________________
उत्तराध्ययनसूत्रम्
॥ १८५ ॥
सुतां खलु यच्छामि यथातथा न सखे ! ॥ १३८ ॥ तामथ परिणीय कनीं नृपभूः स्थित्वा च तत्र तां रजनीम् ॥ सद्भावं भार्यायै, प्रोग्य समित्रोचलत्प्रातः ॥ १३९ ॥ दूरग्रामं च गतौ, शुश्रुवतुस्ताविदं जनश्रुत्या ॥ सर्वेऽध्वानो रुद्धा, दीर्घेण ब्रह्मदत्तकृते ॥ १४० ॥ प्राणत्राणकृते तौ, गच्छन्तावुत्पथेन तच्छ्रुत्वा ।। प्रापतुरटवीमेका, तत्र च नृपभूरमूत्तृषितः ॥ १४१ ॥ तमथ वटाधो मुक्त्वा, द्रुतं गतो वरधनुः कृते पयसः ॥ उपलक्ष्य दीर्घपुरुषैः सायं रुरुधेच जगृहे च ॥ १४२ ॥ सोथ पलायनसंज्ञां, ब्रह्मभुवो व्यधित हन्यमानस्तैः ॥ तूर्ण ततः कुमारो, ननाश पारद इवाज्ञातः ॥ १४३ ॥ वेगाद्वजंश्च पतितः, कान्तारे धूर्त्तचित्त इव गहने । विरसफलानि स बुभुजे, दुरवस्थायां हि किमभक्ष्यम् ॥ १४४ ॥ भ्राम्यंश्चैकं तापस-महि तृतीये ददर्श नृपतिसुतः ॥ प्रवहणमिवान्धिपतित-स्तं च प्राप्याधिकं मुमुदे ॥ १४५ ॥ कुत्रास्ति भदन्ताना - माश्रम इति तं वदन्तमथ स मुनिः ॥ नीत्वाश्रममुपकुलपति, निन्ये व्रतसुमिव सद्यः ॥ १४६ ॥ तं च प्रणतं प्रणया-दित्यलपत्कुलपतिः कृपाजलधिः ॥ कस्त्वं किमिहायासी - वयोरपि दुर्गमे गहने १ ॥ १४७ ॥ नृपभूस्ततः स्ववृत्तं स्माह यथावृत्तमखिलमपि तस्मै ॥ तच्च श्रुत्वा कुलपति-रित्यवदत्प्रमदगद्गदगीः ॥ १४८ ॥ ब्रह्मनृपस्य भ्राता, लघुरहमस्मि त्वदीयतातस्य ॥ तत्प्राप्तोसि खगृहं तिष्ठ सुखं वत्स ! मा मैषीः ॥ १४९ ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽस्थात् ॥ आगाच्च जलदकालः, काल इव निदाघदाइस्य ॥ १५० ॥ तमथ पितृव्यः प्रेम्णा, सविशेषमपाठयत्कलाः सकलाः ॥ पात्रे दत्ता श्रीवि, विद्या हि स्यादनन्तफला ॥ १५१ ॥ जातेथ शरत्काले, कन्दादिकृते वनं ययुर्मुनयः ॥ ब्रह्मसुतोपि समं तैर्ययौ निषिद्धोपि कुलपतिना ॥ १५२ ॥ तत्र च फलकुसुमभरै - र्नमितानमितान् स भूरुहः पश्यन् ॥ वनगजमेकमपश्य-धुवराजमिवाद्रिराजस्य ॥ १५३ ॥ तस्यानुपदमयासी - न्निवार्यमाणोपि तापसैर्नृपभूः ॥ तेनाहूतः सद्यो, ववले व्यालोपि रोषान्धः ॥ १५४ ॥ तटिनीपूरमिव द्रुतमायान्तं तं च वञ्चयितुं मनसा || प्रक्षिप्तमुत्तरीयं, क्रीडारसिकेन भूपभुवा ॥ १५५ ॥ तत्तु करेण गृहीत्वा प्राक्षिपदन्तर्नभः कुधा कुम्भी ॥ निपतच्च ततो नृपभू-- स्तदाददे वञ्चितद्विरदः ॥ १५६ ॥ क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः ॥ जलधाराभिर्जलदः, शरैरिवोपाद्रवत्तमिभम् ॥ १५७ ॥ तस्मिंस्ततः प्रणष्टे, द्विपे कुमारोपि जातदिग्मोहः ॥ भ्राम्यन्नितस्ततः शैल - निम्नगामुत्ततारैकाम् ॥ १५८ ॥ तस्याश्च तटे नगरं पुराणमुद्वसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशन्नकं, वंशकुडंगं ददर्श घनम् ॥ १५९ ॥ तत्पार्श्वे फलकासी, दृष्ट्वा शस्त्रप्रियोऽगृहीनृपभूः ॥ तं वंशकुडंगं चा- सिनाच्छिनत्तत्परीक्षायै ॥ १६० ॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुटं समीक्ष्य शिरः ॥ सम्भ्रान्तो ब्रह्मसुतः, सम्यगवालोकयद्यावत् ॥ १६९ ॥ उद्धद्धांत्रेर्धूमं पित्रतः कस्यापि तावदतिपीनम् ॥ दृष्ट्वा कबन्धमुचै - खापदनुतापसन्तापम् ॥ १६२ ॥ निर्मन्तुरपि हतोयं, हा ! विद्यासाधको मया कश्चित् ॥ तन्मां क्रीडारसिकं, धिगिति निनिन्दायमात्मानम् ॥ १६३ ॥ पुरतो गच्छंश्चैकं प्रासादं सप्तभूमिकमपश्यत् ॥ अतिनन्दनेन परितः, परीतमुद्यानवलयेन ॥ १६४ ॥ साक्षाद्दिवीव तस्मिन्नारूढो निर्जरीमिव सुरूपाम् ॥ कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ॥ १६५ ॥ सोथ शुभे । कासि त्वं तिष्ठसि वा कथमिहेत्यपृच्छत्ताम् १ ॥ घृतसाध्वसा ततः सा-ऽप्यदोऽवदद्गद्गदैर्वचनैः ॥ १६६ ॥ वृत्तान्तोस्ति महान्मे, तद्वद कोसि त्वमिह किमायासीः १ ॥ इति तद्विरास मुदितो, वचनेनायोजयद्वदनम् ॥ १६७ ॥ पाञ्चालपतेर्ब्रस - प्रभोः सुतो ब्रह्मदत्तनामाहम् ॥ इति सोवादीद्यावन्मुदिता सा तावदुत्तस्थौ ॥ १६८ ॥ नयनाअलितो गलितैः, सा प्रमदा प्रमदबाष्पसलिलभरैः ॥ रचयन्ती पाद्यमिव, न्यपतच्च तदङ्घ्रिनलिनयुगे ॥ १६९ ॥ अत्राणयात्र मयका, दिष्टया शरणं शरण्य ! लब्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, सुदती साश्वासी भूपभुवा ॥ १७० ॥ पृष्टा च का ? त्वमिति सा, प्रोचेऽहं पुष्पचूलभूजानेः ॥ त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ॥ १७१ ॥ परिणयदिनोत्सुकां रम-माणामारामदीर्घिकापुलिने ॥ हृत्वाऽन्येद्युर्विद्या-धराधमो मामिहानषीत् ! ॥ १७२ ॥ कालमियन्तं बन्धुजन - विरहदावाग्भितप्तगात्राहम् ॥ त्वदृष्ट्याऽमृतवृष्ट्या, क्लिन्ना निर्वापिताद्य विभो ! ॥ १७३ ॥ क गतोस्ति १ स मे रिपुरिति, पृष्टा सा नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा - ऽर्पितास्ति मे शाङ्करी विद्या ॥ १७४ ॥ सा हि स्मृता विधत्ते, परिच्छदीभूय कृत्यमखिलमपि ॥ विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्त्ताम् ॥ १७५ ॥ तां पृष्ट्वेदं वच्मीत्युक्त्वा स्मृत्वा च
तां 'पुनः साख्यत् ॥ येनाहृतास्मि नाट्यो-न्मत्तः स हि खेचरो नाम्ना ॥ १७६ ॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकृते धामनि माम् ॥ विद्यां साधयितुमगा- द्वंशकुडने स्वयं गहने ॥ १७७ ॥ तस्योपदो धूमं पिबतो