________________
॥१८॥
उत्तराप्पयनस्वम् हन्तुमुद्यते नमुचिम् ॥ त्वरितमनाशयतामुप-कारित्वावित्रसम्भूतौ ॥ १९ ॥ निर्गत्य ततो नमुचि-द्रुतं ययौ हस्तिनापुरे नगरे ॥ तत्र च सनस्कुमार-चक्री तं धीसखं चक्रे ॥ २०॥
इतश्च रूपमनिन्द्यं, लावण्यमद्भुतं यौवनं च तौ नव्यम् ॥ प्राप्ती श्वपचसुतौ स्मर-मधुसमयाविव युती बमतुः ॥२१॥ वीणावेणुकलक्कण-सम्बन्धसुबन्धुरं च तो गीतम् ॥ गायन्तौ नृत्यन्तौ, जगतोपि मनो व्यपाहरताम् ॥ २२ ॥ अन्येयुः पुरि सखां, मधूत्सवः प्रववृते महः प्रबरः ॥ तत्राविगीतगीता, विनिर्ययुः पौरचयः ॥२३॥ निरगाव चचरी तत्र, चित्रसम्भूतयोरपि प्रवरा ॥ तत्र च जगतुर्गीतं, किन्नरमदहारि तो स्फीतम् ॥ २४ ॥ आकर्व कर्णमधुरं, तद्गीतं विश्रामणममत्रम् ॥ त्यक्तान्यचञ्चरीकाः, पौराः पौर्यश्च तत्र ययुः ॥ २५ ॥ सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे ॥ गातारोन्ये भूपं, व्यजिज्ञपन्नित्यमर्षवशात् ॥ २६ ॥ मातंगाभ्यां खामिन् !, गीतेनाकृष्य पौरलोकोयम् ॥ सकलोपि कृतो मलिन-स्तत इत्यलपनृपः कोपात् ॥ २७ ॥ पुयों प्रवेष्टुमनयो-नों देयं वेश्मनीष कुर्कुरयोः ॥-तत आरभ्य वृकाविव, तौ दूरमतिष्ठतां पुर्याः ॥ २८ ॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहेऽ. नेयुः ॥ उलंघ्य नृपतिवचनं, प्राविशतामजितकरणी तौ ॥ २९ ॥ विहितावगुण्ठनी तौ, छन्नमटन्तौ महं च पश्यन्तौ ॥ क्रोष्टुरवैः क्रोष्टारा-विव गानोत्को प्रजागीतैः ॥ ३० ॥ अवगणितभूपमीती, अगायतामतिमनोहरं गीतम् ॥ तच निशम्य जनास्ती, परिवब्रुमेक्षिका मधुवत् ॥ ३१॥ [युग्मम् ] कावेताविति लोकेकृष्टावगुण्ठनावथ तौ ॥ उपलक्षितौ नृपाज्ञा-विलोपकत्वादृशं निहती ॥ ३२ ॥ नश्यन्तौ पश्यन्ती, दीनं भयवि.
लौ म्खलत्पादौ ॥ लोकैश्च हन्यमानौ, कथमपि तौ निर्गतौ पुर्याः ॥ ३३ ॥ गम्भीरोधानं च, प्राप्तौ ताविति मिथो व्यचिन्तयताम् ॥ धिग् नौ कुलदोषहतान् , रूपकलाकौशलादिगुणान् ॥ ३४ ॥ धातव इव क्षयरुजा, दोषे. णानेन दूषिता हि गुणाः ॥ जाता विपत्तये नौ, पत्तय इव भेदिता द्विषता ॥ ३५ ॥ व्यसनैरिव नौ व्यसनं, जज्ञे कुलदोषदूषितैर्हि गुणैः । स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥ ३६ ॥ ध्यात्वेति मर्तुकामौ, यान्तौ प्रति दक्षिणामुभायपि तौ ॥ दूरं गतौ महीधर-मपश्यतामेकमतितुङ्गम् ॥ ३७॥ तं चारोहन्ती तौ, भृगुपातचिकीर्षया श्रमणमेकम् ॥ ध्यानस्थममानगुणं, प्रेक्ष्य प्रोचैर्मुदमधत्ताम् ॥ ३८ ॥ छायातरुमिव पथिकौ, तं प्राप्यापगतसकल. सन्तापां ॥ तावनमतां वमन्तौ, प्राग् दुःखमिवाश्रुजलदम्भात् ॥ ३९ ॥ ध्यानं समाप्य मुनिना, कुत आयातो युवामितकि पृष्टौ ॥ प्राकाशयतां खाशय-मुक्त्वा निजवृत्तमखिलं तौ ॥४०॥ तत इत्यूचे श्रमणो, विलीयते देह एव भृगुपातात् ॥ न तु पातकं ततोऽसौ, न युज्यते दक्षयोर्युवयोः ॥४१॥ दुःखानां बीजमघं, तपसैव क्षीयते न मरणेन ॥ तदिदं हेयं देहं, सफलीक्रियतां तपश्चरणैः ॥ ४२ ॥ ग्लानाविव वैद्यवच-स्तत्साधुवचः प्रपद्य तौ सद्यः ॥ प्राबजतां तत्पार्थे, क्रमादभूतां च गीतार्थों ॥ ४३ ॥ षष्ठाष्टमादितपसा, क्रशयन्तौ विग्रहं समं पापैः ॥ मूर्ती तपःशमाविव, सममेव विजहतुर्भुवि तौ ॥४४॥ विहरन्तौ तौ जग्मतु-रन्येधुर्हस्तिनापुरे नगरे ॥ बहिरुद्यानस्थी तत्र, चेरतुर्दश्चरं च तपः ॥ ४५ ॥ सम्भूतमुनिनगरे, मासक्षपणस्य पारणेऽन्येयुः ॥ भिक्षार्थमटन् ददृशे, दुरात्मना नमुचि सचिवेन ॥ ४६॥ मातङ्गसुतः सोयं, मम वृत्तं वक्ष्यतीति साशङ्कः ॥ निष्काश्यतां पुरादय-मित्यूचे निजमटानमुचिः ॥४७॥ यमदूतैरिव चण्डे-तैलेकुटादिप्रहारदानपरैः ॥ विधुरीकृतोष साधु-द्रुतं न्यवर्तत ततः स्थानात् ॥४८॥ निर्गञ्छन्नपि स मुनि-नमुचिमटैन मुमुचे यदाऽपदयैः ॥ शान्तोपि चुकोप तदा, स्यादुष्णं जलमपि खनलात् ॥४९॥ तबदनानिरगादय, धूमस्तोमः समन्ततः प्रसरन् । तदनु च तेजोलेश्या, ज्वालापटलैर्नमास्पृशती ॥ ५० ॥ तद्वीक्ष्य समयकौतुक-मेयुः पौरा मुनि प्रसादयितुम् ॥ आयासीत्पुरनाथः, सनत्कुमारश्च चक्रिवरः ॥५१॥ नत्वा चैवमवोचत, भगवन्नेतन्न युज्यते भवतः ॥ दग्धः कृशानुनापि हि, नागुरुरुद्भिरति दुर्गन्धम् ॥ ५२ ॥ क्रियतामस्मासु कृपा, संहियतामाशु कोपफलमेतत् ॥ व्यभिचरति सतां कोपः, फले खलानामिव लेहः ॥ ५३॥ उक्तं च"न भवति भवति च न चिरं, भवति चिरं चेत् फले विसंवदति॥कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥५४॥" तन्मुंच मुंच कोपं, नीचजनोचितमनंचितं मुनिमिः ॥ इत्युक्तोपि न यावत् , प्रससाद स साधुरतिकुपितः ॥ ५५ ॥ तावत्तत्रायातः, चित्रस्तं न्यतिकरं जनात् श्रुत्वा ॥ इत्यूचे भ्रातस्त्यज, रोषमिमं चरणतनदहनम् ॥ ५६ ॥ देशोनपूर्वकोट्या, यदर्जितं भवति विमलचारित्रम् ॥ तदपि हि कषायकलुषो, हारयति यतिर्मुहूर्तेन ॥ ५७ ॥ सुलमा हि पालसङ्गा-दाक्रोशापातमरणधर्मगमाः ॥ एषु च यथोत्तरस्सा-भावे मनुते मुनिामम् ॥ ५८ ॥ अपकृतिकारिषु