________________
उचराप्पयनस्त्रम्
165A न्यासे, ततः किं पुनस्तिष्ठसि ? तीरमागतः प्राप्तः । भावतो हि अर्णयो भवः कर्म षा, स च द्विविधोपि त्वया तीर्णप्राय एवेति कथं तीरं प्राप्तोपि औदासीन्यं भजसे ? नैवेदं तवोचितमिति भावः । किन्तु 'अभितुरत्ति' आभिमुख्येन वरख शीनो भव, पारं परतीरं, भावतो मुक्तिपदं 'गमित्तएत्ति' गन्तुं। ततय समयमित्यादि प्राग्वदिति सूत्रार्थः॥३४॥ न च मम पारप्राप्तियोग्यता नास्तीत्यपि ध्येयं, यतः
मूलम्-अकलेवरसेणिमूसिआ, सिद्धिं गोअम लोअं गच्छसि ।
खेमं च सिवं अणुत्तरं, समयं गोअम मा पमायए ॥३५॥ व्याख्या-न विद्यते कलेवरं वपुर्येषां ते अकलेवराः सिद्धास्तेषां श्रेणि उत्तरोत्तरशुभाध्यवसायरूपां आपकणि 'ऊसिमत्ति' उच्छ्रित्य उत्तरोत्तरसंयमस्थानावाप्त्या उच्छ्रितामिव कृत्वा हे गौतम ! त्वं सिद्धिं सिद्धिसंज्ञं लोकं 'गच्छसित्ति' विभक्तिव्यत्ययाद्गमिष्यसि, कीदृशं ? सिद्धिलोकमित्याह-क्षेमं परचक्रादिभयहीनं, चः समुपये, शिवमशेषदुरितोपशान्तिकलितं, अनुत्तरं सर्वोत्कृष्टं, ततः समयमित्यादि प्राग्वदिति सूत्रार्थः ॥३५॥ अथ निगमयन्नुपदेशसर्वस्खमाह
मूलम् -बुद्धे परिनिबुडे चरे, गाम गए नगरे व संजए।
संतिमगं च वूहए, समयं गोअम मा पमायए ॥ ३६ ॥
व्याख्या-बुद्धो ज्ञातहेयादिविभागः, परिनिर्वृतः कषायामिशान्त्या शीतिभूतः सन् चरेरासेवख संयममिति शेषः, 'गामत्ति' विभक्तिलोपात् प्रामे गतः स्थितो नगरे वा उपलक्षणत्वादरण्यादिषु वा सर्वत्रापि नीराग इति भावः, संयतः सम्यकपापस्थानेभ्यो निवृत्तः शान्तिमार्ग मुक्तिमार्ग, च शब्दो भिन्नक्रमस्ततो बृहयेच भन्यजनेभ्य उपदेशनाददि नयेः, ततः समयमपि गौतम मा प्रमादीरिति सूत्रार्थः ॥३६॥ इत्थं जिनोतमाकर्ण्य गौतमो यदकात्तिदाह
मूलम् बुद्धस्स निसम्म भासिअं, सुकहिअमट्टपओवसोहिअं।
रागं दोसं च छिंदिआ, सिद्धिं गई गए भयवं गोयमेत्ति बेमि ॥ ३७॥ व्याख्या-बुद्धस्य केवलालोकालोकितलोकालोकखरूपस्य श्रीवर्धमानखामिनो निशम्याकर्ण्य भाषितं वचः, सुषु
मादर्शनादिप्रकारेण कथितं, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, रागद्वेषं च कित्ता सिद्धिं गतिं गतो भगवान् गौतमः प्रथमगणधर इति सूत्रार्थः ॥ ३७॥ इति ब्रवीमीति प्राग्वत् ॥ १०॥
യായാമറയ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ दशमाध्ययनं सम्पूर्णम् ॥१०॥ कलललललललललललललललललललल
சலம்