________________
उत्तराप्ययनसूत्रम्
॥ अथ त्रयोदशमध्ययनम् ॥
000000000
॥ अहम् ॥ व्याख्यातं द्वादशमध्ययनं, अथ प्रयोदशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराज्ययने तपसि यनो विधेय इत्युक्तं, तपः कुर्वता च निदानं त्याज्यमिति निदानदोषं चित्रसम्भूतोदाहरणेन दर्शयितुं चित्रसम्भूतीयाख्यमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रत्रयम्
मूलम्-जाई पराजिओ खल, कासि निआणं तु हत्थिणपुरंमि ।
चुलणीइ बंभदत्तो, उववन्नो पउमगुम्माओ ॥१॥ न्याख्या-जात्या प्रक्रमाचाण्डालाख्यजात्या पराजितः पूर्वभवे पराभूतो जातिपराजितः, खलुक्यालद्वारे 'कासित्ति' अकार्षीनिदानं चक्रवर्तिपदप्राप्तिर्मे भूयादित्येवं रूपं, तुः पूत्तौं, हस्तिनापुरे नगरे । तदनु च चुलन्यां प्रसदत्त उपपन्न उत्पन्नः पद्मगुल्मान्नलिनीगुल्मविमानाच्युत्वेति शेषः। चुलन्यां ब्रह्मदत्त उत्पन्न इत्युक्तं, सच केत्साह
मूलम्-कंपिल्ले संभूओ चित्तो, पुण जाओ पुरिमतालंमि ।
सिटिकुलंमि विसाले, धम्मं सोऊण पवईओ ॥२॥ व्याख्या-काम्पील्ये काम्पील्यनाम्नि नगरे सम्भूतः प्राग्भवे सम्भूताभिधः, चित्रस का वार्तेत्याह-चित्रः पुनजर्जातः पुरिमताले पुरिमतालपुरे श्रेष्ठिकुले विशाले पुत्रपौत्रादिभिर्विस्तीर्णे, प्राप्तयौवनश्च तथाविधाचार्यसमीपे धर्म श्रुत्वा प्रबजितः ॥ २ ॥ ततः किमित्याह
मूलम्-कंपिल्लंमि अ णयरे, समागया दोवि चित्तसंभूआ।
सुहदुक्खफलविवागं, कहंति ते इक्कमिकस्स ॥३॥ व्याख्या-काम्पील्ये च नगरे समागतौ मिलितो द्वावपि चित्रसम्भूतो पूर्वभवनामा सुखदुःखफलविपाकं सुखतदुष्कृतकर्मानुभवरूपं कथयतस्तौ 'एकमेकस्सत्ति' एकैकस्य अन्योन्यं, सर्वत्र वर्तमाननिर्देशतत्कालापेक्षयेति सूत्र प्रयाक्षरार्थो भावार्थस्तु कथानकादवसेयस्तत्र चायं सम्प्रदायः। तथाहिअस्ति पुरंसाकेतं, सङ्केतनिकेतनं शुभश्रीणाम् । तत्र मुनिचन्द्रोऽभू-पश्चन्द्रावतंससुतः॥१॥ स च सागरचन्द्रगुरोः, पार्थे प्रव्रज्य भवविरक्तमनाः ॥ देशान्तरे विहर्तु, गुरुणा सममन्यदाचालीत् ॥ २॥ भिक्षार्थमथ कापि, प्रामे गतवति महामुनी तस्मिन् ॥ सार्थेन समं चेलु-गुरवः स तु सार्थवियुतोऽभूत् ॥३॥ तमटन्तमटव्यन्तः, क्षुत्तृष्णाबाधितं तृतीयदिने॥प्रति
रुबन्धव इव, चत्वारो वल्लवाश्चतुराः॥४॥प्रत्युपकर्तुमिवोचे, तेभ्यो वाचंयमोपि जिनधर्मम् ॥ तं श्रुत्वा सम्बुद्धाः, प्रवत्रजुस्तेपि भवभीताः॥५॥ तेषु च धर्मजुगुप्सा-मुभौ व्यधता व्रतप्रभावाच ॥ दिवि देवत्वं प्रासौ. ततश्युती चायुषि क्षीणे ॥ ६ ॥ दशपुरनगरे शाण्डिल्य-विप्रदास्याः सुतौ युगलजातौ ॥ जातौ तौ जयवयाः, प्राकृतनि. न्दाविपाकवशात् ॥ ७ ॥ तौ सम्प्राप्तौ तारुण्य-मन्यदा क्षेत्ररक्षणाय गतौ ॥ सुषुपतुरधो वटतरो-निरगात्तत्कोटराच फणी ॥ ८॥ तेन च दष्टे दुष्टे-नैकस्मिंस्तं गवेषयन् भुजगम् ॥ अपरोप्यदंशि तेनैव, भोगिना पूर्वरिपुणेव ॥९॥ तौ चाप्राप्तचिकित्सौ, विपद्य कालिञराचलोपान्ते ॥ हरिणीकुक्षिप्रभवौ, सजातौ युग्मजौ हरिणौ ॥१०॥ मेहात् सह विहरन्तौ, मुक्तैकशरेण मृगयुणा तौ च ॥ व्यापादितौ वराको, क्षिसाशनिना घनेनेव ॥ ११॥ अथ सृतगङ्गातटिनी-तटस्थहंसीसुतावभूतां तौ ॥ बाल्यादपि भ्रमन्ती, सममेव दृढानुरागेण ॥ १२ ॥ जालेन तौ निवघ्या-न्यदाऽवधीजालिको गलं भक्त्वा ॥ विषवल्लेरिव दारुण-महो ! फलं धर्मनिन्दायाः॥ १३॥ अथ तो वाणारखां, प्रभूतवित्तस्य भूतदत्तस्य ॥ तनयावुभावभूतां, श्वपचपतेश्चित्रसम्भूतौ ॥ १४ ॥ वाणारस्यां च तदा, बभूव शंखाभिधो धराधिपतिः ॥ तस्य च दुर्मतिसचिवः, सचिवोऽभून्नमुचिरिति नाना ॥ १५ ॥ अपराधे सच महति, प्रछन्नवधाय भूतदत्ताय ॥ दत्तोऽन्यदा नृपतिना, तं चेत्यूचे श्वपचनाथः ॥ १६ ॥ त्वां जीवयामि यदि मे, पुत्रौ पाठयसि भूमिगेहस्थः ॥ नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ॥ १७ ॥ अध्यापयच सततं, कला विचित्राः स चित्रसम्भूतौ ॥ मातङ्गपतेः पत्नी-मनुरक्तामरमयञ्च कुधीः ॥ १८ ॥ तचावबुद्ध्य रुष्टे, अपचपतौ