________________
॥ १८४ ॥
उतराध्ययनसूत्रम्
सुतस्ते ॥ तत इति दीर्घेणक्ति, देव्यूचे शिशुगिरा का भीः १ ॥ ९९ ॥ भद्रकरेणुमृगेभौ, नीत्वा तत्रान्यदा तथैव पुनः ॥ नृपभूः प्रोचे तच, श्रुत्वा दीर्घावदबुलनीम् ॥१००॥ शृणु सुभगे सुतवाणीं, साभिप्रायां हलाहलप्रायाम् ॥ देव्यवदद्भवतु तथाप्यनेन किं जायते शिशुना १ ॥ १०१ ॥ हंस्या सममन्येद्यु - बेकमादायावरोधमायातः ॥ नृपभूरुबाच नैवं, कस्याप्यनयं सहिष्येऽहम् ॥ १०२ ॥ तत इत्यवदद्दीर्घः, शृणु देवि । शिशोः सुतस्य वचनमिदम् ॥ अनुमापयति मनःस्थं, कोपं यद्धूम इव वहिम् ॥ १०३ ॥ वृद्धिं गतो हि भावी, सुखविघ्नायावयोरसौ नियतम् ॥ तदयमुदयन्निवामय, उच्छेद्यः शिशुरपि दुरात्मा ! ॥ १०४ ॥ देव्यूचे राज्यधरं, हन्मि कथं तनयमौरसं स्वामिन्! ॥ पशवोपि प्राणानिव, निजान्यपत्यानि रक्षन्ति ॥ १०५ ॥ भूयोप्यूचे दीर्घो, रिपुमेवावेहि सुतममुं सुतनो ! ॥ तत्किं मुसि मयि सति, बहवस्तव भाविनस्तनयाः ॥ १०६ ॥ तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा ॥ केनोपायेनास्मि-न्निहते वचनीयता न स्यात् ॥ १०७ ॥ दीर्घोब्रवीत्कुमारो विवाह्यतां तस्य वासगृहदम्भात् ॥ गूढप्रवेशनिर्गम-मेकं लाक्षागृहं कार्यम् ॥ १०८ ॥ तत्र च सवधूकेस्मिन् सुप्ते रात्रौ हुताशनो ज्वाल्यः ॥ इति तौ विमृश्य जतुगृह-मारम्भयतामसारमती ॥ १०९ ॥ वृत्वा ब्रह्मसुतार्थ, पुष्ववतीं पुष्पचूलनृपतिसुताम् ॥ सामग्रीं च समग्र, विवाहसक्तामकारयताम् ॥ ११० ॥ जतुगृहरचनादथ धनु- सचिवो दुष्टं तयोर्विदन् भावम् ॥ ब्रह्मभुवो हितमिच्छुर्गत्वाख्यद्दीर्घनृपमेवम् ॥ १११ ॥ अस्ति सुतो मे वरधनु-नामा युष्मन्निदेशकरणचणः ॥ तदहं जरी चिकीर्षे, परलोकहितं क्वचिद्गत्वा ॥ ११२ ॥ कुर्यात्कमप्यनर्थ, गतः परत्रायमिति घृताशङ्कः ॥ दीर्घः कृतावहित्थ - स्तमित्यवोततो दम्भात् ॥ ११३ ॥ त्वामन्तरा हि राज्यं, न भाति नभ इव विना निशानाथम् ॥ तदलं परत्र गमनैः, कुरुधर्ममिव दानाद्यम् ॥ ११४ ॥ गङ्गातटेथ कृत्वा, सद्बुद्धिः सत्रमण्डपं मंत्री ॥ दीनादीनां दानं ददौ यथाकाममनादेः ॥ ११५ ॥ प्रत्ययित नरैर्दानो - पकारमानैर्वशीकृतैः सचिवः ॥ द्विक्रोशां च सुरङ्गा-मचीखनज्जतुगृहं यावत् ॥ ११६ ॥ वार्त्ता तां च छन्नं न्यवेदयत् पुष्पचूलभूपतये ॥ सोपि ततो दासेरीं, प्रैषीदुहितुः पदे रुचिराम् ॥ ११७ ॥ भूषणभृतेति सुपरिच्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनकमिवाभाति 'रीतिरपि ॥ ११८ ॥ गणिकाप्रेमेव मनो, बाह्यं कृत्वा महोत्सवं चुलनी ॥ तामथ पुरे प्रविष्टां व्यवाहयद्ब्रह्मदत्तेन ॥ ११९ ॥ लोकं विसृज्य तनयं प्रेपीदथ सनुषं जतुगृहे सा ॥ सोपि वधूवरधनुयुग्, विसृष्टतंत्रो ययौ तस्मिन् ॥ १२० ॥ तस्य च गतेर्द्धरात्रे, वार्त्ताभिः सचिवसूनुरचिताभिः ॥ तत्राज्वलयज्ज्वलनं, जतुवेश्मनि निजनरैवलनी ॥ १२१ ॥ दीर्घचुलन्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् ॥ तत्स्पर्द्धयेव परित - स्तत्सदनं व्यापदनलोपि ॥ १२२ ॥ सम्भ्रान्तोथ कुमारः, किमेतदिति मंत्रिनन्दनमपृच्छत् ॥ सोप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ॥ १२३ ॥ सत्रं याबत्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् ॥ तद्वारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ॥ १२४ ॥ छन्नमुदन्तममुं मम,
9
१ पित्तलम् ।
पिता न्यवेदयदतस्तव श्वसुरः ॥ प्रैषीहासीमेनां तत् प्रतिबन्धं विमुंचास्याः ॥ १२५ ॥ तेनेत्युक्तो नृपभू-भूपुटमास्फोटय पाणिघातेन ॥ सुहृदा समं सुरंगां, विवेश योगीव भूविवरम् ॥ १२६ ॥ प्राप्तौ च सुरंगान्ते, तुरगावारुह्य मंत्रिणा दत्तो ॥ तौ जग्मतुः कुमारौ, पंचाशद्योजनानि द्राक् ॥ १२७ ॥ तत्र च विहाय वाहौ, गुरुमार्गातिक्रमश्रमेण मृतौ ॥ क्रोष्टुकसंज्ञमगातां, ग्रामं तौ पादचारेण ॥ १२८ ॥ स्माहाथ भूपभूरिति, मां पीडयतः सखे ! क्षुधोदन्ये ॥ क्षणमिह तिष्ठ खामि-न्नित्यूचे तं च सचिवसुतः ॥ १२९ ॥ किंचिच्च विचार्य दिवा - कीर्ति ग्रामात्ततः समाकार्य ॥ तौ वपनमकारयतां, चूडामात्रं त्वधारयताम् ॥ १३० ॥ सन्ध्याभ्राणीव रवि - श्वेतरुची धातुरक्तवसनानि ॥ - धाय न्यक्षिपता, खकण्ठयोर्ब्रह्मसूत्रं तौ ॥ १३१ ॥ वरधनुरथभूपभुवः, श्रीवत्सालङ्कृतं हृदयपट्टम् ॥ चतुरङ्गुलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् ॥ १३२ ॥ वेषान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते न्यमंत्रय - दभोजयच्चातिगौरवतः ॥ १३३ ॥ अथ मूर्ध्नि ब्रह्मभुवोऽक्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् ॥ सितवसनयुगं कन्यां, चोपानिन्येऽप्सरः कल्पाम् ॥ १३४ ॥ ऊचेऽथ वरधनुः किं ददास्यमूमस्य निष्कलस्य बटोः १ ॥ नश्यति नयतिरुचिरां, हारलतां कोपि करभगले ! ॥ १३५ ॥ तत इत्यवदद्विप्रो, 'बन्धुमती' संज्ञका मम सुतासौ ॥ अस्याश्व वरश्वत्री, भावीत्युक्तं निमित्तज्ञैः ॥ १३६ ॥ पट्टाच्छादितहृदयो, भुंक्ते यस्तव गृहे समित्रस्तम् ॥ जानीया दुहितुर्बर-मिति तैरेव च मम प्रोक्तम् ॥ १३७ ॥ योग्याय सुविद्यामिव, ददे तदेनां कनी महममुष्मै ॥ प्राणप्रियां