________________
उच्तराष्ययनसूत्रम्
॥ १६९ ॥
त्र्याख्या—- यथा स चतुर्भिर्हयगजरथनरात्मकैः सैन्यैरन्तः शत्रुविनाशरूपो यस्य स तथा, चक्रवर्ती षट्खण्डभरताधिपो महर्द्धिको दिव्यलक्ष्मीवान्, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि तानि चामूनि - " सेणावर १ गा हाई २, पुरोहि ३ गय ४ तुरय ५ वहुई ६ इत्थी ७ । चक्कं ८ छत्तं ९ चम्मं १०, मणि ११ कागिणि १२ खग्ग १३ दंडो १४ अ । १ । त्ति” तेषामधिपतिः खामी चतुर्दशरलाधिपतिः । एवं भवति बहुश्रुतः, सोपि हि दानादिभिचतुर्भिर्धर्मैरन्तः कर्मवैरिणामस्येति चतुरन्तः, ऋद्धयश्चामपौषध्याद्या महत्य एवास्य भवन्ति, सम्भवन्ति च चतुर्दशरोपमानि पूर्वाणि तस्येति सूत्रार्थः ॥ २२ ॥
मूलम् — जहा से सहस्सक्खे, वज्जपाणी पुरंदरे । सक्के देवाहिवई, एवं भवई बहुस्सु ॥ २३ ॥
व्याख्या -- यथा सहस्राक्षः सहस्रलोचनः, कथमिति चेदुच्यते, इन्द्रस्य हि पंच मंत्रिशतानि वन्नेत्राणां च सहस्रं इन्द्रकार्य एव व्याप्रियते इति, यद्वा यदन्ये नेत्राणां सहस्रेण पश्यन्ति तदसौ द्वाभ्यां नेत्राभ्यां साधिकं पश्यतीति सहस्राक्ष इत्युच्यते इति सम्प्रदायः । तथा वज्रं प्रहरणविशेषः पाणावस्येति वज्रपाणिः, लोकोक्त्या च असुराणां पूर्दारणात् पुरन्दरः, शक्रो देवाधिपतिरेवं भवति बहुश्रुतः । सोपि श्रुतज्ञानेन सकलातिशयनिधानेन लोचनसहस्रेणेव जानीते, ईदृशस्य च प्रशस्यलक्षणतया वज्रलक्षणमपि पाणौ सम्भवतीति वज्रपाणिः, पूः शरीरमप्युच्यते तच दुस्तपतपोनुष्ठानेन दारयति कृशीकरोतीति पुरन्दरः, दृढधर्मतया चायं सुरैरपि पूज्यत इति तत्प तिरप्युच्यत इति सूत्रार्थः ॥ २३ ॥ मूलम् — जहा से तिमिरविद्धंसे, उत्तिद्वंते दिवायरे । जलंते इव तेएणं, एवं भवइ बहुस्सुए ॥ २४ ॥
व्याख्या -- यथा स तिमिरविध्वंसस्तमः स्तोम विनाशकः उत्तिष्ठन्नुद्गच्छन् दिवाकरः सूर्यः, स हि ऊर्द्ध नभोभागमाक्रामन् भृशं तेजस्वितां भजते न त्ववतरन्नित्येवं विशिष्यते, ज्वलन्निव ज्वालां मुञ्चन्निव तेजसा महसा, एवं भवति बहुश्रुतः । सोपि हि अज्ञानध्वान्तविध्वंसी संयमस्थानेषु शुद्धशुद्धतमाद्यध्यवसायत उत्सर्पस्तपस्तेजसा ज्वलन्निव भवतीति सूत्रार्थः ॥ २४ ॥
मूलम् — जहा से उडुवइ चंदे, नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए, एवं भवइ बहुस्सुए ॥२५॥ व्याख्या- यथा स पौर्णमास्याः पूर्णिमायाः उडुपतिर्नक्षत्राधिपश्चन्द्रो नक्षत्रैरश्विन्यादिभिरुपलक्षणत्वाद्रहतार काभिश्च परिवारितः, पतिरपि कश्विदेकाक्येव स्यान्मृगपतिवदिति उडुपतिरित्युक्तेऽपि नक्षत्रपरिवारित इत्युक्तं, प्रतिपूर्णः सकलकलाकलितः, एवं भवति बहुश्रुतः । सोपि नक्षत्रकल्पानां साधूनां पतिस्तत्परिवारितः सकलकलाकलितत्वेन प्रतिपूर्णश्च स्यादिति सूत्रार्थः ॥ २५ ॥
मूलम् - जहा से सामाइ आणं, कोट्टागारे सुरक्खिए । नाणा धन्नपडिपुण्णे, एवं भवइ बहुस्सुए ॥ २६ ॥
व्याख्या -यथा स ' सामाइआणंति' समाजं समूहं समवयन्तीति सामाजिकाः समूहवृत्तयो लोकास्तेपां कोष्ठागारो धान्याश्रयः सुष्ठु प्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितश्चरमूषकादिभ्य इति सुरक्षितः, नाना अनेकप्रकाराणि धान्यानि शाल्यादीनि तैः प्रतिपूर्णो भृतो नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि सामाजिकानामिव गच्छ्वासिनामुपयोगिभिर्नानाधान्योपमैरङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्णः प्रवचनाधार
तया सुरक्षितश्च परवादिरोगादिभ्यो भवति । उक्तं हि - " जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेह ॥ न हु तुंमि विणट्ठे, अरया साहारया हुंति । १ । त्ति" सूत्रार्थः ॥ २६ ॥
मूलम् — जहा सा दुमाण पवरा, जंबू नाम सुदंसणा । अणाढिअस्स देवस्स, एवं भवइ बहुस्सुए ॥२७॥
व्याख्या -यथा सा द्रुमाणां प्रवरा जम्बूर्नाम्नाभिधानेन सुदर्शना, न हि यथेयममृतफला देवाद्याश्रयश्च तथान्यः कोपि द्रुमोस्ति, द्रुमत्वं फलव्यवहारश्चास्यास्तत्प्रतिरूपतथैव, वस्तुतस्तु पार्थिवतयोक्तत्वात्, सा च कस्येत्याह- अनातस्य अनाहतनाम्नो देवस्य जम्बूद्वीपाधिपतेर्व्यन्तरसुरस्य आश्रयतया सम्बन्धिनी, एवं भवति बहुश्रुतः । सोपि हि अमृतफलोपमश्रुतान्वितो देवानामपि पूज्यतयाभिगम्यः शेषद्रुमोपमसर्वसाधुषु च प्रवर इति सूत्रार्थः ॥ २७ ॥ मूलम् - जहा सा नईण पवरा, सलिला सागरंगमा । सीआ नीलवंतप्पवहा, एवं भवइ बहुस्सुए ॥२८॥
व्याख्या -- यथा सा नदीनां प्रवरा सलिला नदी सागरं समुद्रं गच्छतीति सागरङ्गमा समुद्रपातिनी, न तु क्षुद्र दीवदन्तरा विशीर्यते इत्यर्थः । शीता नात्री नीलवान्मेरोरुत्तरदिशि वर्षधरस्ततः प्रवहतीति नीलवत्प्रवहा, एवं भवति बहुश्रुतः । सोपि हि सरित्समानामन्यमुनीनां वरेण्यो निर्मलजलकल्पश्रुतज्ञानान्वितः सागरदेश्यां मुक्तिमेव