________________
॥१७॥
उचराप्पयनसूत्रम्। मूढेऽथ, जाते राज्ञि सधीसखे ॥ पात्रमेकमधिष्ठाय, यक्षोध्यक्षमदोवदत् ॥ ५४ ॥ निन्दा निदानं दुःखाना, यन्मुनेनिर्मितानया ॥ तद्यदीयं दीयतेऽस्मै, तदा मुश्चामि नान्यथा ॥ ५५ ॥ जीवत्वसाविति मापः, प्रत्यपद्यत तहचः ॥ ततः सा सुस्थतां प्राप, तमोमुक्तेव चन्द्रिका ॥ ५६ ॥ साथ राज्ञाभ्यनुज्ञाता, सतंत्रागात्सुरालयम् ॥ महत्तरीमिमादिष्टा. निश्यगान्मुनिसनिधी ॥ ५७॥ तश्च साधुं प्रणम्योचे, स्वामिन् । पाणिं गृहाण मे ॥ म्याह व्रती कृतं भद्रे !, वार्तयाप्यनया मया ! ॥ ५८ ॥ न ये स्त्रीभिः सहेच्छन्ति, वासमप्येकसमनि ॥ कुर्वन्ति पाणिग्रहणं, तासां ते श्रमणाः कथम् १ ॥ ५९ ॥ नारीष्वशुचिपूर्णासु, मुक्तिस्त्रीसङ्गमोत्सुकाः ॥ अवेयकादिसुरव-द्रज्यन्ते नो मह. र्षयः ।६०॥ श्रुत्वेति वलमाना सा, व्यूढा यक्षेण साधा ॥ आच्छाद्य शमिनो रूपं, रूपान्तरविधायिना ॥६॥ मुहुर्मुहुर्मुने रूपं, दिव्यं रूपञ्च दर्शयन् ॥ यक्षो विडम्बयामास, तां कनीमखिलां निशाम् ॥ ६२ ॥ प्रभाते च मुनिन त्वा-मिच्छतीत्यामरं वचः ॥ श्रुत्वा सा विमनास्तात-गेहेऽगात्सपरिच्छदा ॥ ६३ ॥ ताञ्चायान्तीं वीक्ष्य रक्तो, रुद्रदेवपुरोहितः॥ ज्ञाततत्पूर्ववृत्तान्तः, पृथ्वीकान्तमदोऽवदत् ॥ ६४ ॥ खामिन्नसौ मुनिवधू-स्त्यक्ता तेनेति साम्प्रतम् ॥ द्विजानां कल्पते देवा-र्चकानामिव तद्वलिः ॥६५॥ युज्यतेऽथैवमेवेति, ध्यात्वा भूपोपि तां सनीम् ॥ तस्मायेव ददौ गौरी-मिवेशाय हिमाचलः ॥ ६६ ॥ मुनिवान्तामपि प्राप्य, तां जहर्ष पुरोहितः ॥ क्षुद्रो प्रसारमप्याप्य, वस्तु वेवास्थि मोदते ! ॥ ६७ ॥ अथ भोगसुखं तया समं, बुभुजे भूरि मुदा पुरोहितः ॥ स च यज्ञवधू विधाय तां, नृपपुत्री मखमन्यदा व्यधात् ॥ ६८ ॥ इत्युक्तः सम्प्रदायः । सम्प्रदायशेषं तु सूत्रसिद्धमिति सम्प्रति मूत्रमेवानुत्रियते । तदम्मूलम्-सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नामं, आसि भिक्खू जिइंदिओ॥१॥
व्याख्या-श्वपाककुलं चाण्डालवंशस्तत्र सम्भूत उत्पन्नः श्वपाककुलसम्भूतः, उत्तरान् प्रकृष्टान् गुणान् ज्ञानादीन् धरतीति उत्तरगुणधरः, सूत्रे तु पूर्वापरनिपातः प्राकृतत्वात् , मुनिः साधुः, श्वपाककुलोत्पन्नोपि कश्चित्सवासादिना पूर्व मेतार्य इवान्यथापि प्रतीतः स्यादत आह-हरिकेशो हरिकेश इति चाण्डाल इति सर्वत्र प्रतीतो बलो नाम बलाभिधः, आसीद्भिक्षुर्जितेन्द्रिय इति सूत्रार्थः ॥ १॥ स कीदृशः किञ्च चकारेत्याहमूलम्--इरिएसणभासाए, उच्चारेसमिईसु अ। जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ॥२॥
व्याख्या-र्या च एषणा च भाषा च उच्चारश्च ईर्येषणाभाषोच्चाराः, एकारस्तूभयत्रापि सूत्रेऽलाक्षणिकः । तत्रोचारः पुरीषं, तत् परिष्ठापनमपीहोचार उक्तः, उपलक्षणश्चैतत् प्रश्रवणादिपरिष्ठापनस्य, तद्विषयाः समितयः सम्यक्प्रवर्तनरूपा ईषणाभाषोचारसमितयस्तासु यतो यत्नवान् । प्राच्यचशब्दस्य भिन्नक्रमत्वादादाननिक्षेपे ५ पीठफलकादिग्रहणस्थापने च यतः । किम्भूतः सन्नित्याह- संयतः संयमयुक्तः, सुसमाहितः सुष्टु समाधिमानिति सूत्रार्थः ॥ २॥ मूलम्-मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। भिक्खट्ठा बंभइजमि, जण्णवाडमुवडिओ॥३॥ ___ व्याख्या--मनो गुप्तमशुभाध्यवसायेभ्यो निवृत्तमस्येति मनोगुप्तः, एवं वाग्गुप्तः, कायगुप्तश्च, जितेन्द्रियः पुनरसोपादानमतिशयख्यापकं, "भिक्खट्टत्ति' भिक्षार्थ 'वंभइजंमित्ति' ब्रह्मणां ब्राह्मणानां इज्या यजनं यस्मिन् स अमेज्यस्तस्मिन् , 'जण्णवाडंति' यज्ञपाटे उपस्थितः प्राप्त इति सूत्रार्थः ॥ ३ ॥ तदा चमूलम्-तं पासिऊणमेजतं, तवेण परिसोसिअं । पंतोवहिउवगरणं, उवहसंति अणारिआ ॥४॥
व्याख्या-तं बलमुनि 'पासिऊणंति' दृष्ट्वा 'एजंतंति' आयान्तं, तपसा षष्ठाष्टमादिना परिशोषितं कृशीकृतं, तथा प्रान्तो जीर्णत्वमालिन्यादिना असार उपधिर्वर्णकल्पादिरौधिकः, उपकरणञ्च दण्डकादि औपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं, उपहसन्त्यनार्या अशिष्टा इति सूत्रार्थः ॥ ४ ॥ कथं पुनरनार्याः कथञ्चोपाहसन्नित्साहमूलम्--जाईमयपडित्थद्धा, हिंसगा अजिइंदिआ । अबंभचारिणा बाला, इमं वयणमब्बवी ॥५॥
व्याख्या-जातिमदेन ब्राह्मणा वयमित्यादिरूपेण प्रतिस्तब्धाः जातिमदप्रतिस्तब्धाः, हिंसकाःप्राणिप्राणापहारिणः, अजितेन्द्रियाः, अत एव अब्रह्मचारिणो मैथुनसेविनः । वर्ण्यते हि तन्मते मैथुनमपि धर्माय-"धार्थ पुत्रकामस्य, खदारेअभिकारिणः ॥ ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥ १॥" तथा "अपुत्रस्य गति स्ति, खर्गो नैव च नैव च ॥