________________
उत्तराध्ययनसूत्रम्
प्रकारद्वयेनापीत्यपिशब्दार्थः, विराजते शोभते, तत्र हि तन्न कलुषीभवति, न चाम्लतां भजते, नापि च परिश्रवति, एवमनेन प्रकारेण बहुश्रुते 'भिक्खुत्ति' भिक्षौ मुनी, धर्मो मुनिधर्मः कीर्त्तिः श्लाघा, तथा श्रुतमागमो विराजते इति सम्बन्धः । अयं भावः - यद्यपि धर्मकीर्त्तिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभावन्ति तथापि मिध्यात्वादिकालुष्यापगमान्नैर्मल्यादिगुणैः शंख सदृशे बहुश्रुते स्थितान्याश्रयगुणेन विशेषात् शोभन्ते, न च तत्र तानि मालिन्यमन्य भावं हानिञ्च कदाचित् प्रयान्तीति सूत्रार्थः ॥ १५ ॥ पुनर्बहुश्रुतस्तवमेवाह
॥ १६८ ॥
मूलम् — जहा से कंबोआणं, आइपणे कंथए सिआ । आसे जवेण पवरे, एवं भवइ बहुस्सुए॥ १६ ॥
व्याख्या -- यथा स इति प्रसिद्धः, काम्बोजानां कम्बोजदेशोद्भवानां अश्वानां मध्ये आकीर्णो गुणैरिति शेषः, कन्थकः प्रधानोऽश्वो यः किल दृषच्छकलभृतकुतपनिपातध्वनेर्न संत्रस्यति, स्यात् भवेदश्वो जवेन वेगेन प्रवरः प्रधानः, एवमित्युपनये, तत ईशो भवति बहुश्रुतः, जैना हि मुनयः परतीर्थिकेभ्यः सकलगुणैः काम्बोजा इवान्याश्वेभ्यो विशिष्यन्ते, अयं त्वाकीर्णकन्थका श्ववत्तेभ्योप्यधिकः शीलादिगुणैः प्रवर इति सूत्रार्थः ॥ १६ ॥
मूलम् — जहाइण्णसमारूढे, सूरे दढपरकमे । उभओ नंदिघोसेणं, एवं भवति बहुस्सु ॥ १७ ॥
व्याख्या -यथा आकीर्ण जात्यादिगुणोपेतमश्वं समारूढोऽध्यासितः आकीर्णसमारूढः शूरश्वारभटो दृढपराक्रमो गाढबल: ‘उसओत्ति' उभयतो वामतो दक्षिणतश्च नान्दीघोषेण द्वादशतूर्यनिनादेन उपलक्षितो भाति, एवं भवति बहुश्रुतः । अयं भावः - यथैवंविधः शूरो न केनाप्यभिभूयते, न चान्यस्तदाश्रितस्तथायमपि जिनागमाश्वमाश्रितो दसपरवादिदर्शनेपि चात्रस्तस्तज्जयम्प्रति समर्थ उभयतश्च दिनरात्र्योः खाध्यायघोषात्मकेन नान्दीघोषेणोपलक्षितो सैरपि परैर्न पराभूयते, न च तदाश्रितोन्योपीति सूत्रार्थः ॥ १७ ॥
मूलम् - जहा करेणुपरिकिण्णे, कुंजरे सहिहायणे । बलवंते अप्पडिहए, एवं भत्रति बहुस्सुए ॥ १८ ॥
व्याख्या -- यथा करेणुपरिकीर्णो हस्तिनीभिः परिवृत्तः कुअरो हस्ती षष्टिहायनः षष्टिवर्षप्रमाणः तस्य ह्येतावत्कालं यावत्प्रतिवर्ष बलोपचयस्ततस्तदपचय इत्येवमुक्तं, अत एव च 'बलवंतेति' बलं वपुःसामर्थ्यमस्यास्तीति बलवान्, अप्रतिहतो न मदोत्कटैरपि परगजैः पराङ्मुखीक्रियते, एवं भवति बहुश्रुतः, सोपि हि करेणुभिरिव औत्पत्तिक्यादिबुद्धिभिर्विविधविद्याभिश्च वृतः पष्टिहायनतया स्थिरमतिरत एव च बलवत्तया अप्रतिहतो भवति, न हि दर्शनोपहन्तृभिः प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ १८ ॥
मूलम् - जहा से तिक्खसिंगे, जायखंधे विरायई । वसहे जूहा हिवई, एवं भवइ बहुस्सुए ॥ १९ ॥
व्याख्या --- यथा स तीक्ष्णशृङ्गी निशितविषाणः जातोऽत्यन्तमुपचितः स्कन्धोस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचयोपलक्षणञ्चैतत् विराजते वृषभो यूथाविपतिर्गोसमूहखामी सन् एवं भवति बहुश्रुतः । सोपि परपक्षक्षोदकतया तीक्ष्णाभ्यां खशास्त्रपरशास्त्ररूपाभ्यां शृङ्गाभ्यां शोभितो गच्छादिगुरुकार्यधुराधरणधुरीणतया च जातस्कन्ध इव जातस्कन्धः । अत एव यूथस्य साध्वादिसमूहस्याधिपतिराचार्यत्वं गतः सन् विराजते इति सूत्रार्थः ॥ १९ ॥ मूलम् - जहा से तिक्खदाढे, उदग्गे दुप्पहंसए । सीहे मिआण पवरे, एवं भवइ बहुस्सुए ॥ २० ॥
व्याख्या -यथा स तीक्ष्णदंष्ट्र उदग्र उत्कट अत एव 'दुप्पहंसपत्ति' दुष्प्रधर्षकोऽन्यैः पराभवितुमशक्यः सिंहः केसरी मृगाणामारण्यजन्तूनां प्रवरो भवति, एवं भवति बहुश्रुतः । अयमपि हि परपक्षभेदकत्वात्तीक्ष्णदंष्ट्रादेश्यैनैगमादिनयैः प्रतिभादिगुणोदग्रतया च दुरभिभव इत्यन्यतीर्थ्यानां मृगतुल्यानां प्रवर एवेति सूत्रार्थः ॥ २० ॥ मूलम् - जहा से वासुदेवे, संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए ॥ २१ ॥
व्याख्या- यथा स वासुदेवः, शंखं पाञ्चजन्यं, चक्रं सुदर्शनं, गदां च कौमोदकीं, धरतीति शङ्खचक्रगदाधरः । अप्रतिहतबलः अस्खलितसामर्थ्यः, अयं भावः - एकं सहजसामर्थ्यवानन्यच्च तथाविधायुधान्वित इति योधः सुभटः, एवं भवति बहुश्रुतः । सोपि ह्येकं सहजप्रतिभाप्रागल्भ्यवानपरञ्च शंखचक्रगदातुल्यैः सम्यग्ज्ञानदर्शनचा रित्रैरुपेत इति योधः कर्मवैरी पराभवं प्रतीति सूत्रार्थः ॥ २१ ॥
मूलम् — जहा से चाउरंते, चक्कवट्टी महिड्डिए । चउदसरयणा हिवई, एवं भवइ बहुरसुए ॥ २२ ॥