________________
उत्तराप्ययनसूत्रम्
॥१७॥ व्याख्या-कुशं च दर्भ, यूपं यज्ञस्तम्भ, तृणं च वीरणादि-काष्ठं च इन्धनादि, तृणकाष्ठं । अनि वहिं, सर्वत्र प्रतिगृहन्त इति शेषः । सायं सन्ध्यायां, चशब्दो भिन्नक्रमस्ततः 'पायति' प्रातश्च प्रभाते उदकं जलं स्पृशन्त आचमनादिषु परामृशन्तः 'पाणाइंति' प्राणिनो द्वीन्द्रियादीनुदकादौ भूतान् तरून् पृथिव्याधुपलक्षणश्चैतत् विहेठमानाः विविधं बाधमानाः भूयोपि पुनरपि न केवलं पुरा किन्तु शुद्धिकालेपि जलानलादिजीवोपमर्दनेन मन्दा जडाः सन्तः प्रकुरुथ प्रकर्षण उपचिनुथ पापमशुभकर्म । अयं भावः-कुशला हि कर्ममलविगमात्मिकां तात्त्विकीमेव शुद्धि मन्यन्ते, भवदभिमते यागनाने च यूपादिपरिग्रहजलस्पर्शादिभिर्जन्तूपमर्दहेतुतया प्रत्युत कर्ममलोपचयनिबन्धने एव, तत्कथं तद्धतुकशुद्धिमागेणं सुदृष्टं विदो वदेयुः? आह च वाचकमुख्यः-"शोचमाध्यात्मिकं त्यक्त्व शुद्ध्यात्मकं शुभम् ॥ जलादिशौचं यत्रेदं, मूढविस्मापनं हि तत् ॥ १॥” इति सूत्रार्थः ॥ ३९ ॥ इत्थं तद्वाचा जातसन्देहास्ते यागमाश्रित्यैवमप्राक्षुः
मूलम्-कहं चरे भिक्खु वयं जयामो, पावाई कम्माइं पणोल्लयामो।
___अक्खाहि णो संजय जक्खपूइआ, कहं सुइडं कुसला वयंति ॥४०॥ घ्याख्या-कथं केन प्रकारेण 'चरेत्ति' सूत्रत्वाचरामो यागार्थ प्रवर्तामहे वयं, हे भिक्षो ! तथा यजामो यागं कुर्मः १ कथमिति योगः, पापान्यशुभानि कर्माणि 'पणुलयामोत्ति' प्रणुदामः प्रेरयामो येनेति गम्यते, आख्याहि कथय नोऽस्माकं संयत यक्षपूजित ! । यो यस्मद्विदितः कर्मप्रणोदनोपायो यागः स तु युष्माभिपित इति भवन्त एवापरं यागमुपदिशन्त्विति भावः । ततः कथं खिष्टं शोभनयजनं कुशला वदन्तीति सूत्रार्थः ॥ ४० ॥ मुनिराह
मूलम्-छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा।
परिग्गहं इथिओ माण मायं, एअं परिणाय चरंति दंता ॥ ४१ ॥ व्याख्या-पड्जीवकायान् पृथिव्यादीन् असमारभमाणा अनुपमर्दयन्तः, 'मोसंति' मृषां अलीकं, अदत्तं च अदत्तादानमसेवमानाः, 'परिग्गहं' मूछों, स्त्रियो मानं माया तत्सहचरात्कोपलोभौ च एतदनन्तरोक्तं परिज्ञाय ज्ञपरिज्ञया दुष्कर्मनिबन्धनमिति ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्याय चरन्ति यागे प्रवर्तन्ते दान्ताः । यतश्च दान्ता एवं चरन्ति ततो भवद्भिरप्येवं चरितव्यमिति सूत्रार्थः ॥४१॥ अनेन कथं चरामो यागायेति प्रश्नसोचरमुक्तं, अथ कथं यजाम इति द्वितीयप्रश्नस्योत्तरमाह--
मूलम्-सुसंवुडा पंचहिं संवरेहिं, इह जीविअं अणवकंखमाणा ।
वोसहकाया सुइचत्तदेहा, महाजयं जयइ जण्णसिहं ॥ ४२ ॥ व्याख्या-सुसंवृताः स्थगिताश्रवद्वाराः पञ्चभिः संवरैः प्राणातिपातविरमणादिवतः, इहेत्यस्मिन्मनुष्यजन्मनि,
जीवितं प्रस्तावादसंयमजीवितमनवकांक्षन्तोऽनिच्छन्तः, अत एव व्युत्सृष्टकायाः परीषहोपसर्गसहिष्णुतया त्यक्तकायाः, शुचयोऽकलुषव्रतास्ते च ते त्यक्तदेहाचात्यन्तनिष्प्रतिकर्मतया शुरित्यक्तदेहाः, महान् जयः कर्मारिपराजयरूपो यत्र स महाजयस्तं 'जयइत्ति' वचनव्यत्ययाद्यजन्ति यतय इति गम्यं । ततो भवन्तोप्येवं यजन्तां 'जण्णसिटुंति' प्राकृतत्वात् श्रेष्ठयज्ञं श्रेष्ठशब्देन च एतद्यजनं खिष्टं कुशला वदन्ति, एष एव च कर्मप्रणोदनोपाय इति सूचितमिति सूत्रार्थः ॥ ४२ ॥ अथ यद्ययं यज्ञः श्रेष्ठस्तदा, यजमानस्य कान्युपकरणानि को पा यजनविधिः १ इति ते प्रश्नयामासुः--
मूलम्के ते जोई किं व ते जोइठाणं, का ते सुआ किं व ते कारिसंगं ।
एहा य ते कयरा संति भिक्खू , कयरेण होमेण हुणासि जोइं ॥ ४३ ॥ व्याख्या-'के इति' किं ते तव ज्योतिरमिः १ किंवा ते तय ज्योतिःस्थानं ! यत्राग्निर्निधीयते, कास्ते खुचो घृतादिक्षेपिका दर्व्यः १ किं वा ते करीष एवाङ्गं अनलोद्दीपनहेतुः करीषाङ्गं ? येनामिः सन्धुक्ष्यते, एधाश्च समिघो यामिरमिः प्रज्वाल्यते ते तव कतराः काः ? 'संतित्ति' चस्य गम्यत्वाच्छान्तिश्च दुरितोपशमहेतुरध्ययनपद्धतिः ? कतरेति प्रक्रमः, हे भिक्षो ! कतरेण होमेन हवनविधिना जुहोषि ? आहुतिभिस्तर्पयसि ? ज्योतिरमिं । षड्जीवकायारम्भनिषेधे अस्मदिष्टो होमस्तदुपकरणानि च पूर्व निषिद्धानि तत्कथं तव यज्ञसम्भवः ? इति सूत्रार्थः॥४३॥ मुनिराह