________________
उचराप्ययनसूत्रम् ।
॥ १७७॥
व्याख्या - आशीर्विष आशीर्विषलब्धिमान् शापानुग्रहसमर्थः, कुत इत्याह-यतोसी उग्रतपा महर्षिर्घोरतो पोरपराक्रमश्च ततश्च 'अगणिवत्ति' अ िवहिं वाशब्द इवार्थो भिन्नक्रमश्च ततः प्रस्कन्दथेव आक्रामथेव, केव १ 'पगंगसेणति' इवशब्दस्य गम्यत्वात् पतङ्गसेनेव शलभ श्रेणिरिव, यथा हि सा तमाक्रामन्ती सद्यो नाशमभुते तथा यूबमपीति भावः, ये यूयं भिक्षुकं भक्तकाले भोजनावसरे, तत्र हि दीनादीनामवश्यं देयमिति शिष्टाचारः, यूयं तु केवलं न दत्तेति न, किन्तु तत्रापि 'वहेहत्ति' विध्यथ ताडयथेति सूत्रार्थः ॥ २७॥ इत्थं तन्माहात्म्यमावेद्य कृत्यो पदशमाह - मूलम् — सीसेण एअं सरणं उवेह, समागया सबजणेण तुब्भे ।
जइ इच्छह जीविअं वा धणं वा, लोअंपि एसो कुविओ डहेजा ॥ २८ ॥ व्याख्या - शीर्षेण मूर्द्धा एतं मुनिं शरणं त्राणमुपेताभ्युपगच्छत, शिरोनमनपूर्व त्वमेव नः शरणमिति प्रतिपद्य - ध्वमिति भावः । समागताः मिलिताः सर्वजनेन सह यूयं यदीच्छत जीवितं वा धनं वा, अस्मिन् हि कुपिते नापरं जीवितादिरक्षाक्षमं शरणमस्ति, कुत इत्याह-यतो लोकमपि जगदप्येष कुपितो दहेदिति सूत्रार्थः ॥ २८ ॥ अथोपाध्यायस्तान् यादृशान् दृष्ट्वा यदकरोत्तदाह
मूलम् — अवहेडिअपिट्ठस उत्तमंगे, पसारिआबाहुअकम्मचिट्ठे ।
निब्भेरितच्छे रुहिरं वमंते, ऊडुंमुहे निग्गयजीहनेते ॥ २९ ॥
ते पासिआ खंडिअ कट्टभूए, विमणो विसण्णो अह माहणो सो । इसिं पसादेति सभारिआओ, हीलं च निंदं च खमाह भंते ! ॥ ३० ॥
व्याख्या -- अवहेठितानि अधोनमितानि 'पिट्ठत्ति' पृष्ठं यावत्सन्ति शोभनानि उत्तमाङ्गानि शिरांसि येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः, मध्यमपदलोपी समासस्तान्, प्रसारिता बाहवो येषां ते तथा, कर्माण्यग्नौ समित्क्षेपादीनि तद्विया चेष्टा कर्मचेष्टा, न विद्यते कर्मचेष्टा येषां ते तथा ततः कर्मधारये प्रसारितबाहूकर्मचेष्टास्तान्, 'निभेरियत्ति ' प्रसारितान्यक्षीणि नयनानि येषां ते तथा तान्, रुधिरं वमतः, 'उहंमुहेत्ति' उर्द्धमुखान् निर्गतजिह्वानेत्रान् ॥ २९ ॥ 'ते पासिआ इति' तान् दृष्ट्वा 'खंडिअत्ति' खण्डिकान् छात्रान् काष्ठभूतान् अत्यन्तनिश्चेष्टतया काष्ठकल्पान्, विमना विचित्तो विषण्णः कथमंमी सज्जा भविष्यन्तीति विषादं प्राप्तः, अथेति दर्शनानन्तरं ब्राह्मणः स इति रुद्रदेवाख्यः ऋषिं प्रसादयति सभार्याको भार्यायुक्तः कथमित्याह- हीलां चावज्ञां, निंदां च दोषोद्भावनरूपां, क्षमध्वं भदन्तेति सूत्रार्थः ॥ ३० ॥ पुनः प्रसादनामेवाह
मूलम् - बालेहिं मूढेहिं अयाणएहिं, जं हीलीआ तस्स खमाह भंते ! । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ ३१ ॥
व्याख्या--- बालैः शिशुभिर्मूढैः कषायोदयाद्विचित्ततां गतैरत एवाज्ञैर्हिताहितविवेकविकलैर्यत् ही लिताः 'तस्सत्ति' सूत्रत्वात् तत् क्षमध्वं भदन्त ! न हामी शिशवो मूढाः सतां कोपार्हाः, किन्त्वनुकम्पार्हा एव । यदुक्तं - "आत्महममर्यादं, मूढमुज्झितसत्पथम् ॥ सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥ १ ॥” किश्च महाप्रसादा ऋषयो भवन्ति, 'न हुत्ति' न पुनर्मुनयः कोपपरा भवन्तीति सूत्रार्थः ॥ ३१ ॥ मुनिराह
मूलम् - पुचि इहि च अणागयं च, मणप्पओसो न मे अत्थि कोई ।
जक्खा हु वेआवडिअं करेन्ति, तम्हा हु एए निहया कुमारा ॥ ३२ ॥ व्याख्या- - पूर्व च पुरा, इदानीञ्चाधुना, अनागते च भविष्यति काले, मनःप्रद्वेषो न मे अस्ति, उपलक्षणत्वादासीद्भविष्यति च, कोपीत्यल्पोपि । तर्हि कथममी ईदृशा जाताः १ इत्याह- यक्षाः 'हुरिति' यस्माद्वैयावृत्त्यं कुर्वन्ति, तस्मात् हुरवधारणे, ततस्तस्मादेव हेतोरेते प्रत्यक्षा निहताः कुमाराः, न तु मम प्रद्वेषोऽत्र हेतुरिति सूत्रार्थः ॥ ३२ ॥ ततस्तद्गुणाकृष्टचित्ता उपाध्यायादय इदमाहुः
मूलम् - अत्थं च धम्मं च विआणमाणा, तुब्भे गवि कुप्पह भूइपण्णा । तुब्भं तु पाए सरणं उवेमो, समागया सबजणेण अम्हे ॥ ३३ ॥