________________
॥१८६॥
उचराष्पयनसूत्रम् विधाय सेत्स्यति खामिन् ! ॥ विद्याबलोर्जितबलः, परिगेष्यति मा ततः स कुधीः ॥ १७८ ॥ अब तधन्यतिकरे, तेनोक्ते साधु कृतमिति ब्रुवती ॥ मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् ॥ १७९ ॥ अथ तामुदुम कन्या, गान्धर्वविवाहरचनया नृपभूः ॥ रमयन् विविधैः सुरत-स्तां क्षणदां क्षणमियाक्षपयत् ॥ १८० ॥ प्रातच खेचरी, ध्वनिमवनिधवाङ्गजोऽम्बरे श्रुत्वा ॥ वियति भवति कस्सायं, ध्वनिरिति पप्रच्छ पुष्पवतीम् १ ॥ १८ ॥ सा प्रोचे प्रिय ! नाट्यो-न्मत्तास्त्वद्रिपोरिमे जामी ॥ भ्रातुः कृते विवाहो-पस्करमादाय सकलमपि ॥ १८२ ॥ 'खा' 'विशाखिका' ऽऽख्ये, खेचरकन्ये मुधा समायातः॥ कार्य ध्यातमितरथा, दैवेन सन्यथा घटितम् ।। १८३ ॥[युग्मम्] तत्तावदपसर त्वं, यावत्सङ्कीर्ण तव गुणान् प्रगुणान् ॥ जानाम्यनयोर्भावं, त्वयि रागविरागयोः खामिन् । ॥१४॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः ॥ रागामावे तु सितं, त ञ्च प्रेक्ष्यान्यतो गच्छेः ॥ १८५॥ अमयोपि ततो नृपभू-स्तस्थौ गत्वान्यतस्तदनुवृत्त्या ॥ अथ पुष्पवती श्रेतं, चलयामास क्षणात् केतुम् ॥ १८६ ॥ च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽन्यतो गन्तुम् ॥ उलंध्य वनं दुर्गम-मेकमविन्दत सरः सायम् ॥ १८७ ॥ तत्र मात्वा सलिलं, निपीय पीयूषसरसमथसरसः ॥ निर्गत्य ब्रमसुत-स्तटमुत्तरपश्चिमं भेजे ॥ १८८ ॥ तत्र च कन्या काश्चि-त्समीक्ष्य जलदेवतामिवाभ्यक्षाम् ॥ सफलं जन्म ममाभू-दद्येति नृपाङ्गजो दध्यौ ॥ १८९ ॥ तदर्शनामृतरसं, पायं पायं व्यपायविकलं सः॥प्रीष्मे पयः पिबन्मरु-पान्थ इव प्राप नो तृप्तिम् ॥ १९० ॥ सापि च तं पश्यन्ती, कटाक्षविक्षेपदक्षचक्षुाम् ॥ दास्या समं च किञ्चि-दूदन्त्यगादन्यतः कन्या ॥ १९१ ॥ तन्मार्गदत्तदृष्टिः, प्रास्थित यावत्ततोन्यतो नृपभूः ॥ सा दास्याऽऽगात्तावत्, पटयुगताम्बूलकुसुमधरा ॥ १९२ ॥ तच प्रदाय तस्मै, जगौ त्वया या सरस्तटे दृष्टा ॥ निजचित्तमिव तयेदं, प्रेषितमस्ति प्रभो! तुभ्यम् ॥ १९३॥ प्रोक्तं च तया यदसी, सुभयः पितृमंत्रिमन्दिरे नेयः ॥ स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तत्त्वम् ॥ १९४ ॥ सोथागमत्सह तया, सदनं सचिवस्य नागदत्तस्य ॥ अभ्युत्तस्थौ सोपि, तमतिथिं चिरमिलितमिष्टमिव ॥ १९५ ॥ प्रहितोस्ति वो गृहसौ, सुभगः श्रीकान्तया नृपतिपुत्र्या ॥प्रोच्येति ययौ दासी, भेजे सचिवोपि तं प्रमुवत् ॥ १९६ ॥ दोषात्यये च निन्ये, राजकुले धीसखः कुमारं तम् ॥ भूपोपि तमर्यादिभि-रुपतस्थे तरणिमिव बालम् ॥ १९७ ॥ आतिथ्यमिदं क्रियते, तवातिथेरिति वदन्नथ मापः ॥ तस्मै ददौ सुतां ता-मुदुवाह मुदा कुमारोपि ॥ १९८ ॥ अज्ञातकुलस्सैकाकिनोपि दत्तासि मे कथं पित्रा? ॥ इत्यन्यदा रहसि तां, रमयन् पप्रच्छ नृपतिसुतः ॥ १९९ ॥ सावादीजनको मे, वसन्तपुरराजशबरसेनसुतः ॥ उन्मीलितः खराज्या-द्रोत्रिभिरागादिमा पल्लीम् ॥ २०॥ मिल्लान् विधाय वशगानत्रलान् सबलवाहनस्तिष्ठन् ॥ प्रामादिलुण्टनैः खं, पुष्णाति परिच्छदं तातः ॥ २०१॥ तनयचतुष्कस्योपरि, पितु
१ विघ्नरहितम् ॥ रिह वसतः सुतास्म्यहं जाता ॥ देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ॥ २०२॥ मां प्रासयौवनां चावदत् पिता मम नृपा द्विषो निखिलाः ॥ तदिहस्था वीक्ष्य परं, निवेदयेर्मे मनोभीष्टम् ॥ २०३ ॥ पश्याम्यखिलान् पान्थां-स्ततोन्वहमिह स्थिता सरस्तीरे ॥ त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः ॥ २०४ ॥ इति किंचिदनापृच्छया-ऽर्पितास्म्यहं तुभ्यमीश ! तातेन ॥ उदितस्तयेति मुदित-श्चिक्रीड तया समं नृपभूः ॥२०५॥ पल्लीशः सोन्येधु-मिं हन्तुं जगाम सैन्ययुतः ॥ तेन सह भूपभूरपि, गत्वाब्जसरस्तटे तस्थौ ॥ २०६ ॥ ग्रामेथ लुण्ट्यमाने, पपात वरधनुरुपेत्य तत्क्रमयोः ॥ आलम्ब्य च तत्कण्ठं, विमुक्तकण्ठं रुरोदोच्चैः ॥ २०७ ॥ ब्रह्मात्मजेन वचनैरमृतद्रवसोदरैरथाश्चास्य ॥ पृष्टो वरधनुरूचे, खवृत्तमिति गद्गदैर्वचनैः ॥ २०८ ॥ मुक्त्वा तदा वटाध-स्त्वामम्भोर्थ गतोहमजसरः ॥ किञ्चिदपश्यं तजल-मब्जदलपुटेन जगृहे च ॥ २०९ ॥ वलितश्च दीर्घपुरुषै-रुदायुधैर्हतहतेति जल्पद्भिः ॥ सन्नद्धै रुद्घोहं, हंसः काकैरिव कठोरैः ॥ २१० ॥क १ ब्रह्मदत्त इति तैः, पृष्टश्चाब्रवमहं न वेनीति ॥ गाढमथ ताडितस्तै-रवदं व्याघ्रण जग्ध इति ॥ २११ ॥ दर्शय तं देशमथे-त्युक्तो भ्राम्यन्नितस्ततो दम्भात् ॥ त्वदर्शनपथमेत्य, व्यधां पलायनकृते संज्ञाम् ॥ २१२ ॥ खमुखे तु परिव्राजक-दत्तां गुटिकां ततोऽक्षिपं क्षिप्रम् ॥ तस्याः प्रभावतो गत-चेष्टस्त्यक्तोस्मि मृत इति तैः ॥ २१३ ॥ तेषु च गतेषु दूरं, कृष्ट्वा गुटिका मुखात्त्वदर्थमटन् ॥ प्रामं कमपि गतोहं, कश्चिदपश्यं परिवाजम् ॥ २१४ ॥ सोप्यवददवनतं मां, वसुभागाहोस्मि तव पितुर्मित्रम् ॥