________________
॥१७८॥
उचराष्पयनसूत्रम् । ब्याख्या-अर्थे च शास्त्राणामभिधेयं, धर्म च यतिधर्म क्षान्त्यादिकं विजानन्तो विशेषेणावगच्छन्तो यूयं नापि मैव कुप्यथ, 'भूइपण्णत्ति' भूतिमङ्गलं १ वृद्धिः २ रक्षा ३ वेति वृद्धाः, ततो भूतिमङ्गलं सर्वमङ्गलोत्तमत्वेन, वृद्धि पद्धिविशिष्टत्वेन, रक्षा वा सर्वप्राणिरक्षकत्वेन, प्रज्ञा बुद्धिर्येषां ते भूतिप्रज्ञाः, अत एव 'तुम्भं तुत्ति' युष्माकमेव पादौ शरणं उपेमः खीकुर्मः समागताः सर्वजनेन वयमिति सूत्रार्थः ॥ ३३ ॥ तथामूलम्-अच्चेमु ते महाभाग!, न ते किंचि न अच्चिमो। जाहि सालिमं कूर, नाणावंजणसंजुअं॥३४॥
व्याख्या-अर्चयामः पूजयामः 'ते' इति सुबूव्यत्ययात्त्वां हे महाभाग ! न नैव ते तव किञ्चिचरणरेण्वादिकमपि नार्चयामः, तथा भुंश्व इतो गृहीत्वा 'सालिमंति' शालिमयं शालिनिष्पन्नं कूरं ओदनं नानाव्यअनैर्दध्यादिभिः संयुतमिति सूत्रार्थः ॥ ३४ ॥ अन्यच्च
मूलम-इमं च मे अस्थि पभूअमन्नं, तं भुंजसू अम्हमणुग्गहट्ठा।
बाढंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ! ॥ ३५ ॥ व्याख्या-इदं च प्रत्यक्षत एव दृश्यमानं मे मम अस्ति प्रभूतं भूरि अन्नं मण्डकखण्डखाद्यादि भोजनं तद्धव अस्माकमनुग्रहार्थे, एवं तेनोक्ते मुनिराह-बाढमेवं कुर्म इतीत्येवं ब्रुवाण इति शेषः, प्रतिच्छति द्रव्यादिभिः शुद्धमिति गृह्णाति भक्तपानं 'मासस्स उत्ति' मासस्यैव मासक्षपणस्यैवान्ते इति गम्यं, पार्यते पर्यन्तः क्रियते निय. मस्थानेनेति पारणं, तदेव पारणकं, भोजनमित्यर्थः, तस्मिन्महात्मेति सूत्रार्थः ॥३५॥ तदा च तत्र यदभूत्तदाह
मूलम्-तहिअं गंधोदयपुप्फवासं, दिवा तहिं वसुहारा य वुहा।
पहयाओ दुंदुहीओ सुरेहि, आगासे अहो दाणं च घुटं ॥ ३६ ॥ व्याख्या-'तहिति' तत्र यज्ञपाटे गन्धोदकं च पुष्पाणि च गन्धोदकपुष्पाणि तेषां वर्षे वर्षणं गन्धोदकपुष्पवर्षे सुरैरिति सम्बन्धात्कृतमिति गम्यते, नपुंसकलिङ्गनिर्देशश्चेह वर्षशब्दस्य पुनपुंसकलिङ्गत्वात् । दिव्या श्रेष्ठा 'तहिति' तत्र वसु द्रव्यं तस्य धारा सततनिपातजनितासंततिर्वसुधारा, सा च वृष्टा पातिता सुरैरिति पहापि योज्यते । तथा प्रहता दुन्दुभयो देवानकाः सुरैः । तथा तैरेवाकाशे अहो ! इत्याश्चर्ये कोन्यः किलेवं दानं दातं शक्तः १ इत्यहोदानं च घुष्टं संशब्दितमिति सूत्रार्थः ॥ ३६ ॥ तच प्रेक्ष्य विस्मिता विप्रा अप्येवमाहुः
मूलम्-सक्खं खुदीसइ तवोविसेसो, न दीसई जाइविसेसु कोई।
___ सोवागपुत्तं हरिएससाहुँ, जस्सेरिसा इड्डि महाणुभागा ॥ ३७॥ व्याख्या-'सक्खं खुत्ति' खुशब्दोऽवधारणे, ततः साक्षादेव दृश्यते तपसो विशेषो माहात्म्यं तपोविशेषः, न नैव रश्यते जातिविशेषो जातिमाहात्म्यरूपः कोपि खल्पोपि । कुतः १ इत्याह-यतः श्रपाकपुत्रं हरिकंशसाधु पश्यतेति शेषः, यस्येशी हश्यमानरूपा ऋद्धिर्देवसान्निध्यलक्षणा संपन्महानुभागा सातिशयमाहात्म्या। जा विशेषे हि सति द्विजातीनामस्माकमेव देवाः सान्निध्यं विदध्युरिति सूत्रार्थः ॥ ३७ ॥ अथ स एव मुनिस्तानुपशान्तमिथ्यात्वानिव पश्यन्निदमाह
मूलम्-किं माहणा जोईसमारभंता, उदएण सोहिं बहिआ विमग्गह ।
जं मग्गहा बाहिरिनं विसोहिं, न तं सुदिहं कुसला वयंति ॥ ३८॥ व्याख्या-किमिति क्षेपे, ततो न युक्तमिदं हे माहनाः ब्राह्मणाः ! ज्योतिरमिस्तं समारभमाणाः प्रस्तावामार्ग कुर्षन्त इत्यर्थः, उदकेन जलेन शोध विशुद्धिं 'बहिअत्ति' बायां विमार्गयथान्वेषयथ । किमेवमुपदिश्यते १ इत्याहपपूर्ण मार्गयथ बायां मानादिबायहेतुजां विशुद्धिं निर्मलतां न तत् सुदृष्टं सुष्टु प्रेक्षितं कुशलास्तत्त्वविदो बदन्तीति सूत्रार्थः ॥ ३८ ॥ एतदेव स्पष्टयति
मूलम्-कुसं च जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फुर्सता ।
पाणाई भूआई विहेडयंता, भुजोवि मंदा पकरेह पावं ॥ ३९ ॥