________________
उत्तराप्पयनसूत्रम् सस्पमपि यच्छति, किन्त्वात्मानमेव पोषयति १३ । 'अविअचेति' अप्रीतिकरो दृश्यमानो माष्यमाणो वा सर्वसाप्वप्रीतिमेयोत्पादयति १४ । एवंविधदोपान्वितोऽविनीत इत्युच्यते इतिनिगमनम् ॥९॥ इत्यमविनीतस्थानाम्युक्त्वा विनीतस्थानान्याहमूलम्-अह पण्णरसहिं ठाणेहिं. सुविणीएत्ति वुच्चई ।नीआवित्ती अचवले, अमाई अकुऊहले॥१०॥ __ व्याख्या-अथ पंचदशभिः स्थानः सुष्टु शोभनो विनीतो विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह-'नीवित्तीत्ति' नीचमनद्धतं यथास्यादेवं वर्तत हत्येवंशीलो नीचवर्ती, गुरुष न्यगवृत्तिमान यदक्तंनी मिर्ज गरे ठाणं, नीयं च आसणाणि अ॥ नीअं च पाए वंदिजा, नीअं कुजा य अंजलिं ॥१॥" तथा न चपलोऽचपलस्तत्र चपलो गतिस्थानभाषाभावभेदाचतुर्धा । तत्र गतिचपलो द्रुतद्रुतचारी, स्थानचपलो यस्तिष्ठन्नपि हस्तादिभिश्चलनेवास्ते, भाषाचपलोऽसदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाचतुर्धा । तत्रासदविद्यमानमस्ति खपुष्पमित्यादि, असभ्यं खरपरुषादि, असमीक्ष्यानालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी तु चतुर्थों योऽतीते कार्ये वक्ति, यदीदं तत्र देशे काले वाऽकरिष्यत्तदा सुन्दरमभविष्यदिति । भावचपलस्तु सः, यः प्रस्तुते सूत्रेऽर्थे वाऽसमाप्त एवान्यद् गृह्णाति २ । अमायी, न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः ३ । अकुतूहलो नेन्द्रजालादिकौतुकविलोकनतत्परः ४ ॥१०॥ मूलम् अप्पं चाहिक्खिवइ, पबंधं च न कुबई । मित्तिज्जमाणो भयइ, सुअं लटुं न मजइ ॥ ११ ॥
व्याख्या-अत्राल्पशब्दोऽभाववाची, ततश्चाल्पमिति नैव कञ्चनाधिक्षिपति तिरस्करोति ५ । प्रबन्धश्च कोपाविच्छेदरूपं न करोति ६ । मित्रीयमाणः पूर्वोक्तन्यायेन भजते, मित्रीयितारमुपकुरुते, प्रत्युपकारम्प्रत्यशक्तो वा कृतघ्नो न स्यात् ७ । श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानात्सुतरामेव नमति ८॥ ११॥ मूलम् न य पावपरिक्खेवी, न य मित्तेसुकुप्पई। अप्पिअस्सावि मित्तस्स, रहे कल्लाण भासई ॥१२॥
व्याख्या-न च पापपरिक्षेपी, पूर्वोक्तरूपः ९ । न च कथञ्चित्सापराधेभ्योपि मित्रेभ्यः कुप्यति १० । अप्रियस्थापि मित्रस्य रहसि कल्याणं भाषते, अयं भावः मित्रमितिय प्रतिपन्नः स यद्यप्यपकृतिशतानि कुरुते तथाप्येकमपि तत्कृतमुपकारमनुस्मरन् न रहस्यपि तदोषं वक्ति । आह च-“एकसुकृतेन दुष्कृत-शतानि ये नाशयन्ति ते धन्याः, न त्वेकदोषजनितो, येषां रोषः शतकृतघ्नः॥१॥” इति ॥ ११ ॥१२॥ मूलम्-कलहडमरवजए, बुद्धे अभिजाइगे। हिरिमं पडिसलीणे, सुविणीएत्ति वुच्चई ॥ १३ ॥
व्याख्या-कलहश्च वाचिको विग्रहः, डमरञ्च पाणिघातादिजं तद्वर्जकः कलहडमरवजकः १२ । बुद्धो बुद्धिमानेतच सर्वत्रानुगम्यत एवेति न प्रकृतसंख्याविरोधः । अभिजातिं कुलीनतां गच्छति जात्यवृषभ इवोत्क्षिप्तभारनि. बहणादित्यभिजातिगः १३ । ह्रीमान् लज्जावान् , स हि कलुषाशयत्वेप्यकार्यमाचरन् लज्जते १४ । प्रतिसंलीनो गुरुपार्थेऽन्यत्र वा स्थितो न हि कार्य विना यतस्ततश्चेष्टते १५ । प्रस्तुतमुपसंहरति, 'सुविणीएत्ति' स एवंविधगुणान्वितः सुविनीत इत्युच्यते इति सूत्राष्टकार्थः ॥ १३॥ यश्चैवं विनीतः स कीहक् स्यादित्याहमूलम्-वसे गुरुकुले णिचं, जोगवं उवहाणवं। पिअंकरे पिअंवाई, से सिक्खं लडुमरिहई ॥ १४ ॥
न्याख्या-वसेत्तिष्ठेगुरुकुले गच्छे नित्यं सदा गुर्वाज्ञोपलक्षणश्चैतत्ततो यावजीवमपि गुर्वाज्ञायामेव तिष्ठेदित्यर्थः । योगो व्यापारो धर्मस्य तद्वान् , उपधानमनोपानाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान् , प्रियङ्करः कथञ्चित्केनचिदपकृतोपि न तत्प्रतिकूलं करोति, किन्तु ममैव कर्मणोऽसौ दोष इति ध्यायन् अप्रियकारिण्यपि प्रियमेव चेष्टत इत्यर्थः । अत एव 'पिअंवाइत्ति' केनचिदप्रियमुक्तोपि प्रियमेव वदतीत्येवंशीलः प्रियंवादी । आह च"करयलमलिअस्स वि दमणयस्स महमहइ पेसलो गंधो । तविअस्सवि सज्जणमाणुसस्स महुरा समुल्लावा ॥१॥' तथा चास्य को गुणः १ इत्याह-स एवंविधगुणवान् शिक्षा शास्त्रार्थग्रहणतदासेवनादिरूपां लन्धुमवाप्तुमर्हति योग्यो भवति, न तु तद्विपरीतोऽविनीतः। यश्च शिक्षा लभते स बहुश्रुतोऽपरस्त्वबहुश्रुत इति भाव इति सूत्रार्थः ॥ १४ ॥ एवं सविपक्षं बहुश्रुतं सप्रपञ्चमभिधाय तस्यैव स्तुतिद्वारेण पूर्वप्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारमाहमूलम्-जहा संखमि पयं निहित्तं,दुहओवि विरायइ। एवं बहुस्सुए भिक्खू , धम्मो कित्ती तहा सुयं १५ व्याख्या-यथेति दृष्टान्ते, शंखे पयो दुग्धं निहितं न्यस्तं 'दुहओवित्ति' खसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन