________________
॥१०॥
उत्तरायवनस्त्रम् मूलम्-तवो जोई जीवो जोइठाणं, जोगा सुआ सरीरं कारिसंग ।
कम्मे एहा संजमजोगसंती, होमं हुणामि इसिणं पसत्यं ॥ ४४ ॥ व्याख्या-तपो वासाभ्यन्तरभेदभिन्नं ज्योतिरमिस्तस्यैव कर्मलक्षणभावेन्धनदाहकत्वात् , जीवो ज्योतिःस्थान तपोज्योतिषस्तदाश्रितत्वात् , योगा मनोवाकायाः सुचस्तैर्हि शुभव्यापाराः स्नेहस्थानीयास्तपोज्वलनप्रज्वलनहेतवस्तत्र संस्थाप्यन्त इति, शरीरं करीषांग तेनैव हि तपोज्योतिरुद्दीप्यते तद्भावभावित्वात्तपसः, कर्म एधास्तस्यैव सपसा मस्पीभवनात् , संयमयोगाः संयमव्यापाराः शान्तिः, सर्वजीवोपद्रवापहारित्वात्तेषां, तथा 'होमंति' होमेन जुहोमि तपोज्योतिरिति शेषः, ऋषीणां मुनीनां सम्बन्धिना 'पसत्यंति' प्रशस्तेन जीवघातरहिततया विवेकिभिः शाषितेन सम्यक चारित्ररूपेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥४४॥ इत्यं यजखरूपं ज्ञात्वा सानखरूपं पृच्छन्तस्ते इदं स्माहुः
मूलम्-के ते हरए के अ ते संतितित्थे, कहिंसि हाओ व रयं जहासि ।
अक्खाहि णो संजयजक्खाइआ, इच्छामु नाउं भवओ सगासे ॥ ४५ ॥ व्याख्या-कस्ते तव हृदो नदः १ 'के अ तेत्ति' किं च ते शान्त्यै पापोपशमार्थ तीर्थ ? 'कहिंसि पहाओ वत्ति' वाशब्दस्य भिन्नक्रमत्वात्कस्मिन्वा सातः शुचीभूतो रज इव रजः कर्म जहासि त्यजसि ? गम्भीराशयो हि त्वं, तकिमस्माकमिव तवापि हृदतीर्थमेव शुद्धिस्थानमन्यद्वेति न विद्म इति भावः । आचश्व वद नोऽस्माकं संयतयक्षपूजित! इच्छामो ज्ञातुं भवतः सकाशे समीपे इति सूत्रार्थः ॥ ४५ ॥ मुनिराह
मूलम्-धम्मे हरए बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे ।
जहिंसि पहाओ विमलो विसुद्धो, सुसीतिभूओ पजहामि दोसं ॥ ४६॥ व्याख्या-धर्मः अहिंसादिरूपो हदस्तस्यैव कर्मरजोपहारित्वात् , ब्रह्मेति ब्रह्मचर्य शान्तितीर्थ, तदासेवने हि सकलमलमूलं रागद्वेषावुन्मूलितावेव, तदुन्मूलने च न पुनर्मलसम्भव इति, सत्याधुपलक्षणं चैतत्तथा चाह"ब्रमचर्येण सत्येन, तपसा संयमेन च॥ मातकर्षिर्गतः शुद्धिं, न शुद्धिस्तीर्थयात्रया ॥१॥" किं च भवदिष्टती
नि प्राणिपीडाहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ? यदुक्तं-“कुर्याद्वर्षसहस्रं तु, अहन्यहनि मजनम् ॥ सागरेणापि कृच्छ्रेण, वधको नैव शुद्ध्यति ॥१॥" हृदशान्तितीर्थे एव विशिनष्टि, अनाबिले मिथ्यात्वगुप्सिविराधनादिभिरकलुषे, अत एवात्मनो जीवस्य प्रसन्ना मनागप्यकलुषा लेश्या पीताद्यन्यतरा यस्मिंस्तदात्मप्रसन्नलेश्यं तस्मिन् धर्महदे ब्रह्माख्यशान्तितीर्थे च 'जहिंसित्ति' यस्मिन् सात इव सातो विमलो भावमलरहितः, अत एव विशुद्धो गतकलङ्कः, सुशीतीभूतो रागाधुत्तप्तिमुक्तः प्रजहामि प्रकर्षेण त्यजामि दूषयरि आत्मानं विकृति नयतीति दोषः कर्म।तदेवं ममापि हृदतीर्थे एव शुद्धिस्थानं, परमीशे एवेति सूत्रार्थः॥४६॥ निगमयितुमाह
मूलम्-एअं सिणाणं कुसलेहिं दिटुं, महासिणाणं इसिणं पसत्थं ।
जहिंसि णाया विमला विसुद्धा, महारिसी उत्तमठाणं पत्तत्ति बेमि ॥४७॥ व्याख्या-एतदनन्तरोक्तं सानं कुशलैदृष्टं, इदमेव च महालानं, न तु युष्मत्प्रतीतमस्यैव सकलमलापहारित्वात् , अत एव ऋषीणां प्रशस्तं प्रशंसास्पदं न तु जलनानवत् सदोषतया निधं, अस्यैव फलमाह-'जहिंसित्ति' सुव्यत्ययात् येन लाता विमला विशुद्धा इति प्राग्वत् , महर्षय उत्तमस्थानं मुक्तिरूपं प्राप्ता गता इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ ४७ ॥ एवं द्विजेषु मुनिमुपसम्पन्नेषु यक्षेण प्रगुणीकृताश्छात्राः ततस्तत्कालोचितधर्मदेशनया विप्रान प्रतिबोध्य साधुः खस्थानमाययौ ययौ च क्रमान्मुक्तिम् ॥ യമൂല്യ
മായ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रयोपाध्याय-12 मा श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वादशमध्ययनं सम्पूर्णम् ॥ १२॥ S ಎಕನಕನಹಳಹಳಿಹಾಕಲು