________________
उचराप्ययनसूत्रम्
॥१७॥ देहकुट्टिमम् ॥ तचोपयुक्तं तत्रापि, यान्तमद्रुतमैक्षत ॥ १०॥ ततः स विस्मितो विप्र-स्तस्मिन्मार्गे ययौ खयम् ॥ तुषारशीतलस्पर्श, तश्च वीक्ष्येत्यचिन्तयत् ॥ ११ ॥ पापेन पापकर्मेदं, किमहो विहितं मया ! ॥ करीषानिसमस्पर्श, मार्गसौ यत्प्रवेशितः ॥ १२ ॥ अहो ! अस्य तपः शक्ति-र्यदध्या तारशोप्यसौ ॥ सुधारसैः सिक्त इव, प्राप शैलं वचोतिगम् ! ॥ १३ ॥ तस्मान्महाप्रभावोयं, महात्मा श्रमणाग्रणीः ॥ वन्दनीयो जगद्वन्धः, शमामृतमहोदधिः ॥ १४ ॥ इति ध्यात्वा नवाम्भोद-सिक्तस्तापमिवाचलः ॥ उद्विरन् खमनाचार-मनमत्तं मुनिं द्विजः ॥ १५ ॥ ततस्तस्मै शंखसाधुः, साधुधर्ममुपादिशत् ॥ तदाकोरवैराग्यः, पर्यत्राजीत्सुरोहितः ॥ १६ ॥ जातिरूपमदौ चक्रे, स व्रतं पालयनपि ॥ मदो हि प्राणिनां मत्त- गजेन्द्र इव दुर्जयः ॥ १७ ॥ तौ च प्रान्तेप्यनालोच्य, मदौ मृत्वा दिवङ्गतः ॥ समं सुरीभिर्बुभुजे, भोगान् पुण्यद्रुपलवान् ॥ १८ ॥ [ इतश्च ]
मृतगङ्गातीरवासी, चपचानामधीश्वरः ॥ बलकोहाख्यजातीनां, बलकोट्टाभिधोऽभवत् ॥ १९ ॥ तस्याभूतामुमे गौरी-गान्धारीसंज्ञके प्रिये ॥ सोथ देवश्चयुतः खर्गा-द्रौर्याः कुक्षाववातरत् ॥ २० ॥ वसन्तसङ्गसम्भूतप्रभूतनवपल्लवम् ॥ खप्ने गौरी तदाऽपश्य-त्सहकारमहीरुहम् ॥ २१ ॥ तथा पृष्टः स्वप्नफल-मित्यूचे खान
कः ॥ खग्नेनानेन भद्रे! त्वं, सुतं श्रेष्ठमवाप्स्यसि ॥ २२ ॥ साथ तुष्टा दधौ गर्भ-मर्मश्च सुषुवे क्रमात् ॥ बलकोट्टस्ततस्तस्य, बल इत्यभिधां व्यधात् ॥ २३ ॥ स हि जातिमदात्याच्या-लेभे जन्माधमे कुले ॥ रूपदर्पाच वैरूप्यं, खेषामपि विषादकृत् ! ॥ २४ ॥ स च भण्डनशीलोऽन्या-सहनः कटुवाक्पटुः ॥ उद्वेजकोऽभूत्सर्वेषां, वर्धमानो विषद्रुवत् ॥ २५ ॥ खजनेष्वन्यदाऽऽपान-गोष्ठीस्थेषु मधूत्सवे ॥ डिम्भरूपैः समं भण्ड-चेष्टां चक्रे मुहुर्बलः ॥ २६ ॥ ततः स सर्वैरापाना-भोजनादिव कुन्तलः ॥ बहिष्कृतो वलो बालो, बाढं दुरमनायत ॥ २७ ॥ तदा च निर्गतस्तत्रा-अनपुअद्युतिः फणी ॥ जघ्ने द्राक् श्वपचैर्दुष्ट-विषोऽयमिति भाषिभिः ॥ २८॥क्षणान्तरे च तत्रागा-नागो दीपकजातिजः ॥ मुमुचे स तु चाण्डालै-निर्विषोयमिति खयम् ॥ २९ ॥ तन्निरीक्ष्य बलो दध्यौ, खदोषैरेव जन्तवः ॥ लभन्ते विपदं खीय-गुणैरेव च सम्पदम् ॥ ३० ॥ सदोषत्वादेव सर्वे, बाधन्ते बन्धवोपि माम् ॥ त्यज्यते मलवत्प्राज्ञै-र्दोषवानगजोपि हि ॥ ३१ ॥ मारितः सविषः सर्पो, निर्विषस्तु न मारितः ॥ तदोषविषमुत्सृज्य, निर्विषत्वं श्रयाम्यहम् ॥३२ ॥ ध्यायन्नित्यादि तत्कालं, प्राप्तो जातिस्मृतिं बलः ॥ नरदेवभवौ प्राच्यौ, स्मृत्वा संवेगमासदत् ॥ ३३ ॥ अहो ! मदस्य दुष्टत्व-मिति चान्तर्विभावयन् ॥ मुनीनामन्तिके धर्म, श्रुत्वा व्रतमुपाददे ॥ ३४ ॥ तप्यमानस्तपस्तीनं, विहरन् सोन्यदा ययौ ॥ वाराणसी पुरी धर्म-विहङ्गममहाद्रुमः ॥ ३५ ॥ तत्राभूत्तिन्दुकोद्याने, गण्डीतिन्दुकयक्षराट् ॥ तमनुज्ञाप्य तचैत्ये, तस्थौ खस्थमना मुनिः ॥ ३६॥ तर प्रेक्ष्य गुणाम्भोधिं, यक्षस्तत्रान्वरज्यत॥ परोपि प्रियते हार, इव चारुगुणो हृदि ॥ ३७॥ सेवमानो मुनिं तश्चा-निशं हंस इवाम्बुजम् ॥ कदाचिदपि नान्यत्र, यक्षराजो जगाम सः ॥ ३८ ॥ तत्रायातोन्यदा यक्षः, कश्चिदन्यवनस्थितः॥ नाधुना दृश्यसे किं त्य-मिति पप्रच्छ तिन्दुकम् ॥ ३९ ॥ महात्मानममुं साधु, सेवे मित्राहमन्वहम् ।। इति सम्प्रति तेऽभ्यर्ण, नागच्छामीति सोप्यवक् ॥४०॥ सोथ तचरितं वीक्ष्य, सम्बुद्धस्तिन्दुकं जगौ ॥ कृतार्थस्त्वं यदुद्याने, वसत्येष महामुनिः॥४१॥ ममोद्यानेपि यतयः, सन्ति भूयांस ईदृशाः ॥ तदेहि तत्र गच्छावो, भजावस्तानपि क्षणम् ॥ ४२ ॥ तिन्दुकोथ ययौ तेन, यक्षेण सह तदनम् ॥ विकथानिरतांस्तांच, निरीक्ष्यैवमभाषत ॥४३॥ स्त्रीभक्तराजदेशानां, जायन्त इह सङ्कथाः॥ रम्यं महर्षिणा तेन, यामस्तिन्दुकमेव तत् ॥ ४४ ॥ सुकरं मुण्डमौलित्वं, सुकरं वेषधारणम् ॥ बाया क्रियापि सुकरा, समाधानं तु दुष्करम् ! ॥ ४५ ॥ इत्युक्त्वा स प्रतिगतस्तत्रैवारज्यताधिकम् ॥ आम्रमिष्टतरं निम्बे, बनुभूते भवेद्भशम् ॥ ४६ ॥ अहो! धर्मस्य माहात्म्यं, यदाराध्योपि भूस्पृशाम् ॥ यक्षः सिपेवे तं साधु-मपि श्वपचवंशजम् ! ॥ ४७ ॥ राज्ञः कोशलिकाख्यस्य, सुता भद्राभिधाऽन्यदा॥ ययौ पूजयितं यक्षं. तचैत्ये सपरिच्छदा ॥४८॥ सा प्रदक्षिणयन्ती च, यक्षं तं मुनिमैक्षत ॥ मलालतवपूर्वस्त्रं. कुरूपं शुष्कभूषनम् ॥ ४९ ॥ अहो ! निन्धखरूपोसौ, सर्वथापीति सा ततः ॥ थूचकार विमूढा हि, तत्वं पश्यन्ति नान्तरम् ॥ ५० ॥ ततो रुष्टेन यक्षेण, सा कनी विवशीकृता ॥ असमअसमाख्यातु-मारेमे दुष्टचेष्टिता ॥५१॥ सा विषण्णेन तंत्रेण, निन्ये नृपनिकेतनम् ॥ नृपोपि तां तथा वीक्ष्य, विषादाद्वैतमासदत् ॥ ५२॥ राज्ञाथ कारिता वैद्य-मांत्रिकादिप्रतिक्रियाः ॥ मोघास्तत्राभवन् सर्वाः, सक्रिया इव दुर्जने ॥ ५३ ॥ किकर्तव्यवि