________________
उतराष्ययनसूत्रम्
मूलम् — अबले जह मारवाहए, मा मग्गे विसमेऽवगाहिआ ।
पच्छा पच्छाणुतावए, समयं गोअम मा पमायए ॥ ३३ ॥
ब्याख्या—अबलो देंहसामर्थ्यहीनो यथेत्यौपम्ये भारवाहकः, मा निषेधे 'मग्गेत्ति' मार्ग 'विसमेत्ति' विषमं जयare प्रविश्य त्यक्ताङ्गीकृतभारः सन्निति गम्यं, पश्चात्तत्कालानन्तरं, पश्चादनुतापकः पश्चात्तापकरोभूदिति शेषः । अयं मःमः --यथा कश्चिद्दुःस्थो देशान्तरं गतो बहुभिरुपायैः खर्णादिकमुपार्ज्य खगृहमागच्छन्नतिभीरुतया वस्त्वन्तरान्तहितं स्वर्णादिकं खशिरस्यारोप्य कतिचिद्दिनानि समुत्पाट्य क्वचिदुपलादिसङ्कुले पथि अहो अहमनेन भारेणाकान्त इति तमुत्सृज्य गृहमागतोत्यन्तनिर्धनतयानुतप्यते, किं मया निर्भाग्येन त्यक्तमिति । एवं त्वमपि प्रमादेन त्यक्तसंबमभारः सन्नेवंविधो मा भूः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३३ ॥ अथाल्पं तीर्ण बहु च तरणीयमिलभिप्रायेणोत्साहभङ्गो मा भूदित्याह
मूलम् - तिष्णोहुसि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ । अभितुर पारं गमित्तए, समयं गोयम मा पमायए ॥ ३४ ॥
॥ १६५ ॥
व्याख्या
- 'तिण्णोहुसित्ति' तीर्ण एवासि, अर्णवमिवार्णवं संसारं महान्तं गुरुं किमिति प्रश्ने, पुनरिति वाक्योपम्यासे, ततः किं पुनस्तिष्ठसि ? तीरमागतः प्राप्तः । भावतो हि अर्णवो भवः कर्म वा, स च द्विविधोपि त्वया तीर्णप्राय एवेति कथं तीरं प्राप्तोपि औदासीन्यं भजसे १ नैवेदं तवोचितमिति भाषः । किन्तु 'अभितुरत्ति' आभिमुख्येन त्वरख शीघ्रो भव, पारं परतीरं, भावतो मुक्तिपदं 'गमित्तएत्ति' गन्तुं । ततश्च समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३४ ॥ न च मम पारप्राप्तियोग्यता नास्तीत्यपि ध्येयं, यतः -
मूलम् — अकलेवरसेणिमूसिआ, सिद्धिं गोअम लोअं गच्छसि ।
खेमं च सिवं अणुत्तरं, समयं गोअम मा पमायए ॥ ३५ ॥
म्याख्या- न विद्यते कलेवरं वपुर्येषां ते अकलेवराः सिद्धास्तेषां श्रेणिं उत्तरोत्तरशुभाध्यवसायरूपां क्षपकश्रेणि 'ऊसिअन्ति' उच्छ्रित्य उत्तरोत्तरसंयमस्थानावात्या उच्छ्रितामिव कृत्वा हे गौतम ! त्वं सिद्धिं सिद्धिसंज्ञं लोकं 'गच्छसित्ति' विभक्तिव्यत्ययाद्गमिष्यसि कीदृशं ? सिद्धिलोकमित्याह-क्षेमं परचक्रादिभयहीनं, चः समुच्चये, शिवमशेषदुरितोपशान्तिकलितं, अनुत्तरं सर्वोत्कृष्टं, ततः समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३५ ॥ अथ निगमयन्नुपदेशसर्वखमाहमूलम् — बुद्धे परिनिबुडे चरे, गाम गए नगरे व संजए ।
संतिमग्गं च वूहए, समयं गोअम मा पमायए ॥ ३६ ॥ ॥ अथैकादशमध्ययनम् ॥
॥ अर्हम् ॥ उक्तं दशममध्ययनं, अथ बहुश्रुतपूजाख्यमेकादशमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययनेऽप्रमादार्थमनुशिष्टिरुक्ता, सा च विवेकिनैव सम्यगवधार्यते, विवेकश्च बहुश्रुतपूजातो भवतीत्यत्र बहुश्रुतपूजोच्यते, इत्यनेन सम्बन्धेनायातस्य अस्येदमादिमं सूत्रम् -
मूलम् -संजोगा विप्प मुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुत्रिं सुणेह मे ॥१॥
व्याख्या– संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोः, आचारमुचितविधिं बहुश्रुतपूजारूपं, प्रादुष्करिष्यामि जानुपूर्व्या क्रमेण शृणुत मे मम वदत इति शेष इति सूत्रार्थः ॥ १ ॥ इह हि बहुश्रुतपूजा प्रक्रान्ता, बहुश्रुतखरूपञ्चाबहुश्रुतखरूपे प्ररूपिते सुखेनैव ज्ञायत इति तत्स्वरूपं तावदाह
मूलम् — जे आवि होइ निविज्जे, थद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवई, अविणीए अबहुस्सु ॥२॥
व्याख्या—यः कश्चित् ; चापिशब्दौ भिन्नक्रमावग्रे योक्ष्येते, भवति निर्विद्यः सम्यक्शास्त्रावगमविनाकृतः, अपि शब्दस्येह सम्बन्धात्सविद्योपि यः स्तब्धोऽहङ्कारी, लुब्धो रसादिषु गृद्धः, न विद्यते निग्रह इन्द्रियमनोनिरोधात्म