________________
॥१६६॥
उत्तराप्ययनसूत्रम् कोऽस्येयनिग्रहः, अभीक्ष्णं पुनः पुनः उत् प्राबल्येनासम्बद्धभाषितादिरूपेण लपति वक्कि उल्लपति, अविनीतच विनयरहितः, 'अबहुस्सुएत्ति' यत्तदोर्नित्याभिसम्बन्धात्सोऽबहुश्रुत उच्यते इति शेषः । इह व सविद्यस्याप्यपहुश्रुतत्वं बहुश्रुतत्वफलाभावादिति ध्येयं, एतद्विपरीतस्तु बहुश्रुत इति सूत्रार्थः ॥२॥ अथेशमबहुश्रुतत्वं बहुश्रुतत्वश कथं स्यादित्याहमूलम्-अह पंचहि ठाणेहिं, जेहिं सिक्खा न लब्भई।थंभा कोहा पमाएणं, रोगेणालस्सएण य॥३॥
व्याख्या-अथेत्युपन्यासे, पञ्चभिः स्थानैः प्रकारैर्यवेक्ष्यमाणैः शिक्षा ग्रहणासेवनात्मिका न लभ्यते तैरीशमबहुश्रुतत्वं प्राप्यत इति शेषः । केः पुनः सा न लभ्यते । इत्याह-स्तम्भात् मानात् , क्रोधात् कोपात् , प्रमादेन मचादिना, रोगेण गलत्कुष्टादिना, आलस्येनानुत्साहात्मना, शिक्षा न लभ्यत इति प्रक्रमः । पशब्दः समस्ताना व्यस्तानाश्चैषां हेतुत्वं द्योतयति ॥ ३॥ एवमबहुश्रुतत्वहेतूनुक्त्वा बहुश्रुतत्वहेतूनाहमूलम्-अह अहहिं ठाणेहि, सिक्खासीलेत्ति वुच्चइ ।अहस्सिरे सया दंते, न य मम्ममुदाहरे ॥४॥
व्याख्या-अथाष्टभिः स्थानैः शिक्षा शीलयत्यभ्यस्यतीति शिक्षाशील इति उच्यते, जिनादिभिरिति शेषः । तान्येवाह-'अहस्सिरेत्ति' अहसनशीलो न सहेतुकमहेतुकं वा हसन्नेवास्ते, सदा सर्वकालं दान्त इन्द्रियनोइन्द्रियदमवान् , न च मर्म परापभाजनकारि उदाहरेत् उच्चारयेत् ॥ ४ ॥ मूलम्-नासीले न विसीले अ, न सिआ अइलोलए।अक्कोहणे सच्चरए, सिक्खासीलेत्ति वुच्चइ ॥५॥ __ व्याख्या-न नैव अशीलः सर्वथाशीलविकलः, न विशीलो न विरूपशीलोऽतीचारकलुषितव्रतः, न स्यान्न भवेदतिलोलुपोऽत्यन्तं रसलम्पटः, अक्रोधनः क्षमावान् , सत्यरतस्तथ्यवचनासक्तः, 'सिक्खासीलेत्ति' इत्येवमनन्तरोक्तगुणवान् शिक्षाशील इत्युच्यत इति सूत्रत्रयार्थः ॥५॥ किश्चाबहुश्रुतत्वबहुश्रुतत्वयोरविनयविनयावेव मूलहेतू ततो यैः स्थानैरविनीतो यैश्च विनीतस्तानि दर्शयितुमाहमूलम्-अह चउदसहिं ठाणेहिं, वदृमाणे उ संजए । अविणीए वुच्चई सो उ, निवाणं च न गच्छइ ॥६॥ ___ व्याख्या-अथेति प्राग्वत् , चतुर्दशसु स्थानेषु, सूत्रे सप्तम्यर्थे तृतीया सूत्रत्वात् , वर्तमानस्तिष्ठन् , तुः पूरणे, संयतो मुनिरविनीत इत्युच्यते, 'सो उत्ति' स पुनरविनीतो निर्वाणं मोक्षं न गच्छति ॥ ६॥ चतुर्दशस्थानान्याहमूलम्-अभिक्खणं कोही हवइ, पबंधं च पकुबई । मित्तिजमाणो वमइ, सुअं लभ्रूण मजइ ॥ ७॥ __ व्याख्या-अभीक्ष्णं पुनः पुनः क्रोधी भवति, सहेतुकमहेतुकं वा कुप्यन्नेवास्ते १ । प्रबन्धं च कोपस्यैवाविच्छेदरूपं 'पकुवइत्ति' प्रकर्षण करोति, कुपितः सन्ननेकैरपि सान्त्वनैर्नोपशाम्यति २ । 'मित्तिजमाणोत्ति' मित्रीयमाणोपि मित्रं ममायमस्त्वितीप्यमाणोपि अपे सस्य दर्शनाद्वमति सजति, प्रस्तावान्मैत्री, अयं भावः-यदि कोपि साधुर्धामिकतया वक्ति, यथाहं तव पात्रलेपादि कार्य कुर्वे इति, ततोसौ प्रत्युपकारभीरुतया प्रतिवक्ति, ममालमनेनेति । यद्वा कृतमपि कृतघ्नतया न मन्यते इति वमतीत्युच्यते ३ तथा 'सुअंति' अपेर्गम्यत्वात् श्रुतमप्यागममपि लब्ध्वा माद्यति, दर्प याति । श्रुतं हि मदापहं, स तु तेनापि रप्यतीति भावः ४ ॥७॥ मूलम्-अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ । सुप्पिअस्सावि मित्तस्स, रहे भासइ पावगं ॥८॥
व्याख्या-अपिः सम्भावने, पापैः कथञ्चित्समित्यादिषु स्खलितलक्षणैः परिक्षिपति निन्दतीत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति शेषः । गुरूणां समित्यादौ स्खलितलक्षणं पापं पुरस्कृत्य तानिंदतीत्यर्थः ५ । अपिभिन्नक्रमस्ततो मित्रेभ्योपि सुहृयोपि कुप्यति क्रुध्यति, सूत्रे सप्तमी चतुर्थ्यर्थे ६ । तथा सुप्रियस्याप्यतिवल्लभस्थापि मि. प्रस्य रहसि एकान्ते भाषते, पापमेव पापकं, अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रतिसेवकोयमित्यादिकं तदोषमेवाविकरोतीति भावः ७॥८॥ मूलम्-पइण्णवाई दुहिले, थद्धे लुद्धे अणिग्गहे। असं विभागी अविअत्ते, अविणीएत्ति वुच्चई ॥९॥
व्याख्या-प्रतिज्ञया इदमित्थमेवेत्येकान्तवादरूपया वदनशीलः प्रतिज्ञावादी, यद्वा प्रकीर्णमसम्बद्धं वदतीति प्रकीर्णवादी ८। 'दुहिलेत्ति' द्रोहणशीलो द्रोग्धा, मित्रस्यापीति शेषः ९ । स्तब्धस्तपस्व्यहमित्यायहकृतिमान् १० । लुब्धो भोज्यादिष्वमिकांक्षावान् ११ । अनिग्रहः प्राग्वत् १२। असंविभागी आहारादिकं प्राप्यातिगर्द्धनो नान्यस्मै