॥ हाऽहं हत इति जल्पं-स्ततोऽपतन्मूछितो रथोत्सङ्गे ॥ अधिगतसंज्ञस्तु भृशं, व्यलपत्कुत्रासि १ मित्रेति ॥ २८९ ॥ तमथाख्यद्रनवती, प्रभो! सखा ज्ञायते न हि मृतस्ते ॥ तत्तस्सेदममङ्गल-मुचितं पाचापि नो कर्तुम् ॥ २९० ॥ नूनमपृष्ट्वापि त्वां, त्वत्कार्यायैव स हि गतो भावी ॥ स्थाने गतास्तु शुद्धिं, तस नरैः कारयिष्यामः ॥ २९१ ॥ परमिह गहने स्थातुं, नो चिरमुचितं यमोपवनकल्पे ॥ इति तद्विरा स तुरगा-बुर