________________
उत्तराप्पयनसूत्रम्
॥१८॥ कोपः, क्रियते चेत्कोप एव स क्रियताम् ॥ यो हरति धर्मवित्त, दत्ते चानन्तदुःखमरम् ॥ ५९॥इत्यादिचित्रवाक्यैः, भुतानुगामिमिरशामि तत्कोपः ॥ पाथोघरपायोभि-गिरिदावानल इव प्रबलः ॥ ६ ॥तं चोपशान्तमनसं, प्रणम्य कोका ययुर्निजं स्थानम् ॥ तौ च श्रमणौ जग्मतु-उद्यानं दध्यतुश्चैवम् ॥ ६१ ॥ आहारार्थ प्रतिगृह-मटगिरासापते न्यसनमुथैः ॥ गात्रं चैतद्गत्वर-माहारेणापि कृतपोषम् ॥ ६२ ॥ तत्कृतसंलेखनयो-राहारैरावयोः कृतमिदानीम् ॥ इति तो चतुर्विधाहा-रमनशनं चक्रतुः कृतिनौ ॥ ६३ ॥ कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनान् राज्ञः ॥ केनाप्यूचे नमुचि-स्तमथ नृपोऽनन्धयत्कुपितः ॥ ६४ ॥ पुनरप्येवं माऽन्यो, मान्यानपमानयविति महीमान् ॥ पुरमध्येनानैषी-दुपमुनि त दस्युमिव बद्धम् ॥ ६५ ॥ तो चावन्दत भूपो-जहरयन्निव मेदिनीं मुकुटकिरणः ॥ तं चानन्दयतां चारु-धर्मलाभाशिषा श्रमणौ ॥ ६६ ॥ लभतामपराधी वः,खकर्मफलमयमिति ब्रुवन्नृपतिः॥ शमिनारदर्शयदयो-पस्थितमरणं नमुचिसचिवम् ॥ ६७॥ मोक्तव्य एव राज-नयमित्युदितस्ततो नृपस्ताभ्याम् ॥ निर्वास्य पुरादमुच-गुरुवचनाध्यमपि तं द्राक् ॥ ६८ ॥ तौ नन्तुमथायासी-खीरनं चक्रिणः सुनन्दाख्या ॥ देवीभिरिवेन्द्राणी, वृता सपनीभिरखिलाभिः ॥ ६९ ॥ तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः ॥ सम्भूतोभूद्रक्तो-ऽनङ्गस्यापि प्रबलताहो ! ॥ ७० ॥ दध्यो चैवं यस्या, वेणिस्पर्शोपि सृजति सुखमतुलम् ॥ तस्या नलिनास्थायाः, कायस्पर्शस्य का वातो? ॥ ७१॥ अन्तःपुरमन्तःपुरयुक्त, राजनि गतेथ तो नत्वा ॥ सम्भूतमुनिर्विदधे, निदानमिति कामरागान्धः ॥ ७२ ॥ अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा ॥ स्त्रीरत्नस्य खामी, भूयासं भाविनि भवेऽहम् ॥ ७३ ॥ तच श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जयत्वमहो !॥ विदितागमोपि निपतति, यदयं संसारवारिनिधौ ॥ ७४ ॥ तद्बोधयाम्यमुमिति, प्रोचे चित्रः करोपि किं ? भ्रातः ! ॥ तपसोमुष्माकिमिदं, कामयसे तृणमिव घुमणेः १ ॥ ७५ ॥ क्षणिकाक्षणिकान् कांक्षति, भोगानपहाय निवृतिसुखं यः ॥ स हि काचसकलमुररी-करोति सुररत्नमपहाय ! ॥ ७६ ॥ तहुःखनिदानमिदं, मुंच निदानं विमुह्यसि कृतिन् । किम् ?॥ इत्युक्तोपि स मुमुचे, न निदानं धिग् विषयतृष्णाम् ॥ ७७ ॥ तावथ पूर्णायुष्को, सौधर्मे निर्जरावजायेताम् ॥ चित्रस्ततच्युतोभू-दिभ्यसुतः पुरिमतालपुरे ॥ ७८॥ सम्भूतोपि व्युत्वा, काम्पील्यपुरे महर्द्धिभररुचिरे ॥ चुलनीकुक्षिप्रभवो, अमनृपस्याभवत्तनयः ॥ ७९ ॥ तस्य चतुर्दशसुखम-सूचितागामिसम्पदो मुदितः ॥ विदधे सोत्सवमभिधां, ब्रसनृपो ब्रह्मदत्त इति ॥ ८०॥ ववृधे सोय कुमारः, सितपक्षशशीव शुभकलाशाली ॥ जगदानन्दं जनयन् , वचोमृतेनातिमधुरेण ॥ ८१॥ अभवन् वयस्य भूपा-चत्वारो अक्षणोय तेष्वाधः ॥ कटकः काशीशोऽन्यः, कणेरुदत्तो गजपुरेशः ॥ ८२॥ दीर्घच कोशलेश-चम्पानाथश्च पुष्पचूलनृपः ॥ सामान्यमिव व्यक्तिषु, तेषु नेहोमबधापी ॥ ८३ ॥ पञ्चापि ब्रह्माधा-तेन्योन्यं विरहमक्षमाः सोढुम् ॥ एकैकपुरे न्यवसन् , प्रतिवर्षे संयुतः क्रमशः ॥ ८४ ॥ काम्पील्यपुरेऽन्येषुः, सममायातेषु तेषु परिपाया ॥ असनृपस्य कदाचि-च्छिरोव्यथा दुस्सहा जज्ञे ॥५॥ जातद्वादशवर्षे, न्यसांके ब्रह्मदत्तमय सुहृदाम् ॥ सोचे कारयितव्यं, राज्यमिदमनेन युष्माभिः ॥ ८६ ॥ इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तत्सुहृदः॥ दध्युमित्रस्य सुतः, शैशवमवगाहते यावत् ॥ ८७ ॥ तावद्राज्यमिदं रक्षजीयमारक्षकैरिवास्माभिः ॥ इति दी रक्षार्थ, मुक्त्वाऽन्ये खखनगरमगुः ॥ ८८ ॥ दीर्घोथ राज्यमखिलं, बुभुजेडरक्षकमिवोदनं काकः ॥ मार्जारो दुग्धमिवा-वैषीकोशं च चिरगूढम् ॥ ८९ ॥ मध्ये शुद्धान्तमगा-दनर्गलः पूर्व परिचयादनिशम् ॥ रहसि च चुलनीदेवी-मवायनर्मनिपुणगिरा ॥९० ॥ सोथावमत्स लोकं, ब्रह्मनृपतिसौहदं कुलाचारम् ॥ अरमयदनिशं चुलनी-महो ! अजय्यत्वमक्षाणाम् ॥ ९१ ॥ प्रहिलापटमिव मुमुचे, चुलन्यपि प्रेम रमणविषयं द्राक् ॥ तौ च सुखं भुजानी, नाज्ञासिष्टां दिनान् प्रजतः ॥९२ ॥ तच तयोर्दुश्चरितं, ब्रह्मनृपस्य द्वितीवमिव हदयम् ॥ ज्ञात्वा सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः ॥ ९३ ॥ कुरुतामकार्यमेत-चुलनी जातिख मावचपलमतिः ॥ न्यासेर्पितमपि सकलं, दीर्घो विद्रवति तदयुक्तम् ॥ ९४ ॥ तदसौ किमपि विदध्या-द्भूपभुवोपि व्यलीकमतिदुष्टः ॥ नीचो हि पोषकसा-प्यात्मीयः स्यान्न भुजग इव ॥ ९५ ॥ ध्यात्वेति ज्ञापयितुं, तत्सकलं सेवितुं कुमारं तम् ॥ वरधनुसंज्ञं निजसुत-मादिशदतिनिपुणमतिविभवम् ॥ ९६ ॥ तेनाथ तयोश्चरिते, निवेदिते ब्रससुस्तदसहिष्णुः ॥ अन्तःपुरान्तरगम-बढ़ा द्विककोकिले कुपितः ॥ ९७ ॥ वध्याविमौ यथा वर्ण-सङ्करादीशः परोर्पि तथा ॥ हन्तव्यो मे निश्चित-मित्युच्चैस्तत्र चावादीत् ॥ ९८ ॥ काकोहं त्वं च पिकी-त्यावां खलु हन्तुमिच्छति