________________
॥१७॥
उत्तराप्ययनस्त्रम् गच्छति, तदानुष्ठान एव तस्य प्रवृत्तेः । न हि तस्य विवेकिनो देवत्वादिवाञ्छा, तथा च कथमस्यान्तरावस्थानं स्यात् । तस्य च महाभागस्य नीलवत्कल्पादुच्छ्रितोच्छ्रितकुलादेव प्रसूतिरिति सूत्रार्थः ॥ २८॥ मूलम्-जहा से नगाण पवरे, सुमहं मंदरे गिरी। नाणोसहिपजलिए, एवं भवइ बहुस्सुए ॥ २९ ॥
व्याख्या-यथा स नगानां प्रवरः सुमहानत्यन्तं गुरुर्मन्दरो गिरिमरुपर्वतःनानौषधिभिरनेकसमहिमवनस्पतिभिः प्रकर्षण ज्वलितो दीप्तो नानौषधिप्रज्वलितः, औषधयो यतिशायिन्यो दीपिका इव प्रज्वलन्त्य एव स्युस्ततो गिरिरपि प्रज्वलन्निव स्यात् , एवं भवति बहुश्रुतः । सोपिश्रुतमहिनात्यन्तं स्थिरोऽपरशैलकल्पान्यसाध्वपेक्षया प्रवरोऽन्धकारेऽपि प्रकाशनिदानामर्षोषध्यादिलब्धिसहितश्च स्यादिति सूत्रार्थः ॥२९॥ किंबहुना ?मूलम्-जहा से सयंभुरमणे, उदही अवखओदए । नाणारयणपडिपुण्णे, एवं भवइ बहस्सुए ॥३०॥
व्याख्या-यथा स खयम्भूरमण उदधिः समुद्रः, अक्षयमविनाशी उदकं जलं यत्र स, तथा नानारलैमेरकतादिभिः प्रतिपूर्णो नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः। सोपि ह्यक्षयसम्यगज्ञानोदको नानातिशयरत्नाढ्यश्च भवतीति सूत्रार्थः ॥ ३० ॥ अथोक्तगुणानुवादेन फलोपदर्शनेन च तस्यैव माहात्म्यमाह
मूलम्-समुद्दगंभीरसमा दुरासया, अचक्किआ केणई दुप्पधंसया।
सुअस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया ॥ ३१ ॥ व्याख्या-'समुद्दगंभीरसमत्ति' आपत्वाद्गाम्भीर्यणालब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः, समुद्रस्य गाम्भीयसमाः समुद्रगाम्भीर्यसमाः, समुद्रवद्गम्भीरा इत्यर्थः । 'दुरासयत्ति' दुःखेनाश्रीयन्ते पराभववुझ्या केनापीति दुरा
केता अत्रस्ताः केनचित् परीषहपरवाद्यादिना, तथा दुःखेन प्रधय॑न्ते केनापीति दुष्प्रधर्षकाः, 'सुअस्स पुण्णा विउलस्सत्ति' सुपव्यत्ययात् श्रुतेनागमेन पूर्णा भृता विपुलेन अङ्गानङ्गप्रविष्टादिभेदैविस्तीर्णेन बहुश्रुता इत्यर्थः । त्रायिणः त्रातारः, स्वस्य परस्य दुर्गतिपाताद्यपायेभ्यः । क्षपयित्वा विनाश्य कर्म ज्ञानावरणादि गतिमुतमां मुक्तिरूपां गताः प्राप्ता उपलक्षणत्वादच्छन्ति गमिष्यन्ति च । इहैकवचनप्रक्रमेपि वहुवचननिर्देशो व्याप्तिप्रदर्शनायेति सूत्रार्थः ॥ ३१ ॥ इत्थं बहुश्रुतगुणवर्णनरूपां पूजामुक्त्वा शिष्योपदेशमाहमलम-तम्हा सुअमाहिद्विजा, उत्तिमदगवेसएजेणप्पाणं परं चेव.सिद्धिं संपाउणिजासित्ति बेमि॥३२॥
व्याख्या-तम्हत्ति' यस्मादमी मुक्तिगमनावसाना बहुश्रुतस्य गुणास्तस्मात् श्रुतमागममधितिष्ठेत् , अध्ययनश्रषणचिन्तनादिना श्रयेत, उत्तमः प्रधानोऽर्थो मोक्ष एव तं गवेषयत्यन्वेपयतीत्युत्तमार्थगवेषकः, येन श्रुताश्रयणेनात्मानं परञ्चव सिद्धिं मुक्तिं सम्प्रापयेदिति सूत्रार्थः ॥ ३२॥ इति ब्रवीमीति प्राग्वत् ॥
FASEASRHARASTRATDASTEASPASTERSTANTDATEINDSEIGRAPAREPARASRADIREPARASPARSDAPASTOARDERDASTDASTITPATRADIODAGRANDIDIODE द इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रवोपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकादशमध्ययनं सम्पूर्णम् ॥ ११॥ davas cavasyaorasveerpooranvasyamarapannamannaanana
n d90008 ॥ अथ द्वादशमध्ययनम् ॥
2500
॥ अहम् ॥ उक्तमेकादशमध्ययनमधुना हरिकेशबलमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते। अस्स चायममिसम्बन्धः, इहानन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यतनीयमिति ख्यापनार्थ तपःसमृद्धिर्वर्ण्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थ हरिकेशबलचरितं तावदुच्यते । तथा हि
मथुरायां महापुर्या, शंखनामा महीधवः ॥ भुक्त्वा राज्यं विरक्तात्मा, परिव्रज्यामुपाददे ॥१॥ क्रमाद्गीत प्राप्तो, विहरन् वसुधातले ॥ सोगाद्रजपुरं भिक्षा-निमित्तं तत्र चाविशत् ॥ २॥ एका रथ्या हुतवह-रथाहा तत्र चाभवत् ॥ सा हि ग्रीष्मार्कसन्तप्ता, तप्तायस्पात्रतां दधौ ॥३॥ ताश्चातिगन्तुं पादाभ्यां, मुसुरोपमवालुकाम् ॥ नाभत्कोपि प्रभुवे-वालुकामिव निम्नगाम्॥४॥ यश्चाज्ञानाजनस्तस्या.रथ्यायां प्रविशत्तदास द्राक म्रिये भज्यमान इवोच्छलन् ॥५॥ ताञ्च प्राप्तो भ्रमन् साधुर-सञ्चारां समीक्ष्य सः॥ पप्रच्छासन्नसौधस्थं, सोमदेवपुरोघसम् ॥ ६॥ मार्गेणानेन गच्छामि, न वेति बद सन्मते !॥ न यज्ञातस्वरूपेणा-ध्वना गच्छन्ति धीधनाः ॥७॥ दन्दह्यमानं मार्गेऽस्मिन् , विलुठन्तमितस्ततः॥ पश्याम्येनमिति विष्टः, सोप्यूचे गम्यतामिति ॥८॥ ततस्तेनैव मार्गेण, गन्तुं प्रववृते व्रती ॥ तन्महिना स मार्गोऽभू-सलिलादपि शीतलः॥९॥ पुरोहितोपि तं द्रष्टु-मारोह